सांख्यं (sAMkhyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसांख्यं, (संख्या सम्यग्ज्ञानं सा अस्त्यत्रेति ।संख्या + अण् ।) सम्यक् ख्यायते प्रकाश्यतेवस्तुतत्त्वमनयेति संख्या सम्यक् ज्ञानं तस्यांप्रकाशमानमात्मतत्त्वं सांख्यम् । इति श्रीभगवद्गीताटीकायां श्रीधरस्वामी ॥
षड्दर्शनान्तर्गत-दर्शनशास्त्रविशेषः । तत्पर्य्यायः । कापिलम् २ ।इति हेमचन्द्रः ॥
यथा, --“पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥
”इति श्रीभागवते । १ । ३ । १० ॥
अपि च मात्स्ये । ३ । २९ ।“सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ॥
”अथ सांख्यैराख्यायते परिणामवादे परिपन्थिनिजागरूके कथंकारं विवर्त्तवाद आदरणीयोभवेदेष हि तेषामाघोषः । संक्षेपेण हि सांख्य-शास्त्रे चतस्रो विधाः संभाव्यन्ते । कश्चिद्विकृति-रेव कश्चिद्विकृतिः प्रकृतिश्च । कश्चिदनुभवइति । तत्र केवला प्रकृतिः । प्रधानपदेन वेद-नीया मूलप्रकृतिः । नासावन्यस्य कस्यचिद्वि-कृतिः । प्रकरोतीति प्रकृतिरिति व्युत्पत्त्यासत्त्वरजस्तमोगुणानां साम्यावस्थाया अभि-धानात् । तदुक्तम् । मूलप्रकृतिरविकृतिरिति ।मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः । महदादेःकार्य्यकलापस्यासौ मूलं न त्वस्य प्रधानस्यमूलान्तरमस्ति अनवस्थापातात् । नच बीजा-ङ्कुरवदनवस्थादोषो न भवति इति वाच्यम् ।प्रमाणाभावादिति भावः । प्रकृतयश्च महद-हङ्कारतन्मात्रापि । तदप्युक्तम् । महदाद्याःप्रकृतिविकृतयः सप्तेति । अस्यार्थः । प्रकृतयश्चता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदा-दीनि तत्त्वानि । तत्रान्तः करणादिपदेनेयं मह-त्तत्त्वमहङ्कारप्रकृतिः मूलप्रकृतेस्तु विकृतिः ।एवमहङ्कारतत्त्वं अभिमानापरनामधेयमहतोविकृतिः । प्रकृतिश्च तदेवाहङ्कारतत्त्वं तामसंसत् पञ्चतन्मात्राणां सूक्ष्माभिधानम् । तदेवसात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणां बुद्धी-न्द्रियाणां चक्षुःश्रोत्रघ्राणरसनात्वगाख्यानांकर्म्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्याना-मुभयात्मकस्य मनसश्च रजसस्तूभयत्र क्रियोत्-पादनद्वारेण कारणमस्तीति न वैयर्थ्यम् ।तदुक्तमीश्वरकृष्णेन ।“अभिमानोऽहङ्कारस्तस्मात् द्बिविधः प्रवर्त्ततेसर्गः ।एकादशकश्च गणस्तन्मात्रा पञ्चकञ्चैव ॥
सात्त्विकमेकादशकः प्रवर्त्तते वैकृतादहङ्कारात् ।भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनात्वगाख्यानि ।वाक्पादपाणिपायूपस्थाख्यानि कर्म्मेन्द्रिया-ण्याहुः ॥
