सर्वतोभद्र (sarvatobhadra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishसर्व्वतोभद्र (-द्रः-द्रा-द्रं) Every where auspicious.
mn. (-द्रः-द्रं) A temple
or palace of a square form, with an entrance opposed to each
point of the compass.
(-द्रः)
1. The Nimba-tree, (Melia
azadirachta.)
2. The carriage of VISHṆU.
3. A bamboo.
4. A form
of military array.
5. A square mystical diagram, to be painted on
the cloth which on particular occasions covers a sort of altar
erected to VISHṆU.
6. A kind of charade, in which the same word
answers several questions.
7. A whimsical form of verse, so con-
trived that the sams meanings and words occur, whether the
line be read back-wards or forwards, or in several other directions.
(-द्रा)
1. A tree, (Gmelina arborea.)
2. An actress or the wife of
an actor or dancer, &c.
3. A sort of yam, (Dioscorea.)
सर्व्वतस्
on every side, भद्र auspicious.
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishसर्वतोभद्र - sarvatobhadra - - side good
सर्वतोभद्र - sarvatobhadra - - it every way auspicious
सर्वतोभद्र - sarvatobhadra - - in every direction or on every
सर्वतोभद्र - sarvatobhadra - - actress
सर्वतोभद्र - sarvatobhadra - - kind of riddle or charade
सर्वतोभद्र - sarvatobhadra - - car
सर्वतोभद्र - sarvatobhadra - - square mystical diagram
सर्वतोभद्र - sarvatobhadra - - sort of yam [ Dioscorea - Bot. ]
सर्वतोभद्र - sarvatobhadra - - kind of perfume
सर्वतोभद्र - sarvatobhadra - - neem tree [ Azadirachta Indica - Bot. ]
सर्वतोभद्र - sarvatobhadra - - bamboo
सर्वतोभद्र - sarvatobhadra - - artificial stanza in which each half pAda read backwards is identical with the other half
सर्वतोभद्र - sarvatobhadra - - form of military array
सर्वतोभद्र - sarvatobhadra - - temple of a square form and having an entrance opposite to every point of the compass
सर्वतोभद्र - sarvatobhadra - - building having continuous galleries around
सर्वतोभद्र - sarvatobhadra - - particular mode of sitting
सर्वतोभद्र - sarvatobhadra - - mystical diagram of a square shape but enclosing a circle
सर्वतोभद्र sarvatobhadra building having continuous galleries around
Wilson
Englishसर्व्वतोभद्र
(-द्रः-द्रा-द्रं) Every where auspicious.
mn.
(-द्रः-द्रं) A temple or palace of a square form, with an entrance opposed
to each point of the compass.
(-द्रः)
1 The Nimb tree, (Melia azadirachta.)
2 The carriage of VIṢṆU.
3 A bambu.
4 A form of military array.
5 A square mystical diagram, to be painted on the cloth which on particular
occasions covers a sort of altar erected to VIṢṆU.
6 A kind of charade, in which the same word answers several questions.
7 A whimsical form of verse, so contrived that the same meanings and words
occur, whether the line be read backwards or forwards, or in several other
directions.
(-द्रा)
1 A tree, (Gmelina arborea.)
2 An actress or the wife of an actor or dancer, &c.
3 A sort of yam, (Dioscorea.)
सर्व्वतस् on every side, भद्र auspicious.
Monier Williams Cologne
Englishसर्वतो—भद्र a temple of a square form and having an entrance opposite to ev° point of the compass, ib.
a square mystical diagram (painted on a cloth, and used on partic. occasions to cover a sort of altar erected to Viṣṇu
but below),
सर्वतो—भद्र an artificial stanza in which each half Pāda read backwards is identical with the other half (e.g. xv, 25
xix, 40
also , )
Apte Hindi
Hindiसर्वतोभद्रः
सर्वत-भद्रः -
विष्णु का रथ
सर्वतोभद्रः
सर्वत-भद्रः -
बाँस
सर्वतोभद्रः
सर्वत-भद्रः -
एक प्रकार का चित्रकाव्य
सर्वतोभद्रः
सर्वत-भद्रः -
मन्दिर या महल जिसके चारों ओर द्वार हो
Aufrecht Catalogus Catalogorum
EnglishIndian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanSanskrit Tibetan
Tibetankun tu bzang po
१) समन्तभद्र २) सर्वतोभद्र
Mahabharata
EnglishSarvatobhadra, name of a battle array. § 586 (Bhīshmavadhap.): VI, 99, 4500 (vyūhaṃ, formed by Bhīshma).-§ 611 (Śalyap.): IX, 8, 387 (vyūhaṃ, formed by Śalya).
