| YouTube Channel

साक्ष्यं (sAkSyaM)

 
Apte 1890
English
साक्ष्यं 1 Evidence, testimony
तमेव चाधाय विवाहसाक्ष्ये R. 7. 20.
2 Attestation.
शब्दकल्पद्रुमः
Sanskrit
साक्ष्यं,
क्ली,
(साक्षिणो भावः कर्म्म वा ।साक्षिन् + ष्यञ् यद्वा, साक्षिणि भवम् ।साक्षिन् + “दिगादिभ्यो यत् ।” ५४ ।इति यत् ।) साक्षिकर्म्म यथा मनुः ।“समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।”एतत् प्रमाणमात्रोपलक्षम् ।“अनुभावी यः कश्चित् कुर्य्यात् साक्ष्यं विवा-दिनाम् ।”इति तद्वचनान्तरात्
अतएवाकृतमपि साक्षिणमाह मनुः ।“यत्रानिरुद्धो वीक्ष्येत शृणुयाद्वापि किञ्चन ।पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्टं यथाश्रुतम्
”अनिरुद्धस्तत्र साक्षित्वेनानियुक्तः परम्परयापिश्रवणमाह विष्णुः ।“उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा ।तदभिहितश्रोतारः प्रमाणं नात्र संशयः
”अस्योत्तरसंज्ञामाह नारदः ।“साक्षिणामपि यत् साक्ष्यं स्वपक्षं परिभाषताम् ।श्रवणात् श्रावणाद्वापि साक्ष्युत्तमसंज्ञकः
”म्वपक्षसम्बन्धिसाक्ष्यं परिभाषतां साक्षिणां यःस्वयं शृणोति अर्थिना श्राव्यते वा श्रवणात्श्रावणादुत्तरसाक्षीत्यर्थः एवं योऽर्थिना गूढ-तया प्रत्यर्थिवचनं श्रावितः गूढसाक्षीत्याहस एव ।“अर्थिना स्वार्थसिद्ब्यर्थं प्रत्यर्थिवचनं स्फुटम् ।यः श्राव्यते तदा गूढो गूढसाक्षी उच्यते
”तेनान्यतरवाद्यभिहितार्थविषयकदृष्टकारणजंविज्ञापनं साक्ष्यमिति स्थितम् तत्र नारदः ।“तषामपि बालः स्यान्नैको स्त्री दुष्ट-कृत् ।न बान्धवो चारतिब्रूयुस्ते कार्य्यमन्यथा
”कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन एवञ्चयदि परमधार्म्मिकत्वेन बान्धवादीनामपि सत्य-वादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु-मर्हन्तीति तेषां साक्ष्यविधायकं वक्ष्यमाण-मनुवचनमपि एतादृग्विषयम्
*
याज्ञवल्क्यः ।“त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया-रताः ।यथाजाति यथावर्णं सर्व्वे सर्व्वेष वा स्मृताः
”त्रयोऽवरा निकृष्टा येषां ते त्र्यवराः त्रिभ्योअन्यूना भवन्तीत्यर्थः यथेति यो यज्जातीय-स्तस्य तज्जातीयः साक्षी स्त्रीणां स्त्रियोऽन्त्य-जानामन्त्यजाः यथावर्णं ब्राह्मणानां ब्राह्मणाःक्षत्त्रियादीनां क्षत्त्रियादयः अभावे तु तत्त-द्भेदं विना सर्व्व एव
*
त्र्यवरा इत्यस्याप-वादमाह एव ।“उभयानुमतः साक्षी भवेदेकोऽपि धर्म्मवित् ।”उभयानुमतत्वं धर्म्मवित्त्वञ्च नियतं तन्त्रम् ।तदाह विष्णुः अभिमतगुणसम्पन्नस्तूभयानु-मतस्त्वेकोऽपि इति अतएव श्रोत्रियमप्येकंनिषेधयति बृहस्पतिः ।“नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा ।उभौ तु श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदाचन
”एको मिलितगुणसम्पन्नः प्रधानकल्पः तदभावेउभयानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः ।“उभयानुमतो यः स्याद्द्वयोर्विवदमानयोः ।भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात् संसदि
