| YouTube Channel

सांवत्सरः (sAMvatsaraH)

 
शब्दकल्पद्रुमः
Sanskrit
सांवत्सरः,
पुं,
(संवत्सरं तज्ज्ञानोपयोगि शास्त्रंवेत्ति अधीते वा संवत्सर + अण् ।) गणकः ।इत्यमरः १४
(यथा, बृहत्संहिता-याम् १० -- ११ ।“मुहूर्त्तं तिथिनक्षत्रमृतवश्चायने तथा ।सर्व्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि
तस्माद्राज्ञाभिगन्तव्यो विद्बान् सांवत्सरो-ऽग्रणीः ।जयं यशःश्रियं भोगान् श्रेयश्च समभीप्सता
”अस्य लक्षणादिकं तत्रैव अध्याये विशेषतोद्रष्टव्यम्
*
फले, पर्व्वणि क्ली इतिपाणिनिः १६
संवत्सरस्येदमिति ।अण् ।) संवत्सरसम्बन्धिनि, त्रि
(यथा, हरिवंशे १४० ।“स सांवत्सरदीक्षायां दीक्षितः षट्पुरालये ।आवर्त्ताया शुभे तीरे सुनद्या मुनिजुष्टया
”)