साक्षिन् (sAkSin)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishसाक्षिन् - sAkSin - - witness
देश्य - dezya - - witness
मध्यस्थ - madhyastha - - witness
व्यक्तदृष्टार्थ - vyaktadRSTArtha - - witness
वेत्तृ - vettR - - witness
ज्ञातृ - jJAtR - - witness
उपद्रष्टृ - upadraSTR - - witness
प्राश्निक - prAznika - - witness
पर्युपासित - paryupAsita - - witnessed
साक्षिमत् - sAkSimat - - witnessed
घ्रात - ghrAta - - witnessing
साक्षिन् - sAkSin - - witnessing
अध्यक्ष - adhyakSa - - eye witness
श्रुतसाक्षिन् - zrutasAkSin - - ear witness
अध्यक्ष - adhyakSa - - eye-witness
प्रत्यक्षदर्शन - pratyakSadarzana - - eye-witness
प्रत्यक्षिन् - pratyakSin - - eye-witness
कौटसाक्षिन् - kauTasAkSin - - false witness
कूटकार - kUTakAra - - false witness
कूटसाक्षिन् - kUTasAkSin - - false witness
साक्षिन् sAkSin witness
साक्षिन् sAkSin observing
साक्षिन् sAkSin witnessing
साक्षिन् sAkSin an eye-witness
साक्षिन् sAkSin witness of or to
साक्षिन् sAkSin seeing with the eyes
साक्षिन् sAkSin eyewitness
साक्षिन् sAkSin Ego or subject
Wilson
EnglishApte
Englishसाक्षिन् [sākṣin], (-णी ) [सह अक्षि अस्य
साक्षाद् द्रष्टा साक्षी वा 2.91]
Seeing, observing, witnessing.
Attesting, testifying.
A witness, an observer, an eye-witness
फलं पःसाक्षिषु दृष्टमेष्वपि 5.6
साक्षित्वमस्य पुरुषस्य Saṁkhya 19
8.18.
The Supreme Being.
(In ) The Ego. -द्वैधम् divergent evidence, discrepancy between witnesses. -परीक्षा examination of a witness. -प्रत्ययः the evidence of witnesses. -भावित borne out or proved by evidence.
Apte 1890
Englishसाक्षिन् a. (णी f.) [सह अक्षि अस्य
साक्षाद् द्रष्टा साक्षी वा P. V. 2. 91] 1 Seeing, observing, witnessing.
2 Attesting, testifying.
m. 1 A witness, an observer, an eye-witness
फलं तपःसाक्षिषु दृष्टमेष्वपि Ku. 5. 60.
2 The Supreme Being.
Comp.
द्वैधं divergent evidence, discrepancy between witnesses.
प्रत्ययः the evidence of witnesses.
भावित a. borne out or proved by evidence.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishसाक्षिन्, ई, इणी, इ, observing, witnessing, seeing
attesting, testifying, giving evidence
(ई), m. an
observer
an eye-witness
any witness (in law).
—साक्षि-ता, f. or साक्षि-त्व, अम्, n. the office of
a witness, evidence, testimony, attestation.
—साक्षि-
द्वैध, अम्, n. discrepancy between witnesses,
contradictory evidence.
—साक्षि-परीक्षा, f. or
साक्षि-परीक्षण, अम्, n. examination of a wit-
ness.
—साक्षि-प्रत्यय, अस्, m. the evidence or
testimony of witnesses.
—साक्षि-प्रश्न, अस्, m.
interrogating witnesses, examination of witnesses.
—साक्षिप्रश्न-विधान, अम्, n. the rule or law
about examining witnessess.
—साक्षि-भावित, अस्, आ,
अम्, proved by an eye-witness, established by testi-
mony.
—साक्षि-मत्, आन्, अती, अत्, having or re-
quiring evidence.
—साक्षि-लक्षण, अस्, आ, अम्,
defined or proved by testimony.
—साक्षि-वत्, ind.
like a witness.