पुराणम्
Englishसर्वतोभद्र / SARVATOBHADRA. Varuṇa's home. (Udyoga Parva, Chapter 98, Verse 10).
शब्दकल्पद्रुमः
Sanskritसर्व्वतोभद्रं, (सर्व्वतो भद्रमस्मादिति ।)ईश्वरगृहविशेषः । इत्यमरः । २ । २ । १० ॥
द्वारा-लिन्दादिभेदभिन्नाढ्यगृहम् । तस्य लक्षणमुप-न्यस्तं साञ्झेन यथा, --“स्वस्तिकं प्राङ्मुखं यत् स्यादलिन्दानुगतं भवेत् ।तत्पार्श्वानुगतौ चान्यौ तत्पर्य्यन्तगतोऽपरः ॥
अनिषिद्धालिन्दभेदं चतुर्द्वारञ्च यद्गृहम् ।तद्भवेत् सर्व्वतोभद्रं चतुरालिन्दशोभितम् ॥
प्राक्पश्चिमानुगतौ च शेषावुदरविस्तृतौ ।यत्रालिन्दौ रुचक्यतो न चेत् स्यादुत्तरामुखम् ॥
क्रमेणोपचीयमानं यत्रालिन्दद्वयं गृहे ।तद्वर्द्धमानमित्याहुर्न चेत् स्यादुत्तरामुखम् ॥
दक्षिणानुगतालिन्दत्रयं यत् पश्चिमामुखम् ।पूजनीयोत्तरोच्छ्रायं नन्द्यावर्त्तं वदन्ति तत् ॥
उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञकम् ॥
”इति वचनेषु स्वस्तिकादीनां क्लीवत्वदर्शनात्स्वस्तिकादीनां पुंनपुंसकत्वं मन्तव्यम् । एवमादि-प्राप्तौ रुचकवर्द्धमानौ पुंलिङ्गावपि यदुक्तम् ।“स्वस्तिकः सर्व्वतोभद्रो रुचको वर्द्धमानकः ।नन्द्यावर्त्तादयश्चापि द्वारालिन्दादिभेदजाः ॥
”इति भरतः ॥
* ॥
लक्षणान्तरं यथा, भविष्योत्तरे ।“मेषादिचन्द्रे जातस्य नृपतेः स्युरनुक्रमात् ।द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥
सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ।विनोदश्च विलासश्च विजयो विमलस्तथा ॥
रङ्गः केलिर्ज्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥
”तल्लक्षणं यथा, --“द्वौ राजहस्तावायामे परिणाहे तथैव च ।इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।चतुर्द्दशास्य द्वाराणि कृष्णचित्रावृतानि च ॥
पीठपट्टावृतो ह्येषः सर्व्वानिष्टविनाशनः ।अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृ-न्तति ॥
”दीर्घ २१ प्रस्थ २० इति सर्व्वतोभद्रः । इतियुक्तिकल्पतरुः ॥
(सर्व्वतो मङ्गलप्रदे, त्रि ।यथा, भागवते । १० । ७१ । ११ ।“इत्युद्धववचो राजन् सर्व्वतोभद्रमच्युतम् ।देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥
”)
सर्व्वतोभद्रं, (सर्व्वतो भद्रमस्येति ।) वृषोत्-सर्गव्रतप्रतिष्ठादौ पूजाधारमण्डलविशेषः । यथा, शारदायाम् ।“चतुरस्रे चतुःकोष्ठे कर्णसूत्रसमन्विते ।चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् ॥
मध्ये मध्ये यथा मत्सा भवेयुः पातयेत्तथा ।पूर्व्वापरायते द्वे द्वे मन्त्री याम्योत्तरायते ॥
