| YouTube Channel

सांवत्सरिक (sAMvatsarika)

 
शब्दसागरः
English
सांवत्सरिक
mfn.
(-कः-की-कं) Yearly, annual, relating to a year, produced
in a year, &c.
E.
संवत्सर a year, and ठञ्
aff.
Yates
English
सांवत्सरिक (कः-की-कं)
a. Yearly, an-
nual.
Spoken Sanskrit
English
सांवत्सरिक sAMvatsarika
adj.
annual
सांवत्सरिक sAMvatsarika
adj.
relating to an annual sacrifice
सांवत्सरिक sAMvatsarika
adj.
relating to a year
सांवत्सरिक sAMvatsarika
adj.
produced in a year
सांवत्सरिक sAMvatsarika
adj.
yearly
सांवत्सरिक sAMvatsarika
m.
astrologer
Wilson
English
सांवत्सरिक
mfn.
(-कः-की-कं) Yearly, annual, relating to a year,
produced in a year, &c.
E.
संवत्सर a year, and ठञ्
aff.
also with वुञ्,
aff.
सांवत्सरक.
Monier Williams Cologne
English
सांवत्सरिक
mfn.
yearly, annual, relating to a year, produced in a year
&c.
(with बलि
m.
‘annual revenue’
with रिण
n.
‘a debt payable in a year’),
AitBr.
&c.
&c.
relating to an annual sacrifice,
Lāṭy.
सांवत्सरिक
m.
an astrologer,
Pañcat.
Benfey
English
सांवत्सरिक सांवत्सरिक, i. e. सं-
वत्सर + इक,
I.
adj.
Yearly, Man. 7,
80.
II.
m.
An astrologer, Pañc, 156, 21.
Apte Hindi
Hindi
सांवत्सरिक
वि* - संवंत्सर + ठञ्
"वार्षिक, सलाना"
सांवत्सरिकः
पुं*
- संवंत्सर + अण्
"ज्योतिषी, दैवज्ञ"
L R Vaidya
English
sAMvatsarika {% (f. की) (I) a. %} Annual, yearly.
sAMvatsarika {% (II) m. %} An almanac-maker, an astrologer.
Indian Epigraphical Glossary
English
Sāṃvatsarika (HD), an astrologer. See Paiṭhīnasi quoted
in Hist. Dharm., Vol. III, p. 193.
Wordnet
Sanskrit
Synonyms:
वार्षिक, सांवत्सरिक
adjective
यद् प्रतिवर्षं भवति।
"महेशस्य वार्षिकी प्राप्तिः अशीतिसहस्रा अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
सांवत्सरिकः, त्रि, (संवत्सर + “कालात् ठञ् ।”४ ११ इति ठञ् ।) संवत्सरे भवः संव-त्सरं व्याप्य भूतः प्रतिवर्षकर्त्तव्यश्राद्धम् यथाअथ सांवत्सरिकश्राद्धम् तत्र गोभिलः अतऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्न-हनि प्रेतः स्यात् इति अत ऊर्द्ध्वं सपिण्डी-करणान्तश्राद्धनिमित्तादाद्यसंवत्सरादूर्द्ध्वं संवत्-सरे संवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्न-हनि मृताय दद्यात् व्याघ्रः प्रतिसंवत्सरञ्चैव-मेकोद्दिष्टं मृताहनि एतेन सपिण्डीकरणाप-कर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरंकर्त्तव्यमिति मैथिलोक्तं हेयम् व्यक्तमाहहेमाद्रिधृतं वचनम् ।“पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम् ।तेनैव सपिण्डत्वं तेनैवाब्दिकमिष्यते
”अत्र पूर्णसंवत्सरक्रियमाणश्राद्धाद्यथोभयनिर्व्वा-हस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनिर्व्वाहोन पूर्णसंवत्सरे आब्दिकान्तरम् एवं पञ्चदश-श्राद्धेऽप्यन्नयम् मत्स्यपुराणम् ।“ततः प्रभृति संक्रान्तावुपरागादिपर्व्वसु ।त्रिपिण्डमाचरेत् श्राद्धमेकोद्दिष्टं मृताहनि