—साक्ष्य्-अभाव, अस्, m. absence or
want of witnesses, absence of testimony.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiसाक्षिन्
वि* - "सह अक्षि अस्य, साक्षाद् द्रष्टा साक्षी वा - सह + अक्ष + इनि"
"देखने वाला, अवलोकन करने वाला, सबूत देने वाला"
साक्षिन्
- "सह अक्षि अस्य, साक्षाद् द्रष्टा साक्षी वा - सह + अक्ष + इनि"
"गवाह, अवेक्षक, चश्मदीद गवाह, आंखों देखी बात बताने वाला"
L R Vaidya
EnglishSanskrit Tibetan
Tibetanmngon lus
१) अभिमुख २) प्रत्यक्ष ३) संमुख ४) साक्षात् ५) साक्षिन्
mngon sum du byed pa
१) साक्षात्करण २) साक्षात्करोमि ३) साक्षात्कारिन् ४) साक्षिन्
mngon sum pa
१) प्रत्यक्ष २) साक्षिन्
अभिधानचिन्तामणिः
Sanskritप्रतिभूर्लग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ८८२ ॥
प्रतिभू (पुं), लग्नक (पुं), साक्षिन् (पुं), स्थेय (पुं), आधि (पुं), बन्धक (पुं)
Mahabharata
EnglishSākshin = Vishṇu (1000 names).
वाचस्पत्यम्
Sanskritसाक्षिन् सह--अक्षि अस्य इनि “साक्षाद् द्रष्टरि” पा० इनिवा नि० । १ साक्षाद्द्रष्टरि । स्त्रि अं ङीप् । २ परमेश्वरेपु० “साक्षी चेताः केवलोनिर्गुणश्च” श्रुतिः । अयमेवसाक्षिचैतन्यत्वेन वेदान्तपरिभाषादौ स्वीकृतोऽनुपदं वक्ष्यते ।व्यवहारे साक्षिलक्षणादिकं वीर० मि० निरूपितं यथा“तत्र प्रमाणभेदप्रमाणविषयव्यवस्थे क्रियापादप्रस्तावेविविक्ते । अधुना साक्ष्यिप्रमाणस्यावान्तरभेदः प्रस्तू-यते । तत्र साक्षिस्वरूपमाह मनुः “समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिद्ध्यति” । समक्षदर्शनस्य सांक्ष्यहेतुत्वंपाणिनिरपि स्मरति । “साक्षाद् द्रष्टरि संज्ञायामिति” ।तत्तु व्युत्पत्तिमात्रमव्यापकत्वात् । श्रुतसाक्ष्यादीनामपिसाक्षित्वव्यवहारविषयत्वात् । अतएव श्रवणादित्युप-लक्षणं प्रमाणमात्रस्य० विवादविषयप्रमाता साक्षीतिविवक्षितम् । साक्षिप्रयोजनमाह नारदः “सन्दि-ग्धेषु तु कार्य्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूत-त्वात्साक्षिभ्यो व्यक्तिदर्शनम्” इति । दृष्टश्रुताभ्यामनुभूत-त्वादित्यर्थः । यद्वा दृष्टत्वात् श्रुतत्वादनुभूतत्वाच्चेत्यर्थः ।अनुभूतत्वादित्यनेन च गोवृषभन्यायेन प्रमाणान्तरजन्यो-ऽनुभवा गृह्यते । व्यक्तिदर्शनं विवेकज्ञानम् । कात्या-यनः “अर्थिप्रत्यर्थिसान्निध्यादनुभूतन्तु यद्भवेत् ।तद्ग्राह्यं साक्षिणो वाक्यमन्यथा न वृहस्पतिः” अर्थि-प्रत्यर्थिसान्निध्यादनुभूतमिति मुख्यः कल्पः । तदसा-न्निध्येऽपि श्रवणादिना साक्ष्यस्य वचनान्तरैरनुमतत्वात् ।