पातयेत्तेषु मत्स्येषु समं सूत्रचतुष्टयम् ।पूर्व्ववत् कोणकोष्ठेषु कर्णसूत्राणि पातयेत् ॥
तद्वत् भूतेषु मत्स्येषु दद्यात् सूत्रचतुष्टयम् ।ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत् ॥
यावत् शतद्वयं मन्त्री षट्पञ्चाशत् पदान्यपि ।तावत्तेनैव विधिना तत्र सूत्राणि पातयेत् ॥
षट्त्रिंशता पदैर्म्मध्ये लिखेत् पद्मं सुलक्षणम् ।बहिःपङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन वीथिका ॥
द्वारशोभोपशोभास्रान् शिष्टाभ्यां परिकल्पयेत् ।शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् ॥
पद्मक्षेत्रस्य संत्यज्य द्वादशांशं बहिः सुधीः ।तन्मध्यं विभजेत् वृत्तैस्त्रिभिः समविभागतः ॥
आद्यं स्यात् कर्णिकास्थानं केशराणां द्वितीयकम् ।तृतीयं पद्मपत्राणां मुक्तांशेन दलाग्रकम् ॥
बाह्यवृत्तान्तरालस्य मानेन विधिना सुधीः ।निधाय केशराग्रेषु परितोऽर्द्धनिशाकरान् ॥
लिखित्वा सन्धिसंस्थानि तत्र सूत्राणि पातयेत् ।दलाग्राणाञ्च यन्मानं तन्मानाद्वृत्तमालिखेत् ॥
तदन्तरालतन्मध्यसूत्रस्योभयतः सुधीः ।आलिखेद्वाह्यहस्तेन दलाग्राणि समन्ततः ॥
दलमूलेषु युगशः केशराणि प्रकल्पयेत् ।एतत् साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः ॥
पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् ।अवशिष्टैः पदैर्व्विद्वान् पीठगात्राणि कारयेत् ॥
पदानि वीथिसंस्थानि मार्ज्जयेत् पङ्क्त्यभेदतः ।सर्व्वतोभद्रमण्डलस्य रूपं यथा ।दिक्षु द्वाराणि रचयेत् द्विचतुःकोष्ठकैस्तथा ॥
पदैस्त्रिभिरथैकेन शोभाः स्युर्द्बारपार्श्वयोः ।उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् ॥
अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् ।रञ्जयेत् पञ्चभिर्व्वर्णैर्म्मण्डलं तन्मनोहरम् ॥
पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् ।कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ॥
विल्वादिपत्रजं श्यामं इत्युक्तं वर्णपञ्चकम् ।अङ्गुलोत्सेधविस्ताराः सीमारेखाः सिताःशुभाः ॥
कर्णिकां पीतवर्णेन केशराण्यरुणेन च ।शुक्लवर्णानि पत्राणि तत्सन्धीन् श्यामलेन च ॥
रजसा रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका ।केशराः पीतरक्ताः स्युररुणानि दलान्यपि ॥
सन्धयः कृष्णवर्णाः स्युः सितेनाप्यसितेन वा ।रञ्जयेत् पीठगर्भाणि पादाः स्युररुणप्रभाः ॥
गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि ।आलिखेत् कल्पलतिका दलपुष्पफलान्विताः ॥
