| YouTube Channel

सहस्रानीकः (sahasrAnIkaH)

 
Wordnet
Sanskrit
Synonyms:
सहस्रानीकः
noun
एकः राजा
"सहस्रानीकस्य उल्लेखः कथासरित्सागरे भागवतपुराणे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
सहस्रानीकः,
पुं,
शतानीकराजपुत्त्रः यथा, --“शतानीकोऽभवत् पूर्व्वं पुराकल्पे महीपतिः ।इन्द्राय सुबहून् यज्ञान् श्रद्धापूतेन चेतसा
यज्ञे यज्ञे सहस्राणि गजाश्वरथदन्तिनाम् ।ब्राह्मणेभ्योऽददद्राजन् श्यामानाञ्च शतं शतम्
द्विजस्तुष्टो ददौ पुत्त्रं कौषिको भूभृते तथा ।पत्न्यास्तस्य जातोऽपि कालात् कालं व्यवर्द्धत
वेदवेदाङ्गतत्त्वज्ञो धर्म्मज्ञो नियतव्रतः ।कान्त्या चन्द्रमसस्तुल्यः प्रतापात् सूर्य्यवत् प्रभुः
समये धर्म्मराजेव क्षमया पृथिवीसमः ।एतद्गुणवतो ज्ञात्वा सुतं राज्ञो द्विजातयः ।सहस्रानीकनामानं चक्रुस्तस्य सुहर्षिताः
”इति वह्निपुराणे पापनाशनवृषदानाध्यायः
(तथा भागवते २२ ३८ -- ३९ ।“तस्य पुत्त्रः शतानीको याज्ञवल्क्यात् त्रयींपठन् ।अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति
सहस्रानीकस्तत्पुत्त्रस्ततश्चैवाश्वमेधजः
”)