तच्च साक्षिभेदनिरूपणे व्यक्तीमविष्यति । गौतमः“विप्रतिपत्तौ साक्षिनिमित्ता व्यवस्था” । स च साक्षीप्रथमं द्विविधः कृतोऽकृतश्च । साक्षित्वेनार्थिप्रत्यर्थि-भ्यान्निरूपतः कृतः । अनिरूपितोऽकृतः । पुनश्च कृतस्थपञ्चविधत्वातकृतस्य षड्विधत्वादेकादशविधः । यथाहनारदः “एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते । लिखितःस्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी चसाक्षी पञ्चविधः कृतः” इति । पञ्चानामपि कात्यायनेनस्वरूपमभिहितम “अर्थिना स्वयमानीतो यो लेख्येसन्निवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्र-कादृत” इति । स्मारितः पत्रकादृते इत्यपि विवृतंतेनैव “यस्तु कार्य्यप्रसिद्ध्यर्थं दृष्ट्वा कार्य्यं पुनः पुनः ।स्मार्य्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते” दृष्ट्वेतिदर्शयित्वेत्यन्तर्मावितण्यर्थम् । कार्य्यं व्यवहारपदं दर्श-यित्वा प्रमापथ्य कार्य्यप्रसिद्ध्यर्थं कालान्तरे व्यवहार-निर्णयसिद्ध्यर्थं पुनः पुनः स्मार्य्यते कार्य्यते च विस्म-रणनिरासाय यः स स्मारितो नाम साक्षीत्यर्थः । यस्तुयदृच्छया प्रसङ्गादाशतस्त्वमत्र साक्षी भवेति साक्षित्वेननिरूपितः स यदृच्छाभिज्ञः स्मारितस्यास्य च पत्रानारूढ-त्वेन साम्येऽपि स्वरूपभेदः स्पष्टोऽपि तेनैव विवृतः“प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौत्वलिस्रितौ पूर्वपक्षस्य साधकौ” । गूढमाह“अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् । यःश्राव्यते स्थितो गूढो गूढसाक्षी स उच्यत” इति । उ-स्तरसाक्षिस्वरूपमाह “साक्षिणामाप यः साक्ष्यमुपर्युपरिभाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः”इति । षड्विधस्याप्यकृतस्य भेदो नारदेनैव दर्शितः “ग्रा-मद्य प्राड्विवाकश्च राजा च व्यवहारिणाम् । कार्य्ये ।ष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः । कुल्याः कुल-विवादेषु विज्ञ यास्तेऽपि साक्षिणः । प्राडवि-वाकग्रहणं लेखकसभ्योपलक्षणम् “लेखकः प्राड्विवाकश्चसभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य्यं साक्षिणःसमुदाहृताः” इति वचनात् । वृहस्पतिस्त लेखितमधिकमादायैतानेव द्वादश साक्षिण आह “लिखितोलेखितो गूढः स्मारितः कुल्यदूतकौ । यादृच्छश्चोत्तर-श्चैव कार्यमध्यगतोऽपरः । नृपोऽध्यक्षस्तथा ग्रामःसाक्षी द्वादशघा स्मृतः” इति । तल्लक्षणान्यपि कानि-चिद्विस्वक्षणानि कानिचित्पूर्वसंवादीन्याह स एव“प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः । जातिनामाभि-लिखितं येन स्वं पित्र्यमेव च । निवासश्च स विज्ञेयःसाक्षी लिखितसंज्ञकः । अर्थिना च क्रियाभेदैस्तस्य कृत्वाऋणादिकम् । प्रत्यक्षं लिख्यते यस्तु लेखितः स उदा-हृतः । कुड्यव्यवहितो यस्तु श्राव्यते ऋणिभाषितम् ।