वर्णैर्नानाविधैश्चित्रैः सर्व्वदृष्टिमनोहराः ।द्वाराणि श्वेतवर्णानि शोभा रक्ताः समीरिताः ॥
उपशोभाः पीतवर्णाः कोणान्यसितभानि च ।तिस्रो रेखा बहिः कार्य्याः सितरक्तासिताःक्रमात् ॥
मण्डलं सर्व्वतोभद्रमेतत् साधारणं स्मृतम् ॥
” * ॥
प्रकारान्तरं यथा, --“चतुरस्रां भुवं भित्त्वा दिग्भ्यो द्बादशधा सुधीःपातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ॥
चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताम्बुजम् ।कोष्ठैः प्रकल्पयेत् पीठं पङ्क्त्या नैवात्र वीथिका ॥
द्वारशोभे यथा पूर्व्वमुपशोभा न दृश्यते ।अवशिष्टैः पदैः कुर्य्यात् षड्भिः कोणानि तन्त्र-वित् ।विदध्यात् पूर्व्ववत् शेषमेवं वा मण्डलं स्मृतम् ॥
”इति तन्त्रसारे १ परिच्छेदः ॥
* ॥
सर्व्वतोभद्रमण्डलस्य रूपं यथा ।नाराणां शुभाशुभज्ञानार्थं चक्रविशेषः । यथा, “अथातः संप्रवक्ष्यामि चक्रं त्रैलोक्यदीपनम् ।विख्यातं सर्व्वतोभद्रं सद्यः प्रत्ययकारकम् ॥
ऊर्द्ध्वगा दश विन्यस्य तिर्य्यग्रेखास्तथा दश ।एकाशीतिपदं चक्रं जायते नात्र संशयः ॥
अकारादिस्वराः कोष्ठेष्वीशादौ विदिशिक्रमात् ।प्रदक्षिणक्रमाज्ज्ञेया ज्योतिःशास्त्रविशारदैः ॥
कृत्तिकादीनि धिष्ट्यानि पूर्व्वाशादि लिखेत्ततः ।सप्त तप्त क्रमेणैव अष्टाविंशति संख्यया ॥
अ-व-क-ह-डाः पूर्व्वस्यां म-ट-प-र-ताहरिति दक्षिणस्याम् ।न-य-भ-ज-खा वारुण्यां ग-श-द-च ला-श्चोत्त-रस्यां स्युः ॥
त्रयस्त्रयो वृषाद्यास्तु पूर्व्वादिक्रमतो बुधैः ।राशयो द्वादश स्थाप्या मेषान्ता दक्षमार्गतः ॥
शेषेषु कोष्ठकेष्वेवं नन्दादितिथिपञ्चकम् ।वाराणां सप्तकं लेख्यं भौमाद्यं तत्तिथिक्रमात् ॥
इत्येवं सर्व्वतोभद्रप्रकारः कथितो मया ।यस्मिन्नृक्षे स्थितः खेटस्ततो वेधत्रयं भवेत् ॥
ग्रहदृष्टिवशेनात्र वामदक्षिणसंमुखे ।भुक्तं भोग्यं तथाक्रान्तं विद्धं क्रूरग्रहेण भम् ॥
शुभाशुभेषु कार्य्येषु वर्ज्जनीयं प्रयत्नतः ।वक्रगे दक्षिणा दृष्टिर्वामा दृष्टिश्च शीघ्रगे ॥
संमुखी मध्यचारे च ज्ञेया भौमादिपञ्चके ।सूर्य्यमुक्ता ग्रहाः शीघ्रास्तथा चार्के द्वितीयगे ॥
समास्तृतीयगे ज्ञेया मन्दा भानौ चतुर्थगे ।वक्राः स्यृः पञ्चषष्टेऽर्के त्वतिवक्रा नगाष्टगे ॥
नवमे दशमे भानौ जायते सहजा गतिः ।द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः ॥
रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते ।न तु राश्यन्तरस्पर्शात् द्बितीयादिनिरूपणम् ॥
राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ ।गतेरेकस्वभावत्वादेषां दृष्टित्रयं सदा ॥
