सर्वाङ्गसुन्दररस (sarvAGgasundararasa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसर्व्वाङ्गसुन्दररसः, (सर्व्वस्मिन् अङ्गे सुन्दरः ।स एव रसः ।) औषधविशेषः । यथा, --“रसगन्धकतुल्यांशो द्वौ भागौ टङ्गणस्य च ।मौक्तिकं विद्रुमं शङ्खमवनीय समांशतः ॥
हेमभस्मार्द्धभागञ्च सर्व्वं खल्ले निधापयेत् ।निम्बुद्रवस्य योगेन पिष्टिकां कारयेद्भिषक् ॥
पश्चात् गजपुटं दद्यात् शीतलञ्च समुद्धरेत् ।हेमभस्मसमं तीक्ष्णं तीक्ष्णार्द्धो दरदो मतः ॥
एकीकृत्य समस्तानि सूक्ष्मचूर्णानि कारयेत् ।ततः पूजां प्रकुर्व्वीत भक्षयेत् दिवसे शुभे ॥
सर्व्वाङ्गसुन्दरो ह्येष रोगराजनिकृन्तनः ।वातपित्तज्वरे घोरे सन्निपाते सुदारुणे ॥
अर्शस्सु ग्रहणीरोगे मेगे गुल्मे भगन्दरे ।निहन्ति वातजान्रोगान् श्लैष्मिकांश्च विशेषतः ॥
पिप्पलीमधुसंयुक्तं घृतयुक्तमथापि वा ।भक्षयेत् पर्णखण्डेन सितया चार्द्रकेण वा ॥
गुडूचीसत्त्वसहितं प्रमेहे च विशेषतः ।रसरत्नाकरप्रोक्तः सिद्धयोगो रसोत्तमः ।राजिकाहिङ्गुतैलाम्लं लवणाढ्यं विवर्ज्जयेत् ॥
”सर्व्वाङ्गसुन्दररसः । इति भैषज्यरत्नावली ॥
(यथा च ।“रसगन्धकयोः कर्षं ग्राह्यमेकं सुशोधितम् ।ततः कज्जलिकां कृत्वा मृदुपाकेन साधयेत् ॥
जातीफलं तथा कोषं लवङ्गारिष्टपत्रके ।सिन्धुवारदलञ्चैव एलाबीजं तथैव च ॥
एषाञ्च कर्षमात्रेण तोयेनाथ विमर्द्दयेत् ।मुक्तागृहे पुनः स्थाप्यं पुटपाकेन साधयेत् ॥
घनपङ्के बहिर्लिप्त्वा पुटमध्ये निधापयेत् ।गुञ्जाष्टकप्रमाणेन प्रत्यहं भक्षयेन्नरः ॥
एतत् प्रोक्तं कुमाराणां रक्षणाय महौषधम् ।ज्वरघ्नं दीपनञ्चैव बलवर्णप्रसाधनम् ॥
दुर्व्वारं ग्रहणीरोगं जयत्येव प्रवाहिकाम् ।सूतिकाञ्च जयेदेतद्रक्तार्शो रक्तसम्भवम् ॥
पिशाचा दानवा दैत्या बालानां विघ्नकारकाः ।यत्रौषधवरस्तिष्ठेत् तत्र सीमां न यान्ति ते ॥
बालानां गदयुक्तानां स्त्रीणाञ्चैव विशेषतः ।महागन्धकमेतद्धि सर्व्वव्याधिनिसूदनम् ॥
विना पाकेन सर्व्वाङ्गसुन्दरोऽयं प्रकीर्त्तितः ॥
”इति वैद्यकरसेन्द्रसारसंग्रहेऽतिसाराधिकारे ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
