| YouTube Channel

सर्वरक्षणकवच (sarvarakSaNakavaca)

 
Spoken Sanskrit
English
सर्वरक्षणकवच sarvarakSaNakavaca
n.
all-preserving amulet or charm
Monier Williams Cologne
English
सर्व—रक्षण—कवच
n.
an all-preserving amulet or charm,
MW.
शब्दकल्पद्रुमः
Sanskrit
सर्व्वरक्षणकवचं,
क्ली,
(सर्व्वरक्षणं सर्व्वरक्षाकर्रंकवचम् ।) कवचविशेषः यथा, --“शिशोः स्वस्त्ययनं चक्रुस्तूर्णं ब्राह्मणपुङ्गवाः ।हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्बिजः
वदामि तत्ते विप्रेन्द्र कवचं सर्व्वरक्षणम् ।तद्दत्तं मायया पूर्व्वं ब्रह्मणे नाभिपङ्कजे
निद्रिते जगतां नाथे जले जलशायिनि ।भीताय स्तुतिकर्त्रे मधुकैटभयोर्भयात्
योगनिद्रोवाच ।दूरीभूतं कुरु भयं भयं किन्ते मयि स्थिते ।स्थितायां मयि ब्रह्मन् सुखी तिष्ठ जगत्पते
*श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः ।श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः
कर्णयुग्मञ्च कण्ठञ्च कपालं पातु माधवः ।कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम्
अधरौष्ठं हृषीकेशो दन्तपंक्तिं गदाग्रजः ।रासेश्वरश्च रसनां तालुकं वामनो विभुः
वक्षः पातु मुकुन्दस्ते जठरं पातु दैत्यहा ।जनार्द्दनः पातु नाभिं पातु विष्णुश्च ते हनुम्
नितम्बयुग्मं गुह्यञ्च पातु ते पुत्तषोत्तमः ।जानुयुग्मं जानकीशः पातु ते सर्व्वदा विभुः
हस्तयुग्मं नृसिंहश्च पातु सर्व्वत्र सङ्कटे ।पादयुग्मं वराहश्च पातु ते कमलोद्भव
ऊर्द्ध्वे नारायणः पातु अधस्तात् कमलापतिः ।पातु पूर्व्वे गोपालः पातु वह्नौ दशास्यहा
वनमाली पातु याम्यां वैकुण्ठः पातु नैरृते ।वारुणे वासुदेवश्च पातु ते जलजासन !
पातु ते सन्ततमजो वायव्यां विष्टरश्रवाः ।उत्तरे सदा पातु सोऽनन्तोऽनन्तकः स्वयम्
ऐशान्यामीश्वरः पातु सर्व्वत्र पातु शत्रुजित् ।जले स्थले चान्तरीक्षे निद्रायां पातु माधवः
*इत्येवं कथितं ब्रह्मन् ! कवचं परमाद्भुतम् ।कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया
शुम्भेन सह संग्रामे निर्लक्षे घोरदारुणे ।गगनस्थितो यः सद्यः प्राप्तिमात्रेण शक्तितः
कवचस्य प्रसादेन धरण्यां पतितो मृतः ।पूर्व्वं वर्षगतं खे कृत्वा युद्धं भयावहम्
मृते शुम्भे गोविन्दः कृपालुर्गगने स्थितः ।माल्यञ्च कवचं दत्त्वा गोलोकं जगाम
कल्पान्तरस्प वृत्तान्तं कृपया कथितं मुने ।आभ्यां तव भयं नास्ति कवचस्य प्रभावतः
कोटिशः कोटिशो नष्टा मया दृष्टाश्च सर्व्वशः ।अहञ्च हरिणा सार्द्धं कल्पे कल्पे स्थिरा सदा
इत्युक्त्रा कवचं दत्त्वा सान्तर्द्धानं चकार ।निःशङ्को नाभिकमले तस्थौ कमलोद्भवः
*
सुवर्णगुटिकायान्तु कृत्वेदं कवचं परम् ।कण्ठे वा दक्षिणे बाहौ बध्नीयात् यः सुधीः सदा
विषाग्निजलशत्रुभ्यो भयं तस्य विद्यते ।जले स्थले चान्तरीक्षे निद्रायां रक्षतीश्वरः
संग्रामे वज्रपाते विपत्तौ प्राणसङ्कटे ।कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत्
बद्ध्वेदं कवचं कण्ठे शङ्करस्त्रिपुरं पुरा ।जघान लीलामात्रेण दुरन्तमसुरेश्वरम्
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा ।सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा
आवां सनत्कुमारश्च धर्म्मः साक्षी कर्म्मणाम् ।कवचस्य प्रसादेन सर्व्वत्र जयिनो वयम्
न्यस्य नन्दशिशोः कण्ठे जगाम कवचं द्विजः ।आत्मनः कवचं कण्ठे दधार हरिः स्वयम्
प्रभावं कथितं सर्व्वं कवचस्य हरेस्तथा ।अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने !
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखणे १२ अध्यायः