सर्वतोभद्रमण्डल (sarvatobhadramaNDala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Aufrecht Catalogus Catalogorum
Englishवाचस्पत्यम्
Sanskritसर्वतोभद्रमण्डल सर्वतो भद्रनामकं मण्डलम् । शार-दातिलकाद्युक्ते पतिष्ठादो--पूज्यदेवतामण्डलभेदेतल्लेखनप्रकारस्तु हेमाद्रौ स्कान्दे प्रागुदीच्यां गतःरेखाः कुर्य्यादेकोनविंशतिम् । खण्डेन्दुवत्त्रिपात् कोणेशृङ्खला पञ्चभिः पदैः । एकादशपदा वल्ली भद्रन्तुनवभिः पदैः । चतुर्वि शत्पदा वापी परिधिर्विंशत्यापदैः । मध्ये षोडशभिः कोष्ठैः पद्ममष्टदलं स्मृतम् ।श्वेतेन्दुः शृङ्खला, कृष्णां वल्लीं नीलेन पूरयेत् । भद्रारुणासिता वापी परिधिः पीतवर्णकः । बाह्यान्तरदलैःश्वेता कर्णिका पीतबर्णिका । परिध्यावेष्टितं पद्मबाह्ये सत्वरजस्तमः । तन्मध्ये स्थापयेद्देवान् ब्रह्मा-द्यांश्च सुरासुरानिति । शारदायामन्यथोक्तं यथा“चतुरस्रचतुःकोष्ठे कर्णसूत्रसमन्विते । चतुर्ष्वपि चकोष्ठेषु काणसूत्रचतुष्टयम् । ततः कोष्ठेषु मत्स्याःस्युस्तेषु सूत्राणि पातयेत् । यावत् शतद्वयं मन्त्रीषट्पञ्चाशत् पदान्यपि । तावत्तेनैव विधिना तत्र सू-त्राणि पातयेत् । षट्त्रिंशता पदैर्मध्ये लिखेत् पद्मंसुलक्षणम् । वहिःपङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेनवीथिका । द्वारशोभोपशोभासान् शिष्टाभ्यां परिकल्पयेत् ।शास्त्रीक्तविधिना मन्त्री ततः पद्म समालिखेत् । पद्म-क्षेत्रस्य सन्त्यज्य द्वादशांशं बहिः सुधो । तन्मध्य वि-भजेद्वृत्तैस्त्रिभिः समविभागतः । आद्यं स्यात् कर्णिका-स्थानं केसराणां द्वितीयकम् । तृतीयं पद्मपत्राणा-मुक्तांशेन दलाग्रकम् । बाह्यवृत्तान्तरालस्य मानेन विघिनासुधीः । निधाय केसराग्रेषु परितोऽर्द्धनिशाकरान् ।लिखित्वा सन्धिसस्थानि तत्र सूत्राणि पातयेत् । दला-ग्राणाञ्च यन्मानं तन्मानाद् वृत्तमालिखेत् । तदन्तरा-लतन्मध्यसूत्रस्योभयतः सुधीः । आलिखेद् बाह्यहस्तेनदलाग्राणि समन्ततः । दलमूलेषु युगशः केसराणि प्रक-ल्पयेत् । एतत् साधारणं प्रोक्त पङ्कजं तन्त्रवेदिभिः ।पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् । अवशिष्टैःपदैर्विद्वान् पीठगात्राणि कल्पयेत् । पदानि वीथिसंस्थानिमार्जयेत् पङ्क्त्यभेदतः । दिक्षु द्वाराणि रचयेत् द्वि-चतुःकोष्ठकैस्ततः । पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वार-पार्श्वयोः । उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् ।अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् । रञ्जयेत् पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम् । पीतं हरिद्राचूर्णस्यात् सितं तण्डुलसम्भवम् । कुसुम्भचूर्णमरुण कृष्णदग्धपुलाकजम् । बिल्वादिपत्रजं श्याममित्युक्त वण-पञ्चकम् । अङ्गुलोत्सेधविस्ताराः सीमारेखा सिताःशुभाः । कर्णिकां पीतवर्णेन केसराण्यरुणेन च ।शुक्लवर्णानि पत्राणि तत्सन्धीन् श्यामलेन च । रजसारञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका । केसराः पीतरक्ताःस्युररुणानि दलान्यपि । सन्धयः कृष्णवर्णाः स्युः सिते-नाप्यसितेन वा । रञ्जयेत् पीठमार्गांश्च पादाः स्युररुण-प्रभाः । गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि ।आलिखेत् कल्पलतिकादलपुष्पफलान्विताः । वर्णैर्नानाविधैश्चित्राः सर्वदृष्टिमनोहराः । द्वाराणि श्वेतवर्णानिंशोभा रक्ताः समीरिताः । उपशोभाः पीतवर्णा को-णान्यसितभानि च । तिस्रो रेखा बहिः कार्य्याः सित-रक्तासिताः क्रमात् । मण्डलं सर्वतोभद्रमेतत् साधारणंस्मृतम्” । अपरञ्च “चतुरस्रां भुबं भित्त्वा दिग्भ्यो द्वाद-शधा सुधीः । पातयेत् तत्र सूत्राणि कोष्ठानां दृश्यतेशतम् । चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताम्बुजम् ।कोष्ठैः प्रकल्पयेत् पीठं पङ्क्त्या नैवात्र वीथिकाः । द्वार-शोभे यथा पूर्वमुपशोभा न दृश्यते । अवशिष्टैः पदैः कुर्य्यात्षडभिः कोष्ठानि तन्त्रवित् । विदध्यात् पूर्ववत् शेष-मेवं वा मण्डलं स्मृतम्” । “चतुरस्रे चतुःषष्टिं पदा-न्यारचयेत् सुधीः । पदैश्चतुर्भिः पद्मं स्यात् मध्ये तत्पूरिताः पुनः । वीथीश्चतस्रः कुर्वीत मण्डलान्तरशालिकाः ।दिग्गतेषु चतुष्केषु पङ्कजानि समालिखेत् । विदिग्ग-तचतुष्काणि भित्त्वा षोडशधा सुधीः । मार्जयेत् स्वस्ति-काकारं श्वेतपीतारुणासितैः” । मार्जनमाह राथवभट्ट-धृतम् “विदिग्गतश्चतुष्कोणान् भित्त्वा षोडशधा सुधीः ।वह्न्यादिकोष्ठत्रितये मध्योर्ध्वमपि मार्जयेत् । रजोभिःपूरयेत्तानि स्वस्तिकानि शिवादितः । प्राक् प्रोक्तेनैवमार्गेण शेषमन्यत् समापयेत् । नवनाभमिदं प्रोक्तंभण्डलं सर्वसिद्धिदम् । पञ्चाब्जमण्डलं प्रोक्तमेतत् ख-ग्निकवर्जितम् । दीक्षायां देवपूजायां मण्डलानां चतु-ष्टयम् । सर्वतन्त्रानुसारेण प्रोक्तं सर्वसमृद्धिदम्” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
