| YouTube Channel

सर्व्वतोभद्रः (sarvvatobhadraH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वतोभद्रः,
पुं,
(सर्व्वतो भद्रमस्येति ।) निम्ब-वृक्षः इत्यमरः ६२
व्यूहविशेषः इतितट्टीका
विष्णुरथः इति शब्दरत्नावली
वंशः इति शब्दचन्द्रिका
चित्रकाव्यविशेषः ।इति मेदिनी
तदुदाहरणं यथा ।स का ना ना का सका सा सा कार सा वा वा सा रना वा वा नाइति सर्व्वतोभद्रः इति माघे १९ २७
अस्यार्थः “सकारेति पुनः कीदृशी ।‘कारो वधे निश्चये बले यत्ने रतावपि ।’इति विश्वः
सकाराः सयत्नाः सोत्साहाः नाना नाना-विधाश्चये ये आराः अरीणां समूहाः भिक्षादि-भ्योऽण् तेषां कासा गतिभेदाः काया विग्र-हाश्च तेषां सादं ददतीति साददाः नाश-कारकाः सायका यस्यां सा तथोक्ता रसेनरागेणाहवो यस्याः सा रसाहना रणरागिणी-त्यर्थः वाहसाराणां वाहश्रेष्ठानां ये नादाहेषादिघोषास्तेषां वादं कलहं ददतीति वाद-दानि तैः सह कलहायमानानि वादनानिवाद्यानि यस्यां सा वाहसारनादवाददवादनातूर्य्यवादघोषेत्यर्थः अतएव तेषां तुल्यतोक्ते-रतिशयोक्तिः सर्व्वतो भ्रमणात् सर्व्वतो-भद्राख्यश्चित्रबन्धः अत एव दण्डी ।‘तदिदं सर्व्वतोभद्रं भ्रमणं यदि सर्व्वतः ।’ इति ।उद्धारस्तु चतुःकोष्ठे चतुरङ्गबन्धे पुंक्तिचतुष्टयेपादचतुष्कं विलिख्यानन्तरं पङ्क्तिचतुष्टये-ऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषुप्रथमपादः सर्व्वतो वाच्यते एवं द्वितीयादिषुद्वितीय इत्यादि ।” इति तट्टीकायां मल्लिनाथः
(वटिकौषधविशेषः यथा, --“विशुद्धं गगनं ग्राह्यं द्विकर्षं शुद्धगन्धकम् ।तोलकं तोलकार्द्धञ्च हिङ्गुलोत्थरसन्तथा
कर्पूरं केशरं मांसी तेजपत्रं लवङ्गकम् ।जातीकोषफलञ्चैव सूक्ष्मैलाकरिपिप्पली
कुष्ठं तालीशपत्रञ्च धातकी चोचमुस्तकम् ।हरितकी मरिचञ्च शृङ्गवेरविभीतकम्
पिप्पल्यामलकञ्चैव शाणभागं विचूर्णितम् ।सर्व्वमेकीकृतं पिष्ट्वा वटीङ्कुर्य्याद्द्विगुञ्जिकाम्
भक्षयेत् पर्णखण्डेन मधुना सितयापि वा ।रोगं ज्ञात्वानुपानञ्च प्रातः कुर्य्याद्विचक्षणः
हन्ति मन्दानलान् सर्व्वानामदोषं विसूचिकाम् ।पित्तश्लेष्मभवं रोगं वातश्लेष्मभवन्तथा
आनाहं मूत्रकृच्छ्रञ्च संग्रहग्रहणीं वमिम् ।अम्लपित्तं शीतपित्तं रक्तपित्तं विशेषतः ।चिरज्वरं पित्तभवं घातुस्थं विषमज्वरम्
कासं पञ्चविधं हन्ति कामलां पाण्डुमेव ।सर्व्वलोकहितार्थाय शिवेन भाषितः पुरा ।सर्व्वतोभद्रनामायं रसः साक्षान्महेश्वरः
”इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे
“सूतं गन्धं तपनगगनं कान्तलौहस्य चूर्णंकृत्वैकस्मिन् दृशदि पिषितं शृङ्गवेरस्य वारा ।युञ्ज्याद्रोगे यकृतिगुदजे प्लीह्नि सर्व्वज्वरेषुशोथे पाण्डौ कृमिकृतगदे सर्व्वतः कामलायाम् ।कासे श्वासे प्रमिहजठरे सर्व्वदोषप्रभूतेख्यातो योगः सुरमणिकृतः सर्व्वरोगैकहन्ता
”इति रसेन्द्रसारसंग्रहे प्लीहाधिकारे
)