क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः ।स्युः सहजस्वभावस्थाः सौम्या क्रूराश्च शीघ्रगाः ॥
घ-ङ-छाः ष-ण-ठाश्चैव ध-फ-ढाश्छ-झ-ञा-स्तथा ।एतत् त्रिकं त्रिकं विद्धं विद्धैः क-प-भ-दैःक्रमात् ॥
घ-ङ-छा रौद्रगे वेधे ष-ण-ठा अस्तगे ग्रहे ।ध-फ-ढाः पूर्व्वाषाढायां थ-झ-ञा भाद्र उत्तरे ॥
रवौ शसौ खयौ चैव जयौ णनौ परस्परम् ।एकेन हि द्वयं ज्ञेयं शुभाशुभग्रहव्यधे ॥
अवर्णादिस्वरद्वन्द्वे त्वेकवेधात् द्बयोर्व्व्यधः ।युग्मवर्णात्मके वेधे अनुस्वारविसर्गयोः ॥
”आकारादियुग्मवर्णात्मकवेधवदनुस्वारविसर्गयोःएकवेधादुभयवेध इत्यर्थः ।“कोणस्थऋक्षयोर्म्मध्ये अन्त्यादिपादगे ग्रहे ।अकारादिचतुष्केषु वेधः पूर्णतिथौ तथा ॥
एकादिक्रूरवेधेन फलं पुंसां प्रजायते ।उद्वेगश्च भयं हानिर्व्याधिर्मृत्युः क्रमेण च ॥
ऋक्षे भ्रमोऽक्षरे हानिः स्वरे व्याधिर्भयं तिथौ ।राशौ विद्धे महाविघ्नः पञ्चविद्धो न जीवति ॥
एकवेधे भयं युद्धे युग्मवेधे धनक्षयः ।त्रिवेधे तु भवेद्भङ्गो मृत्युर्वेधचतुष्टये ॥
”दिष्टित्रये उदाहरणमाह ।“भरण्यकारवृषभं नन्दां भद्रां तुलाञ्च भम् ।विशाखां हरिभं विध्येद्ग्रह आग्नेयसंस्थितः ॥
”उदाहरणान्तरमाह ।“वं युग्ममौस्वरं कन्यां रेफं स्वातीमुकारकम् ।अश्विनीं रोहिणीस्थोऽभिजिद्भमेवं परेष्वपि ॥
यथा दृष्टंफलाः क्रूरास्तथा सौम्याः शुभप्रदाः ।क्रूरयुक्तः पुनः सौम्यो ज्ञेयः क्रूरफलप्रदः ॥
अर्कवेधे मनस्तापो द्रव्यहानिश्च भूसुते ।रोगपीडाकरः सौरी राहुकेतू च विघ्नदौ ॥
चन्द्रे मिश्रफलं पुंसां रतिलाभश्च भार्गवे ।बुधवेधे भवेत् प्रज्ञा जीवः सर्व्वशुभप्रदः ॥
स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे ग्रहे ।अर्द्धं समगृहे प्रोक्तं पादं शत्रुगृहे स्थिते ॥
इदञ्च सौम्यक्रूराणां बलं स्थानवशात् समम् ।एतदेव फलं विद्धि सौम्यैः क्रूरैर्व्विपर्य्ययात् ॥
स्थानवेधसमायोगात् यत्संख्यं जायते बलम् ।तत्संख्यं वेध्यवस्तूनां फलं ज्ञेयं शुभाशुभम् ॥
दृष्टिहीने पुनर्वेधे न स्यात् किञ्चित् शुभाशुभम् ।ग्रहाः सौम्यास्तथा क्रूरा वक्राः शीघ्रोच्चनीचगाः ॥
स्थानञ्च वेध्यमित्येवं बलं ज्ञात्वा फलं वदेत् ।वक्रग्रहे फलं द्विघ्नं त्रिगुणं स्वोच्चसंस्थिते ॥
स्वभावजं फलं शीघ्रे नीचस्थोऽर्द्धफलो ग्रहः ।तिथिराश्यंशनक्षत्रं विद्धं क्ररग्रहेण यत् ॥
सर्व्वेषु शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः ।न नन्दति विवाहे च यात्रायां न निवर्त्तते ॥
