| YouTube Channel

सात्त्वतः (sAttvataH)

 
वैजयन्तीकोषः
Sanskrit
Word: सात्त्वतः
Root: सात्त्वत
Gender: पुं
Number: all
अर्थः
Meaning(s):
Son of a Vaiśya Vrātya and a Vaiśya who was formerly the wife of a Kṣatriya.
Shloka(s):
3|5|57|2 शूद्रपूर्वा द्विजन्मानं सात्त्वतं क्षत्रपूर्विका॥ (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
3|5|57|2 सात्त्वतः (सात्त्वत) (पुं) Son of a Vaiśya Vrātya and a Vaiśya who was formerly the wife of a Kṣatriya.
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
सात्त्व(त्व)तः,
पुं,
(सात्त्वतस्यापत्यं पुमानिति सात्त्वत+ अञ् ।) बलदेवः इति हेमचन्द्रः
(कृष्णः ।यथा, महाभारते २१९ १२ ।“ततस्तत्र महाबाहुः शयानः शयने शुभे ।आपगानां वनानाञ्च कथयामास सात्त्वते
”यादवमात्रे यथा, तत्रैव २२२ ।“अर्थलुब्धान् वः पार्थो मन्यते सात्त्वतान्सदा ।स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः
*
सत्त्वमेव सात्त्वं तत् तनोतीति तन + डः ।)विष्णुः इति त्रिकाण्डशेषः
(सच्छब्देनसत्त्वमूर्त्तिर्भगवान् उपास्यतया विद्यतेऽस्येति मतुप् ततः स्वार्थे अण् ।) विष्णु-भक्तविशेषः यथा, --“सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् ।योऽनन्यत्वेन मनसा सात्त्वतः समुदाहृतः
विहाय काम्यकर्म्मादीन् भजेदेकाकिनं हरिम् ।सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः
मुकुन्दपादसेवायां तन्नामश्रवणेऽपि ।कीर्त्तने रतो भक्तो नाम्नः स्यात् स्मरणेहरेः
वन्दनार्च्चनयोर्भक्तिरनिशं दास्यसख्ययोः ।रतिरात्मार्पणे यस्य दृढानन्तस्य सात्त्वतः
”इति पाद्मोत्तरखण्डे ९९ अध्यायः
*
यदुवंशीयसत्त्वतराजपुत्त्रः यथा, --“अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य तु रिक्-थभाक् ।अथांशोः सत्त्वतो नाम विष्णुभक्तः प्रतापवान्
महात्मा दाननिरतो धनुर्व्वेदविदां वरः ।स नारदस्य वचनाद्वासुदेवार्च्चनान्वितः
शास्त्रं प्रवर्त्तयामास कुण्डगोलादिभिः श्रुतम् ।तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम्
प्रवर्त्तते महाशास्त्रं कुण्डादीनां हितावहम् ।सात्त्वतस्तस्य पुत्त्रोऽभूत् सर्व्वशास्त्रविशारदः
पुण्यश्लोको महाराजस्तेन चैतत् प्रकीर्त्तितम् ।सात्त्वतः सत्त्वसम्पन्नः कौशल्यान् सुषुवे सुतात्
अन्धकं वैमहं भोजं विष्णुं देवावृधं नृपम्
”इति कौर्म्मे पूर्व्वभागे यदुवंशानुकीर्त्तने २४ ।३१ -- ३६
(सङ्करजातिविशेषः यथा, मनुः ।१० २३ ।“वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्य एवच ।कारूषश्च विजन्मा मैत्रः सात्त्वत एवच
”)