| YouTube Channel

सवयाः (savayAH)

 
शब्दकल्पद्रुमः
Sanskrit
सवयाः, [स्]
स्त्री,
(समानं वयोम्याः “ज्योति-र्जनपदेति ।” ८५ इति समानस्य मः ।)समवयस्का तत्पर्य्यायः आलिः वयस्या ३सखी सहचरी इति जटाधरः
सवयाः, [स्]
पुं,
(समानं वयो यस्य ।) वयस्यः ।इत्यमरः १२
समानवयस्के, त्रि
(यथा रघुः ६५ ।“सूतात्मजाः सवयसः प्रथितप्रबोधंप्राबोधयन्नुषसि वाग्भिरुदारवाचः
”)