”उभयानुमत एकोऽलुब्धत्वादिना सर्व्वजनप्रसिद्ध-श्चेत्तदा साक्षित्वे संसदि बहुजनसन्निधौप्रष्टव्यः तथात्वे स्नेहवैरादिसत्त्वेऽप्यकीर्त्ति-भयात् सत्याभिधानसम्भवादित्याशयः विचा-रस्य तत्त्वनिर्णयार्थत्वात् तदाह मनुः ।“एकोऽप्यलुब्धः साक्षी स्यात् बह्व्यः शुच्योऽपिन स्त्रियः ।स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः
”एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टधृत-पाठः एको लुब्धस्त्वसाक्षी स्यादिति जीमूत-वाहनधृतपाठस्तु युक्तः लुब्धाश्चेद् बहवो-ऽप्यसाक्षिणो भवितुमर्हन्तीति एकपदस्यव्यर्थतापत्तेः भवतु वा तत्पाठः तथाप्येकइत्यनुरोधात् तन्निषेधमुखेनालुब्धस्यैकस्य अनु-मतिसत्त्वे धर्म्मवित्त्वमन्तरेण साक्षित्वं बोध्यम् ।इत्यर्थतो विरोधः अतएव विश्वरूपप्रभृ-तीनां उभयानुमत एक एव साक्षीति व्याख्यानेधर्म्मविदिति नोक्तम् दोषैः स्तेयादिभिः तथाच नारदः ।“स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्चये ।असाक्षिणस्तु ते दुष्टास्तषु सत्यं विद्यते
”कितवा द्यतकराः
*
अपवादमाह उशनाः ।“दासोऽन्धो वधिरः कुष्ठी स्त्री बालः स्थविरादयः ।एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः
”स्थविरो ग्लानेन्द्रियग्रामः आदिशब्दात्कितवादयः उभयानुमताभावे शुचिक्रियत्वादि-गुणयुक्तश्चैको ग्राह्यः तथा व्यासः ।“शुचिक्रियश्च धर्म्मज्ञो योऽन्यत्राप्यनभूतवाक् ।प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः
”अनुभूतवाक् स्थानान्तरे सत्यत्वेनेति भवदेव-भट्टीऽप्येवम् कात्यायनः ।“अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि दापयेत् ।अर्थिना प्रहितः साक्षी भवेदेकोऽपि याचिते
संस्कृतं येन यत् पण्यं तत्तनैव विभावयेत् ।एक एव प्रमाणं विवादे परिकीर्त्तितः
”संस्कृतं गठितम् पण्यं कुण्डलादि विष्णुः ।स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणोन परीक्षा इति स्तेयपरदारगमनादिकार्य्याणांनिह्नवेनैव क्रियमाणत्वात् दैवादेव परं साक्षिणोभवन्तीति परीक्षा इत्युक्तम् तेषां वाक्यन्तुमित्रारिभावादिनिरूपणेनैवोपपत्त्यनुपपत्तिभ्या-मालोचनीयं तु वाक्यमात्रादिति व्यवहार-मातृका
अतएव कात्यायनः ।“ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्म्मसु ।साहसात्ययिके नैव परीक्षा कुत्रचित् स्मृता
”इति
*
श्रोत्रियादीनामसाक्ष्यमाह नारदः ।“श्रोत्रियास्तापसा वृद्धा ये प्रव्रजिता नराः ।वचनात्तेष्वसाक्षित्वं नात्र हेतुरुदाहृतः
”वचनादिति श्रोत्रियत्वादिरूपाभिधानात् चतत्रान्यो हेतुरित्यर्थः तथा स्वीयवैदिककर्म्म-करणव्यग्रतया परकीयकार्य्ये विस्मरणसम्भवात्साक्षित्वरूपलधुकार्य्यनियोगे तच्छापभयेन व्यव-हारद्रष्टारोऽपि तान्न पृच्छन्तीति तत्साक्ष्य-करणानर्थक्याच्च ते साक्षिणः कर्त्तव्याः किन्त्व-कृताः स्वयं साक्षिणो भवन्त्येव उभौ तु श्रोत्रियौस्यातामिति स्मृतेः वृद्धस्यासाक्षित्वं वृद्धत्वादेवम्लानेन्द्रियत्वादित्यर्थः
