| YouTube Channel

सर्व्वौषधिः (sarvvauSadhiH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वौषधिः,
पुं,
(सर्व्वा ओषधयो यत्र ।) ओषधि-वर्गविशेषः यथा, --“कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः ।मुराचन्दनकर्पूरैः मुस्तः सर्व्वौषधिः स्मृतः
”अत्र द्वितीयचन्दनपदं रक्तचन्दनपरम्
इतिराजनिर्घण्टः
(क्वचित् स्त्रीलिङ्गेऽपि दृश्यते
)