”उभयात्मकमत्र मनःसङ्कल्पविकल्पात्मक-मिन्द्रियञ्चेति । विवृतञ्च तत्त्वकौमुद्यामा-चार्य्यवाचस्पतिभिः । किमबला विकृतयस्तुवियदादीनि पञ्चभूतानि । एकादशेन्द्रियाणिच । तदुक्तं षोडशकस्तु विकार इति षोडश-संख्यावच्छिन्नो गणषोडशको विकार एव नप्रकृतिरित्यर्थः । यद्यपि पृथिव्यादयो गोघटा-दीनां पृकृतिस्तथापि न ते पृथिव्यादिभ्य-स्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वान्तरोपा-दानत्वञ्चेह प्रकृतित्वमभिमतं गोघटादीनांस्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्त-रत्वाभावः । तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यःपूर्व्वपूर्व्वसूक्ष्मभूतसहितेभ्यः पञ्च महाभूतानिवियदादीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानिजायन्ते । इन्द्रियसृष्टिस्तु प्रागेवोक्ता । उक्तञ्च ।प्रकृतेर्महान् ततोऽहङ्कारः तस्माद्गणश्च षोड-शकः तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूता-नीति । अनुभवात्मकः पुरुषः । तदुक्तम् । नप्रकृतिर्न विकृतिः पुरुष इति । पुरुषस्तु कूटस्थोनित्यः परिणामो न कस्यचित् । प्रकृतिर्नापिविकृतिः कस्यचिदित्यर्थः । एतत्पञ्चविंशति-तत्त्वसाधकत्वेन प्रमाणत्रयमभिमतम् । तद-प्युक्तम् । दृष्टमनुमानमाप्तवचनं सर्व्वप्रमाण-सिद्धत्वात् त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिःप्रमाणाद्धीति । इह कार्य्यकारणभावे चतुर्द्धाविप्रतिपत्तिः प्रसरति । असतः सज्जायत इतिसौगताः सङ्गिरन्ते । नैयायिकादयः सतोऽसज्जायते इति । वेदान्तिनः सतो विवर्त्तःकार्य्यजातं न वस्तु सदिति । सांख्याः पुनः सतःसज्जायत इति । तत्रासतः सज्जायत इति नप्रामाणिकः पक्षः । असतो निरूपाख्यस्यशशविषाणवत् कारणत्वानुपपत्तेः तुच्छातु-च्छयोस्तादात्म्यानुपपत्तेश्च । नापि सतोऽस-ज्जायते कारकव्यापारात् प्रागसतः शशविषाण-वत् सता सम्बन्धलक्षणोत्पत्तेः । न हि नीलंनिपुणतमेनापि पीतं कर्त्तुं पार्य्यते । ननु सत्त्वा-सत्त्वे घटस्य धर्म्माविति चेत्तदचारु । असतिधर्म्मिणि तद्धर्म्म इति व्यपदेशानुपपत्त्या धर्म्मिणःसत्त्वापत्तेः । तस्मात् कारकव्यापारात् प्रागपिकार्य्यम् । सदेव सतश्चाभिव्यक्तिरुपपद्यते ।यथा पीडेनेन तिलेषु तैलस्य दोहनेन सौर-भेयीषु पयसः । असतः कारणे किमपि निदर्शनंदृश्यते । किञ्च कार्य्येण कारणं सम्बद्धं तज्जनकंअसम्बद्धं वा प्रथमे कार्य्यस्य सत्त्वमायातं सतो-रेव सम्बन्ध इति नियमात् । चरमे सर्व्वं कार्य्य-जातं सर्व्वस्माज्जायेत असम्बद्धत्वाविशेषात् ।तदाख्यायि सांख्याचार्य्यैः ।“असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।असम्बद्धस्य चोत्त्तिमिच्छतो न व्यवस्थितिः ॥
