| YouTube Channel

सर्व्वजया (sarvvajayA)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वजया,
स्त्री,
(सर्व्वेषां जयो यस्याः ।) स्त्रीक-र्त्तव्यमार्गशीर्षादिद्वादशमासनिष्पाद्यव्रतविशेषः ।यथा अथ सर्व्वजयाव्रतम् सामान्योक्तं कृत्वाअद्य मार्गशीर्षे मासि अमुकपक्षे अमुकतिथौविष्णुपदीसंक्रान्त्यामारभ्य वर्षपर्य्यन्तं अमुक-गोत्रा श्रीअमुकी द्वादशमासशाकादित्यागफल-प्राप्तिपूर्व्वकपुत्त्रपौत्त्राद्यैश्वर्य्यप्राप्त्युत्तरस्वर्गकामामनोरथकामा वा गणेशादिहरगौरीपूजात्मक-सर्व्वजयाव्रतमहं करिष्ये ततः सामान्योक्तंनवग्रहपूजान्तं कृत्वा अङ्गन्यासं प्रणवेन कृत्वागौरीसहितहरं ध्यायेत् ।“श्वेतवर्णं वृषारूढं व्यालयज्ञोपवीतिनम् ।विभूतिभूषिताङ्गञ्च व्याघ्रचर्म्मधरं शुभम्
पञ्चवक्त्रं दशभुजं जटिलं चन्द्रचूडकम् ।त्रिनेत्रं पार्व्वतीयुक्तं प्रमथैश्च समन्वितम् ।प्रसन्नवदनं देवं वरदं भक्तवत्सलम्
”इति ध्यात्वा ओँ नमः शिवाय ह्रीँ दुर्गायैनमः इति मन्त्रेणार्घ्यं कृत्वा पुनर्ध्यात्वा ओँगौरीसहितहराय नमः इत्यासनादिना पूज-येत् ततः पञ्चपुष्पाञ्जलिदानं कृत्वा प्रणमेत् ।“नमस्ते पार्व्वतीनाथ ! नमस्ते शशिशेखर ! ।नमस्ते पार्व्वतीदेव्यै चण्डिकायै नमो नमः
*
अथ कथा ।लक्ष्मीरुवाच ।“भगवन्तं सुखासीनं लक्ष्मीः पृच्छति केशवम् ।केन व्रतेन देवेश स्त्रीणां सर्व्वमनोरथम्
सौभाग्यमतुलञ्चापि पुत्त्रपौत्त्रविवर्द्धनम् ।नानासुखसमायुक्तं लभ्यते वैष्णवं पदम्
तद्व्रतं ब्रूहि मे देव ! क्रियते यथा प्रभो
श्रीभगवानुवाच ।अस्ति सर्व्वजया नाम व्रतानां व्रतमुत्तमम् ।तस्यानुष्ठानमात्रेण स्त्रीणां सर्व्वमनोरथम्
लोकत्रयहिते युक्ता सिध्यतीह संशयः ।कुरु त्वं तद्व्रतं देवि ! प्रचारय महीतले
लक्ष्मीरुवाच ।प्रसन्नो यदि देवेश विधानं मयि कथ्यताम् ।सुखेन येन देवेश ! क्रियते व्रतमुत्तमम्
श्रीभगवानुवाच ।सर्व्वजयाव्रतं वक्ष्ये शृणु पद्मे सुशोभनम् ।नैव दृष्टं व्रतं देवि यथा सर्व्वजयाव्रतम्
पुरुषाणां गयाश्राद्धं स्त्रीणां सर्व्वजयाव्रतम् ।पित्रुद्धारणकं नाम मनोरथप्रदायकम्
व्रतराजमिदं भद्रे नारीणां सुखदायकम्
मार्गशीर्षे त्यजेत् शाकं पौण्डरीकं फलं लभेत्
पौषे तु लवणं त्यक्त्वा गोसहस्रफलं स्मृतम् ।माघे तैलं परित्यज्य श्रियं प्राप्नोति मानवी
फाल्गुने त्यजेत् पूगं भवेत् पतिव्रता सती ।चैत्रे पुष्पं परित्यज्य सा याति परमां गतिम्
भक्तं त्यक्त्वाथ वैशाखे याति चन्द्रपुरीं शुभाम् ।ज्यैष्ठे धाराजलं त्यक्त्वा वारुणं लोकमाप्नुयात् ।आषाढे दधि त्यक्त्वा वारुणं लोकमाप्नुयात्
श्रावणे वसनं त्यक्त्वा प्रजापतिपुरं व्रजेत् ।भाद्रे तु व्यजनं त्यक्त्वा नारायणपुरं व्रजेत्
आश्विने घृतं त्यक्त्वा लावण्यमुत्तमं लभेत् ।शय्याञ्च कार्त्तिके त्यक्त्वा प्रयाति परमां गतिम्
मासान्ते चोपभुञ्जीत सर्व्वं दत्त्वा द्विजातये ।शय्या देया व्रते पूर्णे दानानि विविधानि ।गौर्य्या हरञ्च संपूज्य शाकं भुञ्जीत पायसम्
एवं या कुरुते नारी वर्षं यावत् समाप्यते ।स्वर्गे वसति सा नित्यं पुत्त्रपौत्त्रप्रतिष्ठिता
तत् कुरुष्व प्रयत्नेन येन सर्व्वजया भव
शचीव देवराजस्य रतीव मदनस्य ।तत्सदृशी भवेत् भद्रे व्रतस्यास्य प्रसादतः
”इति स्कन्दपुराणोक्ता सर्व्वजयाव्रतकथा समाप्ता
ततः स्तुत्वा प्रणम्य विसृजेत् वर्षान्ते प्रतिष्ठाकर्त्तव्या द्रव्यदानेऽमुकमासामुकद्रव्यत्यागजन्या-मुकफलप्राप्तिकामा शिवदुर्गाप्रीतिकामा वाब्राह्मणायाहं ददे इति वदेत् इति कृत्य-चन्द्रिका