| YouTube Channel

सर्व्वतोमुखः (sarvvatomukhaH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वतोमुखः,
पुं,
(सर्व्वतः मुखमस्येति ।) शिवः
(यथा, महाभारते १३ १७ ६६ ।“सर्व्वकामवरश्चैव सर्व्वदः सर्व्वतोमुखः
”)ब्रह्मा (यथा, कुमारे ।“अथ सर्व्वस्य धातारं ते सर्व्वे सर्व्वतोमुखम् ।वागीशं वाग् भिरर्थ्याभिः प्रणिपत्योपतस्थिरे
”)आत्मा इति मेदिनी
(विष्णुः यथा, महाभारते १३ १४९ १०० ।“अमृताशोऽमृतवपुः सर्व्वज्ञः सर्व्वतोमुखः
”)ब्राह्मणः इति शब्दरत्नावली
स्वर्गः इतिशब्दमाला
अग्निः यथा, --“सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु
”इति तिथ्यादितत्त्वधृताग्निप्रणयनमन्त्रः