| YouTube Channel

सात्त्विकः (sAttvikaH)

 
Hindi
Hindi
अच्छाई की मोड में
Apte Hindi
Hindi
सात्त्विकः
पुं*
- सत्त्व + ठञ्
"भावनाओं या संवेगों का बाह्य संकेत, काव्य में भावों का एक प्रकार"
सात्त्विकः
पुं*
- सत्त्व + ठञ्
ब्राह्मण
सात्त्विकः
पुं*
- सत्त्व + ठञ्
ब्रह्मा
Wordnet
Sanskrit
Synonyms:
सौजन्यम्, साधुता, सज्जनता, सभ्यता, सत्त्ववृत्तिः, उत्तमता, उत्तमत्वम्, गुणः, प्रशस्तता, प्रशस्तत्वम्, सद्भावः, सात्त्विकः, सात्त्विकता, साधुभावः, सुजनता, सुजनत्वम्, सौष्ठ, कुलीनता
noun
सुजनस्य भावः।
"पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन्मन्त्री सुसुतः प्रिया प्रियतमा भक्तिश्च नारायणे सत्पुण्येन विना त्रयोदशगुणाः संसारिणां दुर्लभाः।"
शब्दकल्पद्रुमः
Sanskrit
सात्त्विकः,
पुं,
(सत्त्वात् सत्त्वगुणप्रधाणात् विष्णो-र्भूतः सत्त्व + ठञ् ।) ब्रह्मा (सात्त्वं सत्त्व-गुणोऽस्यास्तीति ठन् विष्णुः इति महा-भारतम् १३ १४९ १०६
) त्रिविध-भावान्तर्गतभावविशेषः इति हेमचन्द्रः
तस्य लक्षणं यथा, --“सत्त्वोत्कटे मनसि ये प्रभवन्ति भावा-स्ते सात्त्विका इति विदुर्म्मुनिपुङ्गवास्ते ।”इति सर्व्वानन्दः
ते यथा, --“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।वैवर्णमश्रुप्रलय इत्यष्टौ सात्त्विका मताः
”प्रलयो मूर्च्छा इति भरतः
सात्त्विकः, त्रि, (सत्त्वेन निर्वृत्तः तेन निर्वृत्त-मिति ठञ् ।) सत्त्वगुणनिष्पादितः इत्यमरः ।१ १६
सत्त्वं मनोगुण आशयो वा तेननिष्पादितः सात्त्विकः स्वेदादिः सत्त्वशब्दात्ढघे कादिति ष्णिकः इति भरतः
*
सत्त्व-गुणयुक्तः तद्विवरणं यथा, गीतायाम् १७ ।“यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः
”सात्त्विकयज्ञो यथा, गीतायाम् १७ ११ ।“अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो इज्यते ।यष्टव्यमेवेति मनः समाधाय सात्त्विकः
”सात्त्विकतपो यथा, तत्रैव १७ १७ ।“श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते
”सात्त्विकदानं यथा, तत्रैव १७ २० ।“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।देशे काले पात्रे तद्दानं सात्त्विकं स्मृतम्
”सात्त्विकयोगो यथा, तत्रैव १८ ।“कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन ।सङ्गं त्यक्त्वा फलञ्चैव त्यागः सात्त्विको मतः
”सात्त्विकज्ञानं यथा, तत्रैव १८ २० ।“सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते ।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्वि-कम्
”सात्त्विककर्म्म यथा, तत्रैव १८ २३ ।“नियतं सङ्गरहितमरागद्बेषतः कृतम् ।अफलप्रेय्सुना कर्म्म यत्तत् सात्त्विकमुच्यते
”सात्त्विकबुद्धिर्यथा, तत्रैव १८ ३० ।“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये ।बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी
”सात्त्विकी धृतिर्यथा, तत्रैव १८ ३३ ।“धृत्या यया घारयते मनःप्राणेन्द्रियक्रियाः ।योगेनाव्यभिचारिण्या धृतिः सा पार्थ !सात्त्विकी
”सात्त्विकसुखं यथा, तत्रैव १८ ३७ ।“यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्
”सात्त्विकपुराणानि यथा, --“वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ।सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै
”सात्त्विकस्मृतयो यथा, --“वाशिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा ।भारद्वाजं काश्यपञ्च सात्त्विका मुक्तिदाःशुभाः
”इति पाद्मोत्तरखण्डे ४३ अध्यायः
सात्त्विकप्रियाहारा यथा, --“आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः ।रस्याः स्निग्धाः स्थिरा हृद्या आहाराःसात्त्विकप्रियाः
”इति श्रीभगवद्गीतायाम् १७
सात्त्विककर्त्ता कर्त्तृशब्दे सात्त्विकाहार आहार-शब्दे द्रष्टव्यः