विनिह्नुते यथामूतं गूढसाक्षी स कीर्त्तितः । आहूययः कृतः साक्षी ऋणन्यासक्रियादिके । स्मार्य्यते योमुहुश्चैव स्मारितः सोऽभिधीयते । विभागदाने विपणेज्ञातिर्यत्रोपदिश्यते । द्वयोः समानो धर्मज्ञः स कुल्यःपरिकीर्त्तितः । अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस्तुयः । उभयोः सम्मतः साधुर्दूतकः स उदाहृतः ।क्रियमाणे च कर्त्तव्ये यः कश्चित् स्वयमागतः । अत्रसाक्षी त्वमस्माकमुक्तो(१) यादृच्छिकस्तु सः । यस्तु साक्षीदिशं गच्छन् मुमूर्षुवीं यथाश्रुतम् । अन्यं संश्रावयेत्तन्तु विद्यादुत्तरसाक्षिणम् । साक्षिणामपि यः साक्ष्य-सुपर्युपरि भाषताम । श्रवणाच्छ्रावणाद्वापि स साक्ष्यु-त्तरसंज्ञितः । उभाभ्यां यस्य विश्वस्तं कार्य्यं वापिनिवेदितम् । गूढचारी स विज्ञेयः कार्यमध्यगतस्तधा ।अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतम्भूभृता स्वयम् । स एवतत्र साक्षी स्याद्विसंवादे द्वयोरपि । निर्णीते व्यवहारेतु पुनर्न्यायो यदा भवेत् । अध्यक्षः सभ्यसहितः साक्षीस्यात् तत्र नान्यथा । दूषितं घातितं यच्च सीमायास्तुसमन्ततः । अकृतोऽपि भवेत्साक्षी ग्रामस्तत्र न सशयः”इति । लिखितलखितयोः स्वपरलिखनमात्रभेदादेका-दशद्वादशसंख्ययोरविरोधः । सर्व च यथासम्भवं दृष्टश्रुत-रूपद्विविधसाक्षिभेदा ज्ञेयाः । क्रियाभेदैर्व्यवहारप्रकार-भेदैः, तस्य प्रत्यर्थिनः । ऋणादिकमित्यादिशब्दात् यथा-सम्भवं सर्वविवादपदनिदर्शनम् । कुड्यग्रहणं व्यवधा-यकोपलक्षणम् । विनिह्नुते इति भावे क्तः निह्नवेसम्भावित इति शेषः । उक्त(१) इत्युक्त इतीतिशब्दाध्या-हारः । दिशं देशान्तरमन्यामित्यर्थः । उभाम्यामर्थिपत्य-र्थिभ्यां यस्य विश्वस्तं यदीयो विश्वासः कृत इति सम्बन्धसा-मान्यविवक्षया षष्ठी, भावेक्तं चाभ्युपेत्य व्याख्येयम् । गढ-चारी कार्य्यमध्यगतश्चेत्येकस्यैव संज्ञाद्वयमिति द्वादशत्वा-विरोधः । दूतग्रहणं लेखकस्यापि प्रदर्शनार्यं “दूतकःखटिकाग्रहादिति” वृहस्पतिवचनाद्ग्रामग्रहणमप्यकृत-साक्ष्युपलक्षणम् । येन योऽर्थः प्रमितस्तत्र साक्षित्वेनप्रागनिरूपितोऽपि पश्चात साक्षित्येन विज्ञायोपन्यन्तःपृष्टश्च सभायां साक्ष्य दातुमर्हतीति फलितोऽर्थः ।इतरथा वेतनादानादिषु गिखिताद्यसम्भव माक्ष्यभाव-प्रसङ्गः । इदमेवाभिसन्धायाह मनुः “यत्रानिबद्धो-ऽपीक्षेत शृणुयाद्वापि किञ्चन । पृष्टस्ततापि तद्ब्रूयात्यथादृष्टं यथाश्रुतम्” । अनिबद्धोऽकृतः । कल्पतरुमदन-रत्नयोरर्थिक्रियां क्रियाभेदैरिति पठितं तत्रार्थिक्रिया-मर्थिव्यवहारक्रियाभेदैः प्रमाणविशेषैराप्तवाक्यादिभि-स्तस्य कृत्वा तत्सम्बन्धितयावधार्य्य ऋणादिके विवाद-विषये यः पत्यक्षं प्रत्यर्थिसमक्षं लेख्यतेऽर्थिनेत्यर्थात् सतत्र लेखितः साक्षीति व्याख्येयम् । कालावधिरपिसाक्ष्ये स्मर्य्यते “सुदीर्घेणापि कालेन लिखितः सिद्धि-माप्नुयात् । सञ्जानन्नात्मनो लेख्यम्” कुर्य्यादिति शेषः ।