| YouTube Channel

सर्व्वदमनः (sarvvadamanaH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वदमनः,
पुं,
(सर्व्वान् दमयतीति दम + ल्युः ।)भरतराजः तु शकुन्तलापुत्त्रः इतित्रिकाण्डशेषः
(अस्य नामनिरुक्तिर्यथा, महा-भारते ७४ -- ।“षड्वर्ष एव बालः कण्वाश्रमपदं प्रति ।सिंहान् व्याघ्रान् वराहांश्च महिषांश्च गजां-स्तथा
बबन्ध वृक्षे बलवानाश्रमस्य समीपतः ।आरोहन् दमयंश्चैव क्रीडंश्च परिधावति
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।अस्त्वयं सर्व्वदमनः सर्व्वान् हि दमयत्यसौ
सर्व्वदमनो नाम कुमारः समपद्यत
*
सर्व्वदमनकर्त्तरि, त्रि इति व्याकरणम्
)