रोगान्न मुच्यते रोगी वेधवेलाकृतोद्यमः ।रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः ॥
वक्रगत्या भवेन्मृत्युः शीघ्रे जाप्यरुजान्वितः ।वेधस्थाने रणे भङ्गो दुर्गे खण्डिः प्रजायते ॥
कविप्रवेशनं तत्र योधाघातश्च तत्र वै ॥
”कविश्चौरयोद्धा ।“यत्र पूर्व्वादिकाष्ठायां वृषराश्यादिगो रविः ।सा दिगस्तमिता ज्ञेया शेषास्तिस्रः सदोदिताः ॥
ईशानस्थाः स्वराः प्राच्यां ज्ञेया याम्या-मथाग्निगाः ।नैरृतस्थाश्च वारुण्यां वायव्यां सौम्यगा मताः ।नक्षत्राणि स्वरा वर्णा राशयस्तिथयो दिशः ॥
ते सर्व्वेऽस्तमिता ज्ञेया यत्र भानुस्त्रिमासिकः ॥
नक्षत्रेऽस्ते रुजा वर्णे हानिः शोकः स्वरेऽस्तगे ।राशौ विघ्नस्तिथौ भीतिः पञ्चास्ते मरणं भवेत् ॥
यात्रा युद्धं विवादश्च द्वारं प्रासादहर्म्म्ययोः ।न कर्त्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः ॥
अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम् ।स आर्त्तः सर्व्वकार्य्येषु ज्ञेयो दैवहतो नरः ॥
करौ कोष्ठे तथा द्वन्द्वे चातुरङ्गमहाबले ।वर्ज्याश्चास्तं गता योधा यदीच्छेद्विजयं रणे ॥
नक्षत्रेऽभ्युदिते पुष्टिर्वर्णे लाभः स्वरे सुखम् ।राशौ जयस्तिथौ तेजः पदाप्तिः पञ्चकोदये ॥
प्रश्नकाले भवेद्बिद्धं यल्लग्नं क्रूरखेचरैः ।तद्दुष्टं शोभनं सौम्यैर्म्मिश्रैर्म्मिश्रफलं भवेत् ॥
ग्रहाविद्धन्तु यल्लग्नं फलं लग्नस्वभावतः ।ज्ञातव्यमीक्षिते केन्द्रे भाषितं यच्चरादिकम् ॥
शीर्षोदये सौम्यविलग्नवर्गेलग्नेऽपि वा सौम्ययुते शुभं स्यात् ।अतोऽन्यथात्वे तु तदन्यथात्वंमिश्रं विमिश्रैरधिकं बलाढ्यैः ॥
केन्द्रोपगा नवमपञ्चमगाश्च सौम्याःकेन्द्राष्टवर्ज्जमशुभास्त्रयषष्ठसंस्थाः ।सर्व्वार्थसाधनकराः परिपृच्छतां स्यु-रेभिर्विपर्य्ययगतैस्तु विपर्य्ययः स्यात् ॥
लग्नाधिनाथो यदि केन्द्रगः स्यात्तन्मित्रमेतस्य च केन्द्रगं वा ।व्ययाष्टकेन्द्रानपहाय पापाअन्यत्र याता यदि तच्छुभं स्यात् ॥
आद्यो लग्नाधिपः कार्य्येलग्ने कार्य्याधिपो यदिद्वितीयो लग्नपो लग्ने कार्य्ये कार्य्याधिपो यदिलग्नपः कार्य्यपश्चापि लग्ने यदि तृतीयकः ।चतुर्थः कार्य्यपौ स्यातां यदि लग्नपकार्य्यपौ ॥
कार्य्यसिद्धिस्तदा ज्ञेया मित्रञ्चेदधिकं मतम् ।एवं दृष्टिवशाज्ज्ञेयं फलं तद्बच्चतुष्टयम् ॥
पूर्णनाडीस्थितो दूतो यत् पृच्छति शुभाशुभम्तत् सर्व्वं सिद्धिमाप्नोति शून्ये शून्यं समीरणे ॥