अजानन्तं लिप्यनभिज्ञमात्मानमन्यद्वारा साक्ष्यहमत्रेतिलेखयेत् । स द्विविधोऽपि लिखितः साक्षी चिरकाले-नापि सिद्धिन्निर्णायकतामाप्नुयादित्यर्थः । कात्यायनः“अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु । न चेत्प्रत्यभिजानीयात् तत्स्वहस्तैः प्रसाधयेत्” । नारदः“अष्टमात् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः । आ-पञ्चमात् तथा सिद्धिर्यदृच्छोपगतस्य तु । आ तृतीयात्तथा वर्षात् सिद्धिर्गूढस्य साक्षिणः” इति । इदञ्च प्रायो-वादेन, यतः स एवाह “अथ वा कालनियमो न दृष्टः सा-क्षिणः प्रति । स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रवेदोजनाः । यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रञ्च नित्यशः ।सुदीर्घेणापि कालेन स वै साक्षित्वमर्हति” । ते च“साक्षिणः कीदृशाः कार्य्या व्यवहारेष्वसाक्षिणः । तादृ-शान् संप्रवक्ष्यामि यथा वाच्यमृतञ्च तैः । गृहिणः पु-त्रिणो मौलाः क्षत्रविट्शूद्रयोनयः । अर्य्युक्ताः साक्ष्य-मर्हन्ति न ये केचिदनापदि । आप्ताः सर्वेषु वर्णेषुकार्य्याः कार्य्येषु साक्षिणः । सर्वधर्मविदो लुब्धा विप-रोतांस्तु वर्जयेत्” । मौलाः प्रख्यातकुलोद्भवा इति कल्प-तरुः । मूलं पूर्ववृत्तान्तस्तद्विदन्तीति मौलाः । तदधीतेतद्वेदेत्यणिति मदनरत्ने । वक्ष्यमाणयाज्ञवल्क्यवचन-संवादात् साक्षित्वेनैव पूर्ववृत्तान्तवेदित्व क्षेपात्तदर्थकमौल-पदानथेक्यप्रसङ्गाच्च कल्पतरुव्याख्यानमेव सम्यक् । रत्ना-कराऽपि “मौलाः कुलीना” इत्येव व्याख्यातम् । मूलंप्रतिष्ठा मा येषामस्ति ते मौलाः अर्थकथनमेतत् ।तद्धितस्तु भवार्थ एव कर्त्तप्यः यो हि यत्र भवःमाऽपि तस्यास्तीत्यविरुद्धमिति वदन् मेधातिथिरपीदृशम-र्थमनुमन्यते प्रतिष्ठान्तरस्य साक्षिलक्षणानुपयोगात ।पुत्रादिप्रतिष्ठायाः पदान्नरैरवोपादानात् । अत्र क्षत्रिया-दिग्रहण नात्ययन्तिकब्राह्मणव्युदासपरं, किन्तु सतिसम्भवेऽनेकाध्यापनाग्निहोत्रादिकार्यव्यग्रस्य तस्य न सा-क्षित्व, साक्ष्यन्तरासम्भवे तु तस्यापि साक्षित्वं सम्भवत्येव ।अतएव “ब्रूहीति ब्राह्मणं पृच्छेदिति” तस्यापि साक्षि-त्वेन प्रश्नप्रकारविधिरुपपद्यत इति ध्येयम् । अर्थ्युक्ताअर्थिना ममैते साक्षिणः सन्तीति निर्दिष्टा न तु स्वय-मेवागत्य वयमत्र साक्षिणः स्म इति वदन्तः । याज्ञवल्क्यः“तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्म-प्रधाना ऋजवः पुत्रवन्तो धनान्विताः । त्र्यवराः सा-क्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रियापराः । यथाजाति यथा-वर्णं सर्वे सर्वेषु वा स्मृताः” । त्र्यवरास्त्रिभ्या न्यूनान भवन्ति परतस्तु यथेच्छं भवन्तीत्यर्थः । जातयोमूर्द्धावसिक्तादयः । वर्णा ब्राह्मणादयः । तथा चमूर्द्धावसिक्तादीनां मूर्द्धावसिक्तादयो ब्राह्मणादयो ब्राह्म-णादीनां साक्षित्वेनोपादेयाः । असम्भवे सर्वे सर्वजा-तीयाः सर्वेषु जातीयेषु वादिप्रतिवादिषु साक्षिणोग्राह्या इत्यर्थः । व्यासः “धर्मज्ञाः पुत्रिणो मौलाःकुलीनाः सत्यवादिनः । श्रौतस्मार्त्तिक्रियायुक्ता विगत-द्वेपमत्सराः । श्रोत्रिया नपराधीनाः सूरयश्चाप्रवासिनः ।