| YouTube Channel

सर्व्वः (sarvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्व्वः,
पुं,
(सर्व्वस्मिन् सर्व्वतीति सर्व्व गतौ + पचा-द्यच् यद्वा, सृ गतौ + “सर्व्वनिघृष्वेति ।”उणा० १५३ इति वन्प्रत्ययेन साधुः ।)शिवः इत्यमरः ३२
क्षितिमूर्त्तिरयम् ।यथा, विसर्ज्जनात् पूर्व्वं भविष्यपुराणोक्तं स्वभाव-सिद्धप्राच्यैशान्यादिदिक्षु वामावर्त्तेन पूजनम् ।यथा, सर्व्वाय क्षितिमूर्त्तये नम इत्यादितिथ्यादितत्त्वम्
विष्णुः यथा, --“असतश्च सतश्चैव सर्व्वस्य प्रभवाव्ययाः ।सर्व्वस्य सर्व्वदा ज्ञानात् सर्व्वमेतं पचक्षते
”इति विष्णुपुराणम्
विष्णुसहस्रनामस्तोत्रेऽप्येवमेव
सर्व्वः, त्रि, (सृ + वन् ।) सम्पूर्णः इत्यमरः ।३ ६४
अस्य पर्य्यायः सकलशब्देद्रष्टव्यः प्रयोगो यथा, --“सर्व्वरत्नमयो मेरुः सर्व्वाश्चर्य्यमयं नभः ।सर्व्वतीर्थमयी गङ्गा सर्व्वदेवमयो हरिः
”इति वह्निपुराणे देवाम्बरीषसंवादे अध्यायः