”ततः प्रेतत्वपरीहारात् त्रिपिण्डं त्रैपुरुषम् ।निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथि-विशेषपरः उपपदात्तु क्वचित्तिथिविशेषमात्र-परः यथा मृताहे प्रतिमासं कुर्य्यादित्यादौ ।शङ्खः ।“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।तत्र तत्र त्रयं कुर्य्यात् वर्ज्जयित्वा मृताहनि
अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः ।सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः
”त्रयं सम्प्रदानानां त्रयं कुर्य्यात् त्रिभ्यो दद्यात्इत्यर्थः मृताहपर्य्युदस्तत्रिदैवतत्त्वस्य प्रतिप्रसवमाह अमावास्यामिति प्रेतपक्षोऽत्रपितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् नतु कृष्णपक्षमात्रं कृष्णपक्षसामान्यपरत्वे अमा-वास्यापदवैयर्थ्यापत्तेः
*
पितृपक्षं विशेष-यति हेमाद्रिमाघवाचार्य्यधृतं नागरखण्डम् ।“नभो वाथ नभस्यो वा मलमासो यदा भवेत् ।सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः
”अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वेआषाढ्यपेक्षया सप्तमपक्षस्य पितृपक्षत्वात् ।अत्र मृतस्यैव प्रेतपक्षमृतत्वं तु मलमासभाद्रकृष्णपक्षमृतस्य ततश्च तत्र मृतस्य वर्षा-न्तरे अश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणे नपार्व्वणम् किन्त्वेकोद्दिष्टमिति अत्र पार्व्वणोविधिः पार्व्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरितिनव्यवर्द्धमानप्रभृतयः तन्नपूर्व्ववचनोक्तत्रैपुरुषि-कस्य मृताहे पर्य्युदस्तस्य पार्व्वणो विधिरित्य-नेन प्रतिप्रसवात् तस्मादत्र सदैवतैकोद्दिष्टंन युक्तं किन्तु त्रैपुरुषिकं तु षाट्पुरुषिकम् ।“कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् ।प्रत्याब्दिकञ्च शेषेषु पिण्डाः स्युः षडितिस्थितिः
”इति छन्दोगपरिशिष्टवचनेन प्रत्याब्दिकव्यति-रेकेण षट्संख्यानियमात्
*
एवममा-वास्यादिमरणनिमित्तेन मातुरपि प्रत्याब्दिकंपार्व्वणविधिनैव ।“अपुत्त्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।तेषामपि देयं स्यादेकोद्दिष्टं पार्व्वणम्
”इत्यापस्तम्बवचने अपुत्त्रा इति विशेषणो-पादानान् सपुत्त्राणां पार्व्वणाभ्यनुज्ञानात् ।एतच्च मात्रादित्रितयदैवतं कार्य्यम् मात्रेपितामह्यै प्रपितामह्यै पूर्व्ववत् ब्राह्मणान्भोजयित्वा इत्यन्नष्टकायां तथा दर्शनात् अव-सानदिननिमित्तेन पार्व्वणविधिना छन्दोगैरपिमात्रादित्रिकाणां श्राद्धं कर्त्तव्यम् योषिद्भ्यःपृथद्गद्यादवसानादिनादृते इति छन्दोगपरि-शिष्टवचने विशेषतः प्रतिप्रसवात् एवं सपिण्डी-करणेऽपि एतच्च मृताहपार्व्वणं मातापित्रो-रेव तथा हेमाद्रिधृतं कात्यायनवचनम् ।“सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्व्वणम् ।पितृव्यभ्रातृमातॄणामेकोद्दिष्टं सदैव तु
”मातृपदं सपत्नीमातृपरम् सपत्नीमात्रित्यत्रमातृपदस्य राजदन्तादित्वात् परनिपातः ।ततश्च वाक्ये मातृसपत्नीति प्रयोज्यं किन्तुसपत्नीमातरित्यादिकम्
*
एवं साग्निकौरस-क्षेत्रजाभ्यां मृताहे पार्व्वणं कर्त्तव्यम् ।“औरसक्षेत्रजौ पुत्त्रौ विधिना पार्व्वणेन तु ।प्रत्यब्दमितरे कर्य्युरेकोद्दिष्टं सुता दश