*
मनुः ।“स्त्रीणां साक्ष्यं स्त्रियः कुर्य्युद्विजानां सदृशाद्विजाः ।शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः
अन्तर्वेश्मन्यरण्ये वा शरीरस्यात्ययेऽपि ।स्त्रियाप्यसम्भवे कार्य्यं बालेन स्थविरेण वा ।शिष्येण बन्धुना वापि दासेन भृतकेन वा
*
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।उदङ्मुखान् प्राङ्मुखान् वा पूर्व्वाह्णे वै शुचिःशुचीन्
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः
”गोबीजकाञ्चनापहारे यत् पापं तत्त्वानृताभि-धाने स्यादिति वैश्यम् एतत् साक्ष्यानृताभि-धाने भवान् सर्व्वैः पातकैः सम्बध्यते इत्युक्त्वाशूद्रञ्च पृच्छेत् ।“ब्रह्मघ्ना ये स्मृता लोके ये स्त्रीबालघातिनः ।मित्रदुहः कृतघ्नाश्च ते ते स्यर्व्वदतो मृषा
”इति मनूक्तं दूषणम्
सत्फलञ्च ।“अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते
”इति मनुनारदोक्तं श्रावयेत्
*
याक्षवल्क्यः ।“न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि
”कात्यायनः ।“अवीचिनरके वर्षं वसेयुः कूटसाक्षिणः ।”याज्ञवल्क्यः ।“सत्यां प्रतिज्ञां यस्योचुः साक्षिणः जयी भवेत् ।अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः
वर्णानां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः
”गौतमः नानृतवचने दोषो जीवनञ्चेत्तदधीनम् ।न तु पापीयसो जीवनम् इति ।“द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः
”तेषामिति शेषः
*
यत्तु ।“साक्षिणां लिखितानाञ्च निर्द्दिष्टानाञ्च वादि-नाम् ।तेषामेकोऽन्यथावादी भेदात् सर्व्वेऽप्यसाक्षिणः
”इति कात्यायनवचनं तत् त्रयाणां तुल्यरूपाणांसाक्षिणां मध्ये एकस्याप्यन्यथावादे अपरस्यतत्तुल्यस्य सत्प्रतिपक्षतया तृतीयस्य किञ्चिद्बा-दित्वे तत्र भेदात् परस्परविरुद्धार्थाभिधानेभेदात् साक्षिभ्यो निर्णयः इति परम्
*
बृहस्पतिः साक्षिद्वैधे कर्म्मनिष्ठानां ग्रहण-माह गुणिद्वैघे क्रियावतामित्यनेन तथा ।“साक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दोषयेत् ।अदुष्टं दूययन् वादी तत्समं दण्डमर्हति
इति ।तत्समं विवादसमम् सभासदादिविदित-साक्षिदूषणमेव ग्राह्यं तु त्र्यवरादिसाक्षिभिःप्रतिपाद्यम् अनवस्थापातात् इत्याह नारदः ।“सभासदां प्रसिद्धं यल्लोकसिद्धमथापि वा ।साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्ज्जनात्
अन्यैश्च साक्षिभिः साध्ये दूषणे पूर्व्वसाक्षिणाम् ।अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवात्
”असाध्यं साधनानर्हम् सिद्धत्वाद्दोषवर्जनात् ।अनवस्थाविरहात् तस्मात् प्रसिद्धदूषणमेवग्राह्यम्
*
दूषणमाह कात्यायनः ।“बालोऽज्ञानादसत्यात् स्त्री पापाभ्यासाच्च कूट-कृत् ।विब्रूयात् वान्धवः स्नेहात् वैरनिर्यातनादरिः
यः साक्षी नैव निर्द्दिष्टो नाभूतो नैव दर्शितः ।ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः
”कात्यायनः ।“क्रिया दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।लेख्ये सति वादेषु दिव्यं साक्षिणः
समत्वं साक्षिणां यत्र दिव्यैस्तत्र विशोधयेत्
”एतत् संशयानुच्छेद बोध्यम् याज्ञवल्क्यः ।“निह्रुते लिखितानेकमेकदेशे विभावितः ।दाप्यः सर्व्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः
”यो लिखितानेकं सुवर्णादिकं अपलपति एक-द्रव्ये साक्ष्यादिभिर्व्विभावितः सन् सर्व्वान् दद्यात् ।कात्यायनः ।“यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी ।सा ग्राह्या तु पूर्णापि दैविकी वदतां नृणाम्
”वदतां विवदतामित्यविशेषेण दर्शयति पूर्णापिदैविकी समग्रविषयिकापि ग्राह्या तेनैक-देशप्रतिपादिकया मानुष्या क्रियया समस्तसा-ध्यसिद्धिरिति ।“साध्यार्थांशे निगदिते साक्षिभिः सफलं भवेत् ।स्त्रीसङ्गे साहसे चौर्य्ये यत् साध्यं परिकल्पि-तम्
”इति कात्यायनवचनं तत्विषयप्रदर्शकम् ऋण-निक्षेपाद्यपह्नवेऽपि योज्यमिति
*
यत्तु ।“अनेकार्थाभियोगे तु यावत् संशोधयेद्धनी ।साक्षिभिस्तावदेवासौ लभते साधितं धनम्
”तदृणाद्यनभिज्ञपुत्त्रादिविषयकम् तथा हि ।नानाविधपित्रर्णाद्यभियुक्तेनाजानता नाहंजानामीति उत्तरवादिना साक्ष्यादिभिर्यावद्धनंप्रतिपादयति तावदेव पुत्त्रेण दातव्यम् एवमेवविश्वरूपजीमूतवाहनप्रभृतयः
*
कात्यायनः ।“अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु ।अनिरुद्धा त्रिपुरुषी भक्तिस्तेभ्यो गरीयसी
”अनुमानं प्रत्यासङ्कलितम् तदाह मनुः ।“बाह्यैर्व्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ।स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन
”स्वरो गद्गदादिः वर्णोऽस्वाभाविकः इङ्गितंस्वेदवेपथुरोमाञ्चादि आकारो विकृतः ।चक्षुषा कातरेण चेष्टितेन स्थानत्यागादिना ।एषाञ्चान्यथासिद्धेर्दुर्निरूप्यत्वादेभ्यः साक्षी बल-वान् इत्यर्थः सुखनिरूप्यत्वे तु याज्ञवल्क्यः ।“देशाद्देशान्तरं याति सृक्कणी परिलेढि ।ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति
परिशुष्यत्खलद्बाक्यो विरुद्धं बहु भाषते ।वाक् चक्षुः पूजयति नो तथौष्ठौ निर्भु जत्यपि
स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्म्मभिः ।अभियोगे साक्ष्ये दुष्टः परिकीर्त्तितः
”न परोक्तां वाचं प्रतिवचनेन पूजयति तथौष्ठौचक्षुश्च परकीयवीक्षणेन निर्भुजति कुटिली-करोति यदा मनोवाक्कायकर्म्मभिः स्वभावात्पूर्व्वोक्तां यथायोग्यां विकृतिं गच्छेत्तदा दुष्टइत्यर्थः अतएव श्रीरामायणे ।“आकारश्छाद्यमानोऽपि शक्योऽसौ निगूहि-तुम् ।बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्
”आकारो देहधर्म्मः मुखाप्रसादवैवर्ण्यरूपः
नारदः ।“सुदीर्घेणापि कालेन लिखितं सिद्धिमाप्नुयात् ।संजानन्नात्मनो लेख्यमजानंस्तत्तु लेखयेत्
”सुदीर्घेणेति संस्कारोद्बोधकलिखनसत्त्वादयंचिरेणापि साक्ष्यं दार्तु शक्नोति इत्यर्थः
*