”अथैवमनुष्ठेयसम्बद्धमपि तदेव जनयति यत्रयच्छक्तं शक्तिश्च कार्य्यदर्शनोन्नेयेति तत्र संग-च्छते । तिलेषु तैलजननशक्तिरित्यत्र तैलस्या-सत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेन तच्छक्तिरितिनिरूपणायोगात् कार्य्यकारणयोरभेदाच्च ।कार्य्यस्य सत्त्वं कारणात् पृथक् न भवति पट-स्तन्तुभ्यो न भिद्यते तद्धर्म्मत्वान्न यदेवं न तदेवंयथा गौरश्वः । तद्धर्म्मश्च पटः तस्मान्नार्थान्तरंतर्हि प्रत्येकं त एव प्रावरणकार्य्यं कुर्य्युरितिचेन्न । संस्थाभेदेनाविर्भूतपटभावानां प्रावर-णार्थक्रियाकारित्वोपपत्तेः । यथा हि । कूर्म्म-स्याङ्गानि कूर्म्मशरीरे निविशमानानि तिरो-भवन्ति निःसरन्ति चाविर्भवन्ति एवं कारण-तन्त्वादेः पटादयो विशेषा निःसरन्त आविर्भ-वन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरो-भवन्तो विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्पन्नःसतां वा विनाशः । यथोक्तं भगवद्गीतायाम् ।नासतो विद्यते भावो नाभावो विद्यते सतः ।इति । ततश्च कार्य्यानुमानात्तत्प्रधानसिद्धिः ।तदुक्तम् । असदकारणत्वादुपादानं ग्रहणात्सर्व्वसम्भवात् । शक्तस्य शक्यकरणात् कारणा-भावाच्च सत्कार्य्यमिति । नापि सतो ब्रह्मतत्त्वस्यविवर्त्तः प्रपञ्चः वाधानुपलम्भात् । अधिष्ठाना-रोप्ययोः चिज्जडयोः कलधौतरौप्यादिवत्सारूप्याभेदेनापि संभवाच्च । तस्मात् सुखदुःख-मोहात्मकस्य तथाविधकारणमवधारणीयम् ।तथा च प्रयोगः । विमतं भावजातं सुखदुःख-मोहात्मककारकं तदन्वितत्वात् यत् येनान्वीयतेतत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितंसुवर्णकारणकं तथा चेदं तस्मात्तथेति । तत्रजगत्कारणे येयं सुखात्मकता तत् सत्त्वम् ।या दुःखात्मकता तद्रजः । या च मोहात्मकतातत्तम इति त्रिगुणात्मककारणसिद्धिः । यथा हिप्रत्येकं भावात्त्रैगुण्यवन्तोऽनुभूयन्तो यथा मैत्र-दारेषु सत्यवती मैत्रस्य सुखमाविरस्ति तं प्रतिसत्त्वगुणप्रादुर्भावात्तत्सपत्नीनां दुःखं ताः प्रति-रजोगुणप्रादुर्भावात् तामलभमानस्य चैत्रस्यमोहो भवति तं प्रति तमोगुणसद्भावात् ।एवमन्यदपि घठादिकं लभ्यमानं सुखं करोतिपरैरपि ह्रियमाणं दुःखाकरोति उदासीन-स्योपेक्षाविषयत्वेनोपतिष्ठते उपेक्षाविषयत्वंनामोहः मुह वैचित्त्ये इत्यस्माद्धातोर्मोहशब्द-निष्पत्तेः उपेक्षणीयेषु चित्तवृत्त्यनुदयात्तस्मात्सर्व्वं भावजातं सुखदुःखमोहात्मकं त्रिगुण-प्रधानकारणकमवगम्यते । तथा च श्वेताश्वत-रोपनिषदि श्रूयते ।“अजामेकां लोहितशुक्लकृष्णांबह्वीं प्रजां जनयन्तीं सरूपाम् ।अजो ह्येको जुषमाणोऽनुशेतेजहात्येनां भुक्तभोगामजोऽन्यः ॥
” इति ॥