आदौ शून्यगतः पृच्छेत्पश्चात् पूर्णां विशेद्यदितदा सर्व्वार्थसिद्धिः स्यात् वामे वामं न संशयःश्वासप्रवेशकाले चेद्दूतो जल्पति वाञ्छितम् ।तस्यार्थः सिद्धिमाप्नोति निर्गमे नास्ति सुन्दरम्ऊर्द्ध्ववामाग्रतो दूतो ज्ञेयो वामपथस्थितः ।पृष्ठे दक्षे तथाधस्ताद्दक्षबाहौ गतो मतः ॥
यात्रादानविवाहेषु वस्त्रालङ्कारभूषणे ।शुभे कर्म्मणि सन्धौ च प्रवेशे वामगः शुभः ॥
कलहद्यूतयुद्धेषु स्नानभोजनमैथुने ।व्यवहारे भये भङ्गे दक्षनाडी प्रशस्यते ॥
क्रूरैरुभयतो विद्धा यस्याक्षरतिथिस्वराः ।राशिर्धिष्ट्यञ्च पञ्चापि तस्य मृत्युर्न संशयः ॥
मण्डलं नगरं ग्रामो दुर्गं देर्वालयं पुरम् ।क्रूरैरुभयतो वेधे विनश्यन्ति न संशयः ॥
कृत्तिकायां तथा पुष्ये रेवत्याञ्च पुनर्वसौ ।विद्धे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु ॥
तौलं भाण्डं रसो धान्यं गजाश्वादिचतुष्पदाः ।सर्व्वं महार्घतां याति यावत् क्रूरव्यधे स्थितम् ॥
क्रूरवेधसमायोगे यस्योपग्रहसम्भवः ।तस्य मृत्युर्न सन्देहो रोगाद्बाथ रणादपि ॥
सूर्य्यभात् पञ्चमं धिष्ट्यं ज्ञेयं विद्युन्मुखाभिधम् ।शूलञ्चाष्टमकं प्रोक्तं सन्निपातं चतुर्द्दशम् ॥
केतुरष्टादशं प्रोक्तमुल्का स्यादेकविंशतिम् ।द्बाविंशतितमं कम्पं त्रयोविंशञ्च वज्रकम् ॥
निर्घातञ्च चतुर्विंशमुक्ता अष्टावुपग्रहाः ।प्रस्थाने विघ्नदाः प्रोक्ताः सर्व्वकार्य्येषु सर्व्वदा ॥
”इति सर्व्वतोभद्रचक्रम् । इति ज्योतिषतत्त्वम् ॥
*सर्व्वतोभद्रचक्रस्य रूपं यथा ।पूर्व्वअ ३ ४ ५ ६ ७ ८ ९ आ२ उ अ व क ह ड ऊ १०१ ल ऌ वृषः मिथुनः कर्क्कटः ॡ म ११२७ च मेषः ओ नन्दा औ सिंहः ट १२२६ द मीनः रिक्ता पूर्णा भद्रा कन्या प १३२५ श कुम्भः अः जया अं तुला र १४२४ ग ऐ मकरः धनुः बृश्चिकः ए त १५२३ ॠ ख ज भ य न ऋ १६ई २२ ० २१ २० १९ १८ १७ इ
सर्व्वतोभद्रः, (सर्व्वतो भद्रमस्येति ।) निम्ब-वृक्षः । इत्यमरः । २ । ४ । ६२ ॥
व्यूहविशेषः । इतितट्टीका ॥
विष्णुरथः । इति शब्दरत्नावली ॥
वंशः । इति शब्दचन्द्रिका ॥
चित्रकाव्यविशेषः ।इति मेदिनी ॥
तदुदाहरणं यथा ।स का र ना ना र का सका य सा द द सा य कार सा ह वा वा ह सा रना द वा द द वा द नाइति सर्व्वतोभद्रः । इति माघे । १९ । २७ ॥
अस्यार्थः । “सकारेति । पुनः कीदृशी ।‘कारो वधे निश्चये च बले यत्ने रतावपि ।’इति विश्वः ॥
