सहमरणं (sahamaraNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसहमरणं, (सह पत्या मरणम् ।) मृत-स्वामिसहितज्वलच्चितारोहण-पूर्व्वकमरणम् ।यथा । “अथ सहानुगमनम् । अङ्गिराः ।‘मृते भर्त्तरि या नारी समारोहेद्धुताशनम् ।सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥
तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानिमानवे ।तावन्त्यब्दानि सा स्वर्गे भर्त्तारं यानुगच्छति ॥
व्यालग्राही यथा व्यालं बलादुद्धरते विलात् ।तद्वद्भर्त्तारमादाय तेनैव सह मोदते ॥
मातृकं पैतृकञ्चैव यत्र कन्या प्रदीयते ।पुनाति त्रिकुलं नारी भर्त्तारं यानुगच्छति ॥
तत्र सा भर्त्तृपरमा परा परमलालसा ।क्रीडते पतिना सार्द्धं यावदिन्द्राश्चतुर्द्दश ॥
’भर्त्तृपरमा भर्त्ता परमो यस्याः सा तथा ।परा परमलालसेत्यत्र स्तूयमानाप्सरोगणैरितिव्यासेन पठितम् ।‘ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वापि यो नरः ।तं वै पुनाति सा नारी इत्याङ्गिरसभाषितम् ॥
साध्वीनामेव नारीणामग्निप्रपतनादृते ।नान्यो धर्म्मो हि विज्ञेयो मृते भर्त्तरि कर्हिचित् ॥
’या नारीत्युपादानात् सहमरणाभावपक्षोऽपिसूचितः । नान्यो धर्म्म इति तु सहमरणस्तुत्य-र्थम् । तथा च विष्णुः । मृते भर्त्तरि ब्रह्मचर्य्यंतदन्वारोहणं वा इति । ब्रह्मचर्य्य मैथुनवर्ज्जनंताम्बृलादिवर्ज्जनञ्च । यथा प्रचेताः ।‘ताम्बूलाभ्यञ्जनञ्चैव कांस्यपात्रे च भोजनम् ।यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥
’अभ्यञ्जनमायुर्व्वदोक्तं पारिभाषिकम् । यथा, --‘मूर्द्ध्नि दत्तं यदा तैलं भवेत् सर्व्वाङ्गसङ्गतम् ।स्रोताभिस्तर्पयेद्बाहू अभ्यङ्गः स उदाहृतः ॥
तैलमल्पं यदाङ्गेषु न च स्याद्बाहुतर्पणम् ।सा मार्ष्टिः पृथगभ्यङ्गो मस्तकादौ प्रकी-र्त्तितः ॥
’स्मृतिः ।‘एकाहारः सदा कार्य्यो न द्वितीयः कदाचन ।पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ॥
गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया पुनः ।तर्पणं प्रत्यहं कार्य्यं भर्त्तुस्तिलकुशोदकैः ।तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्व्वकम् ॥
’एतत् तु तर्पणं पुत्त्रपौत्त्राद्यभावविषयमितिमदनपारिजातः ॥
‘वैशाखे कार्त्तिके माधे विशेषनियमञ्चरेत् ।स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥
’अत्र साध्वीत्वमाह ।‘आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥
’छन्दोगपरिशिष्टीयमिति कल्पतरुः ॥
साध्वी-प्रसादेन लोकधारणमप्याह ॥
मत्स्यपुराणम् ।‘तस्मात् साध्व्यः स्त्रियः पूज्याः सततं देव-वज्जनैः ।तासां राज्ञा प्रसादेन धार्य्यते च जगत्त्रयम् ॥
’महाभारते ।‘अवमत्य च याः पूर्व्वं पतिं दुष्टेन चेतसा ।वर्त्तन्ते याश्च सततं भर्त्तॄणां प्रतिकूलतः ॥
भर्त्त्रनुमरणं काले याः कुर्व्वन्ति तथाविधाः ।कामात् क्रोधात् भयान्मोहात् सर्व्वाः पूताभवन्ति ताः ॥
’अत्र ऐहिकब्रह्मघ्नपतेर्द्दाहनिषेधात् जन्मान्त-रीयतत्पापवत एव सहमरणेनोद्धारः । ब्रह्म-पुराणे ।‘देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्बयम् ।निधायोरसि संशुद्धा प्रविशेज्जातवेदसम् ॥
ऋग्वेदवादात् साध्वी स्त्री न भवेदात्मघातिनी ।त्र्यहाशौचे निवृत्ते तु श्राद्धं प्राप्नोति शास्त्र-वत् ॥
’ऋग्वेदवादात् इमा नारीरविधवा इत्यादि-मन्त्रात् । एवञ्च अङ्गिरोब्रह्मपुराणवचनपर्य्या-लोचनया ब्राह्मण्यादिसकलभार्य्याणां स्वगत-भर्त्तृगतफलविशेषार्थिनीनां गर्भवतीबालापत्या-दिव्यतिरिक्तानां सहमरणानुमरणयोरधिकारइति । विवादकल्पतरुरत्नाकरौ । तत्र ब्राह्मण्या-द्यनुमरणाधिकारोऽसङ्गतस्तस्यास्तन्निषेधात् ।तथा च मिताक्षरायां देवबोधकृतयाज्ञवल्क्य-टीकायाञ्च गौतमः ।‘पृथक्चितिं समारुह्य न विप्रा गन्तुमर्हति ।इतरासान्तु नारीणां स्त्रीधर्म्मोऽयं परः स्मृतः ॥
’तस्माद्ब्राह्मण्याः सहमरणमेव इतरासान्तुउभयमिति । कल्पतरुरत्नाकरशुद्धिचिन्ता-मणिषु पादुकाद्वयमिति दर्शनात् पादुकादिक-मित्यपपाठः किन्तु पादुकाद्वयमित्युपलक्षणम् ।उशनमा विप्रेतरासां द्रव्यविशेषमनुपादायपृथक्चित्यारोहणमात्रोक्तेः । यथोशनाः ।‘पृथक्चितिं समारुह्य न विप्रा गन्तुमर्हति ।अन्यासामेव नारीणां स्त्रीधर्म्मोऽयं परः स्मृतः ॥
’मदनपारिजातोऽप्येवम् । शिष्टाचारोऽपि तथा ।कृत्यतत्त्वार्णवे बृहन्नारदीयम् ।‘बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।रजस्वला राजसुते ! नारोहन्ति चितां शुभे ॥
’राजसुते इति सगरमातुः सम्बोधनम् । बृह-स्पतिः ।‘बालसम्बर्द्धनं त्यक्त्वा बालापत्या न गच्छति ।रजस्वला सूतिका च रक्षेद्गर्भञ्च गर्भिणी ॥
’एवमन्यतश्चेद्बालस्य संवर्द्धनं स्यात् तदा तस्याअप्यधिकारः । व्यासः ।‘दिनैकगम्यदेशस्था साध्वी चेत् कृतनिर्णया ।न दहेत् स्वामिनं तस्या यावदागमनं भवेत् ॥
’भविष्यपुराणे ।‘तृतीयेऽह्नि उदक्याया मृते भर्त्तरि वै द्बिजाः ।तस्यानुमरणार्थाय स्थापयेदेकरात्रकम् ॥