युवानः साक्षिणः कार्य्या ऋणादिषु विजानता” इति ।कात्यायनः “प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः ।आप्ताः शिष्टा बिबुद्धा ये तेषां वाक्यमसंशयम् । वि-भाव्यो वादिना यादृक् सदृशैरेव भावयेत् । नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत् सदा” इति । आप्ताः यथार्थं-वादिनः । विबुद्धा विवादविषयीभूतार्थज्ञानवन्तः शास्त्रार्थ-ज्ञानवन्तश्च “मतिबुद्धिपूजार्थेभ्यश्चेति” पा० कर्त्तरि क्तः ।आदिकर्मणीति मदनरत्ने । तेषां वाक्यमसंशयं यथा भवतितथा वादिनो विभाव्योऽङ्गीकारयितव्योऽर्थात् प्रतिवादी ।तत्र विशेषमाह यादृक् प्रतिवादी तत्सदृशैस्त्वज्जाती-यैरेव भावयेत् । वादिनेत्युपलक्षणम् । वाद्यपि प्रति-वादिना तज्जातीयैरेव विभाव्यः तथा च नारदः “श्रे-णीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः । बहिर्वामिषुबाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः” इति । पुनरपि“स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशाः द्विजाः ।शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः” श्रेणि-पुरुषाणां सत्यपि बर्गित्वे पृथङ्निर्देशो गोवृषभन्यायेनं ।प्रयोजनं चात्राप्यभ्यर्हितत्वबोधनम् । वर्गिणश्च दर्शिताःकात्यायनेन “लिङ्गिनः श्रेणिपूगाश्च बणिग्व्रातास्तथा-ऽपरे । समूहस्थ श्च ये चान्ये वगाँंस्तानब्रवीद् भृगुः ।दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् । प्रत्ये-कैकसमूहानां नायका वर्गिणः स्मृताः । तेषां वादःस्ववर्गेषु वर्गिणस्तेषु साक्षिणः” । अत्र सर्वत्र न्यूना-धिकविशेषणोपादानन्न दोषाय अनृतभाषणभीरुत्वसत्यवदनशीलत्वस्य च साक्षित्वप्रयोजकस्योपलक्षणार्थत्वात्तेषाम् । ते च साक्षिणः कियत्सङ्ख्यकाः कुत्र ग्राह्याइत्यपेक्षायामाह वृहस्पतिः “नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा । उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत्कदाचन” । लिखितादिषु स एवाह “लिखितौ द्वौतथा गूढौ त्रिचतुःपञ्च लेखिताः । यदृच्छाः स्मारिताःकार्य्यास्तथा चोत्तरसाक्षिणः । दूतकः खटिकाग्राहीकार्य्यमध्यगतस्तथा । एक एव प्रमाणं स्यान्नृपोऽध्यक्ष-स्तथैव च” । खटिकाग्राही लेखकः एक एवेत्ये वकारोवाद्यपेक्षया “नैकं पृच्छेत् कदाचन” इत्युक्तेः अनावश्य-कत्वार्थो न नियमार्थोऽदृष्टार्थत्वप्रसङ्गात् । त्र्यवराः सा-क्षिणो ज्ञेया इति योगीश्वरीयमप्येतदभिप्रायकमेव ।