लिपिज्ञं स्वहस्तेन लेखयेत् तदज्ञं परहस्तेनेत्याहव्यासः ।“अलिपिज्ञो ऋणी यः स्यात् लेखयेत् स्वमतन्तुसः ।साक्षी वा साक्षिणान्येन सर्व्वसाक्षिसमीपगः
”बृहस्पतिः ।“मूषितं घातितं यच्च सीमायाश्च समन्ततः ।अकृतोऽपि भवेत् साक्षी ग्रामस्तत्र संशयः
”अकृता अपि साक्षिणो भवन्तीत्याहतुर्म्मनु-कात्यायनौ ।“अन्ये पुनरनिर्द्दिष्टाः साक्षिणः समुदाहृताः ।ग्रामश्च प्राड्विवाकश्च राजा व्यवहारिणाम्
कार्य्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः ।कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः
”स्मृतिः ।“दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्गमे सति ।विक्रीयादानसम्बन्धे क्रीत्वा धनमनिच्छति
द्यूते समाह्वये चैव विवादे समुपस्थिते ।साक्षिणः साधनं प्रोक्तं दिव्यं लेख्यकम्
प्रक्रान्ते साहसे वापि पारुष्ये दण्डवाचिके ।बलोद्भवेषु कार्य्येषु साक्षिणो दिव्यमेव
”बृहस्पतिः ।“लेख्यं वा साक्षिणो वापि विवादे यस्यदूषिताः ।तस्य कार्य्यं सिध्येत यावत्तन्न विशोधयेत्
”तल्लेख्यसाक्षिरूपप्रमाणम्
*
लेख्यशोधन-माह कात्यायनः ।“सहस्तलेख्यसन्देहे जीवतो वा मृतस्य ।तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः
”तथा ।“समवेतैश्च यद्दृष्टं वक्तव्यं तत्तथैव ।विभिन्नेनैव कार्य्ये तु तद्वक्तव्यं पृथक् पृथक्
नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः ।वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः
अनुद्विग्नेन चित्तेन दृष्टं सम्यग्विदा तु यत् ।प्रत्यक्षं तत स्मृतं कार्य्यं साक्ष्यं साक्षी तु तद्ब-देत्
”नारदः ।“यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः ।आत्मार्थे किं कुर्य्यात् पापी नरकनिर्भयः
अर्थावै वाचि नियता वाङ्मूला वाग्विनिःसृता ।यस्तु तांस्तेनयेद्वाचं सर्व्वस्तेयकृन्नरः
”बौधायनः ।“पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।शतमश्वानृते हन्ति सहस्रं पुरुषानृते
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।सर्व्वं भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन्
”बृहस्पतिः ।“यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् ।स जयी स्यादन्यथा तु साध्यार्थं समाप्नुयात्
”याज्ञवल्क्यः ।“उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ।द्विगुणा वान्यथा ब्रुयुः कूटाः स्युः पूर्व्व-साक्षिणः
”अन्यथा पूर्व्वविपरीतार्थप्रकारेण कूटा अना-देयवचनाः तथा, --“यः साक्ष्यं श्रावितोऽन्येभ्यो निह्रुते तमसावृतः ।स दाप्योऽष्टगुणं दण्डंब्राह्मणञ्च विवासयेत्
”त्वमन्येभ्यः साक्ष्यं श्रावयेति वादिना प्रयुक्तो यःश्रावितः कारितद्वयात् पदसिद्धिः एवम्भूतो-ऽपि सभायां निगदकाले साक्ष्यं निह्रुते यस्तस्याष्ट-गुणो दण्डः इति व्यवहारतत्त्वम्
(त्रि, दृश्यःइति श्रीधरस्वामी
यथा, भागवते ५११ ।“तावानयं व्यवहारः सदाविःक्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः
”)