सकाराः सयत्नाः सोत्साहाः नाना नाना-विधाश्चये ये आराः अरीणां समूहाः । भिक्षादि-भ्योऽण् । तेषां कासा गतिभेदाः काया विग्र-हाश्च तेषां सादं ददतीति साददाः नाश-कारकाः सायका यस्यां सा तथोक्ता । रसेनरागेणाहवो यस्याः सा रसाहना रणरागिणी-त्यर्थः । वाहसाराणां वाहश्रेष्ठानां ये नादाहेषादिघोषास्तेषां वादं कलहं ददतीति वाद-दानि । तैः सह कलहायमानानि वादनानिवाद्यानि यस्यां सा वाहसारनादवाददवादनातूर्य्यवादघोषेत्यर्थः । अतएव तेषां तुल्यतोक्ते-रतिशयोक्तिः । सर्व्वतो भ्रमणात् सर्व्वतो-भद्राख्यश्चित्रबन्धः । अत एव दण्डी ।‘तदिदं सर्व्वतोभद्रं भ्रमणं यदि सर्व्वतः ।’ इति ।उद्धारस्तु । चतुःकोष्ठे चतुरङ्गबन्धे पुंक्तिचतुष्टयेपादचतुष्कं विलिख्यानन्तरं पङ्क्तिचतुष्टये-ऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषुप्रथमपादः सर्व्वतो वाच्यते । एवं द्वितीयादिषुद्वितीय इत्यादि ।” इति तट्टीकायां मल्लिनाथः ॥
(वटिकौषधविशेषः । यथा, --“विशुद्धं गगनं ग्राह्यं द्विकर्षं शुद्धगन्धकम् ।तोलकं तोलकार्द्धञ्च हिङ्गुलोत्थरसन्तथा ॥
कर्पूरं केशरं मांसी तेजपत्रं लवङ्गकम् ।जातीकोषफलञ्चैव सूक्ष्मैलाकरिपिप्पली ॥
कुष्ठं तालीशपत्रञ्च धातकी चोचमुस्तकम् ।हरितकी मरिचञ्च शृङ्गवेरविभीतकम् ॥
पिप्पल्यामलकञ्चैव शाणभागं विचूर्णितम् ।सर्व्वमेकीकृतं पिष्ट्वा वटीङ्कुर्य्याद्द्विगुञ्जिकाम् ॥
भक्षयेत् पर्णखण्डेन मधुना सितयापि वा ।रोगं ज्ञात्वानुपानञ्च प्रातः कुर्य्याद्विचक्षणः ॥
हन्ति मन्दानलान् सर्व्वानामदोषं विसूचिकाम् ।पित्तश्लेष्मभवं रोगं वातश्लेष्मभवन्तथा ॥
आनाहं मूत्रकृच्छ्रञ्च संग्रहग्रहणीं वमिम् ।अम्लपित्तं शीतपित्तं रक्तपित्तं विशेषतः ।चिरज्वरं पित्तभवं घातुस्थं विषमज्वरम् ॥
कासं पञ्चविधं हन्ति कामलां पाण्डुमेव च ।सर्व्वलोकहितार्थाय शिवेन भाषितः पुरा ।सर्व्वतोभद्रनामायं रसः साक्षान्महेश्वरः ॥
”इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥
“सूतं गन्धं तपनगगनं कान्तलौहस्य चूर्णंकृत्वैकस्मिन् दृशदि पिषितं शृङ्गवेरस्य वारा ।युञ्ज्याद्रोगे यकृतिगुदजे प्लीह्नि सर्व्वज्वरेषुशोथे पाण्डौ कृमिकृतगदे सर्व्वतः कामलायाम् ।कासे श्वासे प्रमिहजठरे सर्व्वदोषप्रभूतेख्यातो योगः सुरमणिकृतः सर्व्वरोगैकहन्ता ॥
”इति च रसेन्द्रसारसंग्रहे प्लीहाधिकारे ॥
)
वाचस्पत्यम्
Sanskritसर्वतोभद्र सर्वतो भद्राणि मुखानि यस्य । १ चतुर्द्वार-युक्ते १ गृहभेदे प्रतिष्ठादौ पूज्यदेवतानां २ मण्डलभेदेसर्वतोभद्रमण्डलशब्दे दृश्यम् । ज्योतिषोक्ते ३ शुभाशुभ-ज्ञानार्थे चक्रभेदे चक्रशब्दे २८१५ पृ० दृश्यम् । अलङ्का-रोक्ते बन्धभेदात्मके ४ चित्रकाव्ये च । अलङ्कारशब्दे४०७ पृ० दृश्यम् सर्वतो भद्रमस्यात् । ५ निम्बवृक्षे अमरः । ६ गाम्भार्य्यां ७ नटयोषिति च स्त्री मेदि० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