लिखितादीनामुभयानुमतत्वे ग्राह्यत्वमेकस्यापीत्याह योगीश्वरः “चभयानुमतेः साक्षी भवत्येकोऽपि धर्मवित्” ।यद्यपि “श्रीतस्मार्त्तक्रियापरा धर्मप्रधाना” इत्यादिविशे-ष्णोपादानात त्र्यवराणामपि धर्मवित्त्वं समानन्तथापितेषामुभूयाननुमतौ न भवत्येव साक्षित्वं, द्वयोरेकस्यचोभयानुमत्यैचेति भेद इति मिताक्षरा । नारदोऽपि“उभयानुमतो यः स्याद्द्वयोर्विवदमानयोः । स साक्ष्ये-कोऽपि साक्षित्वे प्रष्टव्यः स्यात्तु ससदि” । आप्तत्वेनराजादिभिरवधारितोऽप्येकः साक्षीत्याह व्यासः “शुचि-क्रियश्च धमज्ञः साक्षी यस्त्वनुभूतवाक् । प्रमाणमेकोऽपिभवेत् साहसेषु विशेषतः” इति । अनुभूता यथार्थत्वेनप्रमितचरा वाग्यस्येत्यनुभूतवाक् । कात्यायनः “अभ्य-न्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि वाच्यते । अर्थिना प्र-हितः साक्षी भवेदेकोऽपि याचिते” । याचित इतिनिःक्षेपविशेषणम् । न्यायतौल्यादत्यत्रापीति वाचस्पतिः ।मदनरत्नकारस्तु याचितं विवाहाद्यर्थं याचितं गृहीत-माभरणादिकं याचितकमिति यावदित्याह । निःक्षेपवि-शेषणवैयर्य्यादयाचिते तस्मिन्नभ्यन्तरस्यैकस्यासाक्षित्वप्रसङ्गाद्व्याहितान्वयप्रसक्तेश्चोत्तरैव व्याख्या प्रशस्ता । कुण्डलादिपण्यविवादे तन्निर्मातैकोऽपि साक्षीत्याह स एव“संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् । एक पवप्रमाणं स विवादे तत्र कीर्त्तितः” । इदञ्च बहूनाम-सम्भवे सत्यवादिनोर्द्वयोरेकस्य वानुमतिपदर्शनार्थं ननियमार्थम् अदृष्टार्थत्वप्रसङ्गादिति ध्येयम् । उक्तलक्षणसाक्ष्यसम्भवे प्रतिषेधरहितानां साक्ष्यनुकल्पानांसूचनाथमसाक्षिणोऽपि स्मृतिषूक्ताः” ।ते च असाक्षिन्शब्दे ५४९ पृ० । दर्शिताः ।साक्षिणो मिथ्याकथने अकथने च दोषो यथा“पृष्टो हि साक्षी यः साक्ष्यं जानन्नप्यन्यथा वदेत् । यपूर्वानात्मनः सप्त कुले हन्यात्तथा परान् । यश्च कार्य्यार्थतत्त्वज्ञो जानन्नपि न भाषते । सोऽपि तेनैव पापेनलिप्यते नात्र सशयः” भा० आ० “ब्रह्मस्वस्थाप्यहारीच मिथ्यास क्ष्यप्रदायकः । मित्रद्रोही कृतघ्नश्च वृषवा-हकसूपकृत् । एत महापातकिनस्त्रिषु लोकेषु नि-न्दिताः । कालसूत्रे च नरके पतन्ति ब्रह्मणः शतस्”ब्रह्म० वै० गण० ख० ४४ अ० । “मिथ्यासाक्ष्य यो ददाति का-मात क्रोधात्तथा भयात् । सभायां पाक्षिकं वक्ति सकृतघ्न इति स्मृतः । मिथ्यासाक्ष्यं पाक्षिकं वा भारतेवक्ति यो नृप! । यावदिन्द्र सहम्रञ्च सर्पकुण्डे वसेद्ध्रुवम् ।सन्तत वेष्टितैः सर्पैर्भीतश्च भक्षितस्तथा । भुङ्क्ते चसर्पविण्मूत्रं यमदूतेन ताडितः । कृकलासो भवेत्तत्रभारते सप्तजन्मसु । सप्तजन्मसु मण्डूकः पितृभिः सप्तभिःसह । ततो भवेच्च वृक्षश्च महारण्ये च शाल्मलिः ।ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः” ब्रह्मवै० प्र० ४९ अ० ।