’तस्य भर्त्तुः । तथा, --‘एकां चितां समासाद्य भर्त्तारं यानुगच्छति ।तद्भर्त्तुर्यः क्रियाकर्त्ता स तस्याश्च क्रियाञ्चरेत् ॥
’एतच्च पिण्डदानपर्य्यन्तम् ।‘यच्चाग्निदाता प्रेतस्य पिण्डान्दद्यात् स एव हि ।’इति वायुपुराणैकवाक्यत्वात् ॥
ब्रह्मपुराणे ।‘श्राबयेद्भर्त्तृजायान्तु स्वभर्त्तृकुलपामिमाम् ।चितामारोपयन् प्राज्ञः प्रमृते धर्म्ममुत्तमम् ॥
इमाः पतिव्रताः पुण्याः स्त्रियो या याः सुशो-भनाः ।सह भर्त्तृशरीरेण संविशन्तु विभावसुम् ॥
एवं श्रुत्वा ततो नारी श्रद्धाभक्तिसमन्विता ।पितृमेधेन यज्ञेन इष्ट्वा स्वर्गमवाप्नुयात् ॥
’प्रमृते भर्त्तरीति शेषः । पितृमेधेन यज्ञेनचितारोहणरूपेण । पादुकाद्वयग्रहणपूर्व्वकानुमरणेऽपि सह भर्त्तृशरीरेण इत्यनूहःप्रयोज्यः । देशान्तरमृते पत्यावित्यादिना शरीर-प्रतिनिधित्वेन तदीयद्रव्यविधानात् । प्रतिनिधौच यथाश्रुतमन्त्रपाठमाह कात्यायनः । शब्दे-ऽविप्रतिपत्तिः इत्येतत् विवृतमेकादशीतत्त्व ॥
* ॥
न च अग्निजलप्रविष्टानां भृगुसंग्रामदेशान्तर-मृतानां गर्भाणां जातदन्तानां मरणे त्रिरात्रेणशुद्धिः । इति काश्यपवचनात् सहमृतायाअप्यग्निप्रवेशेन त्रिरात्राशौचं तत्रैव तस्याःपिण्डदानमिति वाच्यम् । प्रागुक्तब्रह्मपुराणेपृथक्चितिसमारोहणमात्रे त्र्यहाशौचविधा-नात् अन्यत्र भर्त्तृतुल्याशौचप्रतीतेः । सहमरणेकाश्यपोक्तत्रिरात्राशौचाङ्गीकारेऽपि तस्या-शौचस्य वृद्ध्या पत्यशौचकालावधिस्थायित्वम् ॥
‘अन्तर्द्दशाहे स्याताञ्चेत् पुनर्म्मरणजन्मनी ।तावत्स्यादशुचिर्विप्रो यावत्तत् स्यादनिर्द्दशम् ॥
’इति मनूक्ताशौचसङ्करे पराशौचस्य पूर्व्वा-शौचकालाबधिस्थायित्वप्रतीतेः । ततश्च यथाअशौचकालसङ्कोचे तन्मध्य एव सङ्कलय्य पिण्ड-दानं तथाशौचकालवृद्धावपि यावदशौचं यथा-क्रमं दश पिण्डा देया इति । अतएव जिक-नीयान्त्येष्टिविध्यनुमरणविवेकयोर्व्व्यासः ।‘संस्थितं पतिमालिङ्ग्य प्रविशेद्या हुताशनम् ।तस्याः पिण्डादिकं देयं क्रमशः पतिपिण्डवत् ॥
’विष्णुः ।‘अन्विता पिण्डदानन्तु यथा भर्त्तुर्द्दिने दिने ।तदन्वारोहिणी यस्मात्तस्मात् सा नात्मघातिनी ॥
’अत्रानुः सहार्थः । पतिमालिङ्ग्येत्यनेनैकवाक्त्य-त्वात् । स्वाम्यशौचाभ्यन्तरे पृथक्चितामृताया-स्त्र्यहेण पिण्डदानं स्वाम्यशौचापगमे तु श्राद्धम् ।‘अन्वितायाः प्रदातव्या दशपिण्डास्त्र्यहेण तु ।स्वाम्यशौचव्यतीते तु तस्याः श्राद्धं विधीयते ॥
’इति जिकनधृतपैठीनसिवचनात् ॥