”इति जावालवचनस्य ।“यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् ।पार्व्वणेन विधानेन देयमग्निमता सदा
”इति मत्स्यपुराणवचनस्य चैकवाक्यत्वात् ।उशनाश्च ।“प्रत्यब्दं दर्शवच्छ्राद्धं साग्निः कुर्व्वीत वै द्विजः ।एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः
”अत्र प्रागुक्तयुक्त्या प्रेतश्राद्धस्य एकोद्दिष्टत्वा-भिधानात् सांवत्सरिकश्राद्धे यदेकोद्दिष्टपदमुक्तंतत् प्रेतश्राद्धधर्म्मग्राहित्वार्थम् ततश्च योग्य-त्वादेकार्घ्यादिलाभः तु यथा प्रेतश्राद्धेपितृशब्दस्थाने प्रेतपदोहः तथा अत्रापीतिवाच्यं सांवत्सरिके प्रेतत्वाभावात्तथाविधानानु-पपत्तेः एवं प्रतिसांवत्सरिकश्राद्धे सम्बन्धार्थ-पदं आशीःप्रार्थनं शेषभोजनञ्च कर्त्तव्यम्
*
रजस्वलायां विशेषयति गोतमः ।“अपुत्त्रा तु यदा भार्य्या सम्प्राप्ते भर्त्तुराब्दिके ।रजस्वला भवेत् सा तु कुर्य्यात् तत्पञ्चमेदिने
”कुर्य्याच्छ्राद्धमिति शेषः यत्तु श्राद्धचिन्तामणौ ।एकोद्दिष्टं त्रैवर्णिकेन सिद्धान्नेन कर्त्तव्यम् ।“एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।अभावे पाकपात्राणां तदहः समुपोषणम्
”इति लघुहारीतवचनात्
पाकपात्राभावः पाकसामग्र्यभावोपलक्षकः ।तदापि नामश्राद्धं किन्तूपोषणमेव श्राद्धस्थानीय-मित्यर्थः स्वयमित्यभिधानात् अपाटवादिनापिनान्यद्वारा कारयितव्यम् अतएव उपवासेनैवश्राद्धस्थानीयेन तदकरणप्रायश्चित्तेन वा कृत-कृत्यतया श्राद्धविघ्ने इत्यादिवचनादपि नैका-दश्यामनुष्ठानमिति तन्न पितृतृप्तेरजातत्वे-नैकादश्यां तदनुष्ठानस्य युक्तत्वात् अन्यथाषोडशश्राद्धाधिकारिणः कदाचित्तथात्वे ।“यस्यैतानि दीयन्ते प्रेतश्राद्धानि षोडश ।पिशाचत्वं ध्रुवं तस्य दत्तैः श्राद्धशतैरपि
”इति यमवचनेन षोडशश्राद्धाभावे प्रेतत्वपरी-हारो स्यात् तस्मादुपवासो श्राद्धार्थःकिन्तु तदानीन्तनाकरणप्रायश्चित्तार्थः यथास्वकालाकृतसंस्कारे प्रायश्चित्तं कृत्वा काला-न्तरे तत्करणं तथात्रापि तद्दिने उपवासंकृत्वा एकादश्यां श्राद्धं कर्त्तव्यमिति एकोद्दिष्टंनान्यद्वारा कार्य्यमित्यत्रापि गोत्रजेतरत्वेनविशेषणीयम् ।“न कदाचित् सगोत्राय श्राद्धं कार्य्यमगोत्रजैः ।”इति प्रेतश्राद्धे ब्रह्मपुराणात् ।अत्र हि नागोत्रजस्य साक्षात्कर्त्तृत्वं निषिध्यतेसगोत्रायेत्यसम्बन्धापत्तेः तस्मात् अगोत्रजैर्द्वार-भूतैः सगोत्राय श्राद्धं कार्य्यमित्यर्थः तथाच पर्य्युदासपक्षे गोत्रजद्वारा कारयितव्यमितिसुव्यक्तमेव प्रसज्यपक्षे तु अगोत्रजविशेषण-स्वरसात् गोत्रजलाभः प्रेतश्राद्धधर्म्मग्राहित्वात्सांवत्सरिकमपि तथेति श्राद्धविवेकः कल्प-तरुरत्नाकरयोस्तु स्वगोत्रायेति पठितं स्वमा-त्मीयं गोत्रं यस्य स्वगोत्रः विद्यमानगोत्रइत्यर्थः यस्मै श्राद्धं कर्त्तव्यं तस्य स्वगोत्रजेविद्यमानेऽन्यगोत्रजेन संघातान्तर्गतेन राज्ञाश्राद्धं कारयितव्यमिति व्याख्यातञ्च एतन्मते-ऽप्यूढदुहित्रादीनामसगोत्रत्वेऽपि निषेधः ।वस्तुतस्तु तत्पाठेऽपि कर्म्मधारयापेक्षया बहु-व्रीहेर्जघन्यत्वात् स्वमात्मीयञ्च तत् गोत्रञ्चेतितस्मै अन्यगोत्रजद्वारा श्राद्धं कार्य्यमित्यर्थः ।अतो लघुहारीतवचने स्वयं पदं स्वगोत्रपरम् ।अन्यथा ब्रह्मपुराणोक्तागोत्रजपदवैयर्थ्यापत्तेः