साक्षिणो यथा विवादे कर्त्तृत्वाद्यभाव एवं जीवेसा-क्षिणो कर्तृत्वाभावः ईश्वरसाक्षिन्शब्दे १०४८ पृ० दृश्यम्तयोर्वृत्त्यादिप्रकाशकत्वात् तथात्वम् अन्तःकरणमाययो-र्जडत्वेन विषयाबभासकत्वाभावेन चैतन्योपाधित्वमेव नतु विशेषणत्वं विषयावभासकत्वे तदन्वयायोगात् । अत-एव स्वस्वोपाधिवृत्तिचित्तवृत्तिमुखादेरेवावभासकत्वान्ना-तिप्रसङ्गः इति वेदान्तपरिभाषाप्रत्यक्षपरि० दृश्यम् ।साख्यसू० भाष्ययोश्चेतनस्य साक्षित्व समर्थित यथा“ननु साक्षित्वस्यानित्यत्वात् पुरुषाणां कथं सदैकरूपत्वंतत्राह “साक्षात्सम्बन्धात् साक्षित्वम्” सू० पुरुषस्य यत्साक्षित्वमुक्तं तत् साक्षात्सम्बन्धमात्रात् न तु परि-णामत इत्यर्थः । साक्षात्सम्बन्धन बुद्धिमात्रसाक्षिताव-गम्यते “साक्षाद्द्रष्टरि संज्ञायामिति” पा० साक्षिशब्दव्यु-त्पादनात् । साक्षाद्द्रष्टृत्वं चाव्यवधागेन द्रष्टृत्वम् । पुरुषेच साक्षात्मम्बन्धः स्वबुद्धिवृत्तेरेव भवति । अतो बुद्ध-रेव साक्षी पुरुषोऽज्येषां तु द्रष्टृम त्रमिति शास्त्रीयोविभागः । ज्ञाननियामकश्चार्थाकारतास्थानीयः प्रति-विम्बरूप एव सम्बन्धो न तु संयोगमात्रमतिप्रसङा-दित्यसकृदावेदितम् । विष्ण्वादेः सर्वसाक्षित्व त्विन्द्रि-यादिव्यवधानाभावमात्रेण गीणम् । अक्षसम्बन्धात्साक्षित्वमिति पाठे त्वक्षमत्रबद्धिः करणत्वसामान्यात् ।तस्या यथोक्तात् प्रतिविम्बरूपात् सम्बन्धादित्यर्थः भा० ।तत्रैव अन्यत्र “सुषुप्त्याद्यसाक्षित्वम् सुषुप्त्याद्यस्याव-स्थात्रयस्य बुद्धिनिष्ठस्य साक्षित्वमेव पुंसीत्यर्थः । तदुक्तम्“जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासांविलक्षणो जीवः साक्षित्वेन व्यवस्थितः” । इति तासांबुद्धिवृत्तीनां साक्षित्वेन तद्विलक्षणो जाग्रदाद्यवस्था-रहितो निर्णीत इत्यर्थः । तत्र जाग्रन्नामावास्थेन्द्रियद्वाराबुद्धेर्विषयाकारः परिणामः । स्वप्नावस्था च संस्कार-मात्रजन्यस्तादृशः परिणामः । सुषुप्त्यवस्था च द्विवि-धाऽर्द्धसमग्रलयभेदेन । तत्रार्द्धलये विषयाकारा वृत्तिर्नभवति । किन्तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्ति-र्भवति अन्ययोत्थितस्य सुखमहमस्वाप्समित्यादिरूप-सुषुप्तिकालीनसुखादिस्मरणानुपत्तेः । तदुक्तं व्यास-सूत्रेण “मुग्धेऽर्द्धसम्पत्तिः परिशेषादिति” । समग्रलयेतु बुद्धेर्वृत्तिसामान्याभावो मरणादाविव भवति । अन्यथासमाधिसुषुप्तिमोक्षेषु ब्रह्मरूपतेत्यागामिसूत्रानुपपत्ते-रिति । सा च समग्रसुषुप्तिर्वृत्त्यभावरूपेति पुरुषस्तत्-साक्षी न भवति पुरुषस्य वृत्तिमात्रसाक्षित्वात् । अन्यथासंस्कारादेरपि धर्मस्य साक्षिभास्यतापत्तेः । सुषुप्त्या-दिमाक्षित्वं तु तादृशबुद्धिवृत्तीनां प्रकाशनमितिवक्ष्यामः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
