| YouTube Channel

साङ्ख्ययोगः (sAGkhyayogaH)

 
शब्दकल्पद्रुमः
Sanskrit
साङ्ख्ययोगः,
पुं,
(साङ्ख्योक्तो योगः ।) ज्ञानयोगः ।स ब्रह्मविद्या यथा, --“द्वितीये शोकसन्तप्तमर्ज्जुनं ब्रह्मविद्यया ।प्रतिबोध्य हरिश्चक्रे स्थितप्रज्ञस्य लक्षणम्
”इति गीताटीकायां श्रीधरस्वामी
तद्योगो यथा, --श्रीभगवानुवाच ।“अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
त्वेवाहं जातु नासं त्वं नेमे जनाधिपाः ।न चैव भविष्यामः सर्व्वे वयमतः परम्
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिर्धीरस्तत्र मुह्यति
मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः ।आगमापायिनोऽनित्यास्तां तितिक्षस्व भारत
यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते
नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।अविनाशि तु तद्विद्धि येन सर्व्वमिदं ततम् ।विनाशमव्ययस्यास्य कश्चित् कर्त्तुमर्हति
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।अनाशिनोऽप्रमेयस्य तस्मात् पुद्धस्व भारत
एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।उभौ तौ विजानीतो नायं हन्ति हन्यते
जायते म्रियते वा कदाचि-न्नायं भूत्वा भविता वा भूयः ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे
वेदाविनाशिनं नित्यं एनमजमव्ययम् ।कथं पुरुषः पार्थ ! कं घातयति हन्ति कम्
वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि ।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।न चैनं क्लेदयन्त्यापो शोषयति मारुतः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव ।नित्यः सर्व्वगतः स्थाणुरचलोऽयं सनातनः
अव्यक्तोऽयमचिन्त्योऽयमविकार्य्योऽयमुच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथापि त्वं महाबाहो ! नैनं शोचितुमर्हसि
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य ।तस्मादपरिहार्य्येऽर्थे त्वं शोचितुमर्हसि
”इत्यादि श्रीभगवद्गीतायां साङ्ख्ययोगे ।११ -- ३०
*