| YouTube Channel

सर्व्वगः (sarvvagaH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वगः,
पुं,
(सर्व्वं गच्छतीति गम + डः ।)शिवः (यथा, महाभारते १३ १७ १०४ ।“प्रभावः सर्व्वगो वायुरर्य्यमा सविता रविः
”)ब्रह्मा इति मेदिनी
आत्मा इति शब्द-माला
(भीमस्य पुत्त्रः यथा, महाभारते ।१ ९५ ७७ ।“भीमोऽपि काश्यां बलधरां नामोपयेमे वीर्य्य-शुल्कां तस्यां सर्व्वगं नामोत्पादयामास
”)सर्व्वत्रगामिनि, त्रि
(यथा, याज्ञवल्क्ये ।३ १३० ।“करणैरन्वितस्यापि पूर्व्वज्ञानं कथञ्चन ।वेत्ति सर्व्वगतां कस्मात् सर्व्वगोऽपि वेद-नाम्
”)