*एवञ्च भविष्यपुराणप्रभासखण्डयोः ।“मृताहनि पितुर्य्यस्तु कुर्य्यात् श्राद्धमादरात् ।मातुश्चैव वरारोहे वत्सरान्ते मृताहनि ।नाहन्तस्य महादेवि ! पूजां गृह्णामिनो हरिः
”मरीचिः ।“पण्डिता ज्ञानिनो मूर्खाः स्त्रियोऽथ ब्रह्म-चारिणः ।मृताहं समतिक्रम्य चाण्डालेष्वभिजायते
”इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यांसांवत्सरिकश्राद्धस्य मृताहकर्त्तव्यत्वेनावश्यक-त्वात भविष्यन्मृताहे स्वयं कर्त्तव्यत्वसम्भावना-रहितेन मृतातात् पूर्व्वकालेऽपि प्रतिनिधीयते ।“प्रक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।प्रवसेत् कार्य्यवान् विप्रो वृथैव चिरं क्वचित्
”इति छन्दोगपरिशिष्टोक्तसायं प्रातर्होमप्रति-निधिवत् एवं सति प्रतिनिध्यकरण एव एका-दश्यां क्रियते
*
पाकस्याङ्गत्वेनप्रधानतिथिकर्त्तव्यतानियम इति वाच्यम् ।“व्रतोपवासनियमे घटिकैका यदा भवेत् ।सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी
”इति वचनेन मुहूर्त्तमात्रलाभेऽपि कर्त्तव्यतोप-देशात् तदानीं पाके तदसम्भवात् एवमुदी-च्याङ्गशेषभोजनेऽपि तन्नियमः इति श्राद्ध-तत्त्वम्
(गणके,
पुं,
यथा, बृहत्संहितायाम् ।२ १२ ।“नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता ।चक्षुर्भूतो हि यत्रैष पापं तत्र विद्यते
”)
वाचस्पत्यम्
Sanskrit
सांवत्सरिक
त्रि०
संवत्सरे भवः ठञ् प्रतिवर्षं मृताहकर्तव्येश्राद्धभेदे गोभिलः “अत ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेता-यान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादिवि अत ऊर्द्ध्वंसपिण्डीकरणान्वश्राद्धनिभित्तादाद्यसंवत्सरादूर्द्ध्वं संव-त्सर सवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनिमृताय दद्यात् व्याघ्रः “प्रतिसंवत्सरञ्चैवमेकोद्दिष्टंमृताहनि” एतेन सपिण्डीकरणापकर्षे आद्यसंवत्सरे-ऽपि मृताहे श्राद्धान्तरं कर्त्तव्यमिति मैथिलोक्तं हे-यम् व्यक्तमाह हेमाद्रिधृतवचनम्” “पूर्णे संवत्सरेश्राद्धं षोडशं परिकीर्त्तितम् तेनैव सपिण्डत्वंतेनैवाव्दिकमिष्यते” अत्र पर्णसंवत्सरक्रियमाणश्राद्धाद्यथोभयनिर्वाहस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनिर्वाहो पूर्णसंवत्सरे आव्दिकान्तरम् एव पञ्चदशश्राद्धेऽप्युन्नेयम् मत्स्यपु० “ततः प्रभृतिसक्रान्तावुप-रागादिपवेसु त्रि पिण्डमाचरेत् श्राद्धमेको दष्टं मृता-हनि” ततः प्रेतत्वपरिहारात्, त्रिपिण्डं त्रैपुरुषम् ।निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथिविशेष-परः उपपदात्तु क्वचित्तिथिविशेषमात्रपरः यथामृताहे प्रतिमासं कुर्य्यादित्यादौ शङ्खः “सपिण्डीक-रणादूर्द्ध्वं यत्र यत्र प्रदीयते तत्र तत्र त्रयं कुर्य्यात्वर्जयित्वा मृताहनि अमावास्या क्षयो यस्य प्रेतपक्षेऽथ वा पुनः सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वर्णोविधिः” श्रा० त० अधिकम् एकोद्दिष्टशब्दे १५२१ पृ०पार्षणशब्दे ४३१८ पृ० दृश्यम्