अग्निपुराणस्येदमिति शूलपाणिः । अत्रानुःपश्चादर्थः । अतीते तु भर्त्रशौचे पादुकाद्वयमु-पादाय ज्वलदग्निप्रवेशे त्र्यहाशौचव्यवस्थयापिण्डदानंचतुर्थदिने श्राद्धं पूर्व्वोक्तब्रह्मपुराणवच-नात् । तत्र तु भर्त्तुः संग्रामहतत्वादिना सद्यः-शौचं तत्र पृथक् चितामृताशौचस्य पूर्व्वोक्त-ब्रह्मपुराणवचनात् त्रिरात्रत्वन बहुकालव्यापि-त्वेनाघवृद्धिमत्त्वात् तेनैव पूर्व्वाशौचस्य व्यपग-मात् तत्र भर्त्तुरपि त्र्यहेण पिण्डदानम् । तत्रा-प्येकचितारोहणे भर्त्त्रशौचव्यपगमात् शुद्धिः ।संस्थितं पतिमालिङ्ग्य इति अन्वितापिण्डदान-मिति पूर्व्वोक्तवचनाभ्यां अग्निप्रवेशे सुमन्तुनासद्यःशौचविधानाच्च । यथा । भृग्वग्निजलसंग्राम-देशान्तरस्थसन्न्यास्यनशनाशनिमहाध्वनिकानांउदकक्रिया कार्य्या सद्यःशौचं भवति इति ।भृगुरुच्चदेशः । महाध्वनिकः पुण्यार्थं हिमा-लयावधिकमहापथगमनेन सम्पादितमरणः । नचैतत् सद्यःशौचं नित्यबेदाध्यापकैरग्निहोतृ-भिश्च एकाहाशौचिभिश्च कर्त्तव्यमिति हार-लतादत्तविषयत्वेन नैतद्बिषयकमिति वाच्यम् ।तन्मात्रविषयकत्वे प्रमाणाभावात् । सामान्य-मुखप्रवृत्ततया वचनान्तरसंवादितया चैत-द्विषयकमिति । अन्यथा कश्यपोक्तत्रिरात्रा-शौचमपि अग्निजलसंग्रामप्रविष्टानां प्रमादा-देव मरण इति हारलतादर्शनात् अनुमरण-विषयकं न स्यात् तस्मात् काश्यपवचनं ब्रह्म-पुराणसमानविषयकं इति । सुमन्तुवचनं संग्राम-हतभर्त्तृसहगमनविषयकमपीति ॥
* ॥
एवञ्चसमाधिना त्यक्तदेहस्य मुक्तस्य धृतराष्ट्रस्यपर्णोटजाग्निना देहदाहकाले तत्पत्न्यागान्धार्य्या अग्निप्रवेशदर्शनादिदानीं काश्यादि-मृतस्य मुक्तस्यापि पत्युस्तत्पत्न्याः सहमरणंसङ्गच्छते । श्रीभागवते तदुक्तम् ।‘दह्यमानेऽग्निभिर्द्देहे पत्युः पत्नी सहोटजे ।बहिःस्थिता पतिं साध्वी तमग्निमनुवेक्ष्यति ॥
’अनुवेक्ष्यति अग्निप्रवेशनं करिष्यति इतियुंधिष्ठिराय नारदस्य भविष्यत्कथनम् ।‘दयितं यान्यदेशस्थं मृतं श्रुत्वा पतिव्रता ।समारोहति शीघ्राग्नौ तस्याः सिद्धिं निबोधत ॥
’इति व्यासवचनादिना सहमरणानुमरणयो-र्निरवकाशनैमित्तिककाम्यत्वेन मलमासादावपिकर्त्तव्यता ।‘नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।तथा तथैव कार्य्याणि न कालस्तु विधीयते ॥
’इति दक्षवचनात् ॥
* ॥