अत्र लोहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशक-त्वावरकत्वसाधर्म्म्यात् रजःसत्त्वतमोगुणत्व-प्रतिपादनपराः । नन्वचेतनं प्रधानं चेतनानधि-ष्ठितं महदादिकार्य्ये न व्याप्रियते अतः केन-चित् चेतनाधिष्ठात्रा भवितव्यम् । तथा चसर्व्वार्थदर्शे । परमेश्वरः स्वीकर्त्तव्यः स्यादितिचेत् । तदसङ्गती अचेतनस्य । यथा वत्सविवृ-द्ध्यर्थमचेतनं क्षीरं प्रवर्त्तते । यथा च जलम-चेतनं लोकोपकाराय प्रवर्त्तते । तथा चप्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्त्स्यति ।तदुक्तम् । वत्सविवृद्ध्यर्थं क्षीरस्य यथा प्रवृत्तिरे-तस्याः पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधा-नस्येति । यस्तु परमेश्वरः करुणया प्रवर्त्तकइति परमेश्वरास्तित्ववादिनां डिण्डिमः सप्रायेण गतः विकल्पानुपपत्तेः । स किं सृष्टेःप्राक् प्रवर्त्तते सृष्ट्युत्तरकालं वा । आद्ये शरी-राद्यभावेन दुःखानुपपत्तौ जीवानां दुःखप्रहा-णेच्छानुपपत्तिः । द्वितीये परस्पराश्रयप्रसङ्गः ।करुणया सृष्टिः सृष्ट्या कारुण्यमिति तस्माद-चेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य मह-दादिरूपेण परिणामः पुरुषार्थप्रयुक्तप्रधान-पुरुषसंयोगनिमित्तः । यथा । निर्व्व्यापारस्या-व्यायस्कसन्निधानेन लोहितस्य व्यापारः । तथानिर्व्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्या-पारो युज्यते । प्रकृतिपुरुषसम्बन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिबन्धनः । प्रकृतिर्हि भोग्यतयाभोक्तारं पुरुषमपेक्षते । पुरुषोऽपि भेदाग्रहा-द्बुद्धिच्छाया पत्न्या तद्गतं दुःखत्रयं वारयमाणःकैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धनः ।न च तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषःप्रधानमपेक्षते । यथा स्वलु कौचित् पङ्ग्वन्धौपथि सार्थेन गच्छन्तौ देवकृतादुपप्लवात् परि-त्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रमन्तौभयाकुलौ दैववशात् संयोगमुपगच्छेताम् । तत्रचान्धेन पङ्गुः स्कन्धमारोपितः पङ्गुदर्शितेनमार्गेणान्धः समीहितं स्थानं प्राप्नोति पङ्गुरपिस्कन्धाधिरूढः तथा परस्परापेक्षप्रधानपुरुष-निबन्धनः सङ्गः पुरुषस्य दर्शनार्थं कैवल्यार्थतयाप्रधानस्य पङ्ग्वन्धवत् उभयोरपि सम्बन्धस्तत्कृतःसर्गः इति । ननु पुरुषार्थनिबन्धना भवतु प्रकृतेःप्रवृत्तिः निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यतेयथा भर्त्रा दृष्टदोषा स्वैरिणी पुनर्भर्त्तारं नापैतियथा वा कृतप्रयोजना नर्त्तकी नर्त्तने तथाप्रकृतिरपि यथोक्तं रङ्गस्य दर्शयित्वा निवर्त्ततेनर्त्तकी यथा नृत्यात् पुरुषस्य तथानन्दं प्रकाश्यनिवर्त्तते प्रकृतिरिति । तदर्थं निरीश्वरसांख्य-शास्त्रप्रवर्त्तककपिलानुसारिणां मतमुपन्यस्तम् ।इति माधवाचार्य्यकृतसर्व्वदर्शनसंग्रहे सांख्य-दर्शनम् ॥
अस्य चत्वारः अध्यायाः । तत्रप्रकृतिपुरुषयोरुभयोः सृष्टिकर्त्तृत्वं अन्धपङ्गु-न्यायेन स्थापितम् । तत्त्वानां संख्यानञ्च कृतम् ।इति केचित् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
