| YouTube Channel

सांशयिकः (sAMzayikaH)

 
शब्दकल्पद्रुमः
Sanskrit
सांशयिकः, त्रि, (संशयमापन्नः संशय +“संशयमापन्नः ।” ७३ इति ठञ् ।)संशययुक्तः तत्पर्य्यायः संशयापन्नमानसः ।इत्यमरः
सन्दिहानः इतिजटाधरः
द्वे संशयविषये स्थाण्वादौ संशय-मापन्नः सांशयिकः ष्णिकः संशयमापन्नं मानसंयत्र स्थाण्वादौ तथा संशयमापन्नं मानसंयस्य तथेति षष्ठ्यन्तपदार्थत्वे संशयितरिपुरुषादावप्येतच्छब्दद्वयप्रवृत्तिः स्यादितिभरतः
(संशयविषयकः यथा, मार्कण्डेये ।१० ४५ ।“तद्ब्रूहि त्वं महाभाग यत् ते सांशयिकंहृदि
”)