तदयं प्रयोगः । पुत्त्रादिना स्वगृह्योक्तविधिनाअग्नौ दत्ते ज्वलितायां भर्त्तृचितायां सहगन्त्रीसाध्वी स्नाता परिहितधौतवासोयुगा कुश-हस्ता प्राङ्मुखी वा दैवतीर्थेनाचान्ता तिल-जलकुशत्रयमादाय ओँ तत् सदिति ब्राह्मणै-रुच्चारिते नारायणं संस्मृत्य नमोऽद्यामुके मासिअमुके पक्षे अमुकतिथौ अमुकगोत्रा श्रीमतीअसुकीदेवी अरुन्धतीसमाचारत्वपूर्व्वकस्वर्ग-लोकमहीयमानत्वमानवाधिकरणकलोमसमसं-ख्याब्दावच्छिन्नस्वर्गवासभर्त्तृसहित-मोदमानत्व-मातृ-पितृ-श्वशुर-कुलत्रय-पूतत्व-चतुर्द्दशेन्द्राव-च्छिन्नकालाधिकरणकाप्सरोगणस्तूयमानत्वपति-सहितक्रीडमानत्वब्रह्मघ्नपतिपूतत्वकामा भर्त्तृ-ज्वलच्चितारोहणमहं करिष्ये इति । अनुमरणेतु भर्त्तृज्वलच्चितारोहणमित्यत्र ज्वलच्चिता-प्रवेशेन भर्त्रनुमरणमिति सङ्कल्प्य अष्टौ लोक-पाला आदित्यचन्द्रानिलाग्न्याकाशभूमिजल-हृदयावस्थितान्तर्यामिपुरुषयमदिनरात्रिसन्ध्या-धर्म्मा यूयं साक्षिणो भवत ज्वलच्चितारोहणेनमर्त्तृशरीरानुगमनमहं करोमि इति । अनु-मरणे तु भर्त्तृशरीरानुगमनमित्यत्र भर्त्त्रनुमरण-मित्युच्चार्य्य ज्वलच्चिताग्निं त्रिः प्रदक्षिणीकृत्य ।‘ओँ इमा नारीरविधवाः सपत्नी-राञ्जनेन सर्पिषा संविशन्तु ।अनश्रवो अनमीवाः सुरत्नाआरोहन्तु जनयोयोनिमग्रे ॥
’इति ऋग्वेदोक्तमन्त्रे । १० । १८ । ७ ॥
‘ओँइमाः पतिव्रताः पुण्याः स्त्रियो या याःसुशोभनाः ।सह भर्त्तृशरीरेण संविशन्तु विभावसुम् ॥
’इति पौराणीके मन्त्रे च ब्राह्मणेन पठिते नमोनम इत्युच्चार्य्य ज्वलच्चितां समारोहेत् ॥
* ॥
आपस्तम्बः ।‘चितिभ्रष्टा तु या नारी मोहाद्विचलिताभवेत् ।प्राजापत्येन शुध्येत्तु तस्माद्धि पापकर्म्मणः ॥
’पाश्चात्यनिर्णयामृते स्मृतिः ।‘एकचित्यां समारूढौ दम्पती निधनं गतौ ।पृथक् श्राद्धं तयोः कुर्य्यादोदनन्तु पृथक् पृथक् ॥
’विद्याकरधृता स्मृतिः ।‘एकाहेन मृतानान्तु बहूनामथवा द्वयोः ।तन्त्रेण श्रपणं कृत्वा पृथक् श्राद्धं प्रवर्त्तयेत् ॥
’यत्तु ।‘यदा नारी विशेदग्निं स्वेच्छया पतिना सह ।अशौचमुदकं तस्याः सह भर्त्रेति निश्चितम् ।’तिथ्यन्तरमृतायान्तु पृथक् श्राद्धं न विद्यते ॥
”इति चतुर्भुजभट्टाचार्य्यधृतयमवचनाद्भिन्नतिथि-मृताया अपि पत्युर्म्मृततिथौ श्राद्धमिति हरि-दासतर्काचार्य्याः । तन्न अस्य वचनस्यामूलत्वात्समूलत्वेऽपि श्राद्धपदं पिण्डपरम् । एकोद्दिष्टंमृताहनीति यमवचनविरोधात् ।” इति शुद्धि-तत्त्वम् ॥
* ॥
अन्यत् ब्रह्मवैवर्त्ते गणपतिखण्डे२८ अध्याये । मार्कण्डेयपुराणे दमचरिताध्याये ।विष्णुपुराणे ५ अंशे ३८ अध्याये । कल्किपुराणे३३ अध्याये च द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
