| YouTube Channel

सर्पसत्रं (sarpasatraM)

 
शब्दकल्पद्रुमः
Sanskrit
सर्पसत्रं,
क्ली,
(सर्पनाशकं सत्रम् ।) सर्पनाशक-यज्ञविशेषः यथा, श्रीभागवते १२ १६-२८ ।“जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् ।यथा जुहाव संक्रद्धः सर्पान् सत्रे सह द्विजैः
सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।दृष्टेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ
अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्बिजान् ।उवाच तक्षकः कस्मान्न दह्येतोरगाधमः
तं गोपायति राजेन्द्र शक्रः शरणमागतम् ।तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः ।सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते
तच्छ्रुत्वा जुहुवुर्व्विप्राः सहेन्द्रं तक्षकं मखे ।तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।बभूव संभ्रान्तमतिः सविमानः सतक्षकः
तं पतन्तं विमानेन सह तक्षकमम्बरात् ।विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः
नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।अनेन पीतममृतमथवा अजरामरः
जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्म्मणा ।राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः ।सर्पचौरारिवह्न्यम्बुक्षुत्तृड्व्याध्यादिभिर्नृप ।पञ्चत्वमिच्छते जन्तुर्भुङक्त आरब्धकर्म्म तत्
तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम्
सर्पा अनागसो दग्धा जनैर्दृष्टं हि भुज्यते
इत्युक्तः तथेत्याह महर्षेर्मानयन् वचः ।सर्पसत्रादुपरतः पूजयामास वाक्पतिम्
”(जरत्कारुपुत्त्रस्यास्तीकस्य वचनादेव जनमेजयःसर्पसत्रात् विररामेति पुराणान्तरमतम्
)