| YouTube Channel

सर्व्वतः (sarvvataH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वतः,
व्य,
चतुर्द्दिगभिव्याप्तिः तत्पर्य्यायः सम-न्ततः परितः विश्वक् इत्यमरः ।४ १३
(यथा, मुण्डकोपनिषदि ।“ते सर्व्वगं सर्व्वतः प्राप्य धीरायुक्तात्मानः सर्व्वमेवाविशन्ति
*
सर्व्व + तसिल् सर्व्वः यथा, मनुः ।“अप्रतर्कमविज्ञेयं प्रसुप्तमिव सर्व्वतः
”“प्रसुप्तमिव सर्व्वतः प्रथमार्थे तसिः स्वकार्य्या-क्षममित्यर्थः ।” इति तट्टीकायां कुल्लूकः
पञ्च-म्यास्तसिल् सर्व्वस्मात् सर्व्वेभ्यः यथामनुः २४७ ।“सर्व्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्
”सप्तम्यास्तसिल् सर्व्वस्मिन् यथा, ऋतु-संहारे २३ ।“भ्रमति गवययूथः सर्व्वतस्तोयमिच्छन्शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्
”)