| YouTube Channel

सर्ज्जिकाक्षारः (sarjjikAkSAraH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्ज्जिकाक्षारः,
पुं,
(सर्ज्जिका एव क्षारः ।)यद्बा, सर्ज्जिकाया नद्याः क्षारः इति भरतः
साचिक्षार इति साजिमाटि इति भाषा
तत्पर्य्यायः कापोतः सुखवर्च्चकः सौव-र्च्चलम् रुचकम् इत्यमरः १०९
सृजिकाक्षारः सर्ज्जिका क्षारः इतितट्टीका खर्ज्जका स्वर्ज्जिका १० इतिशब्दरत्नावली
सुरवर्च्चकः ११ इति जटा-धरः
सर्ज्जिक्षारः १२ सर्ज्जिकः १३ सर्ज्जी १४सुखोर्ज्जिकः १५ सुवर्च्चिकः १६ सुवर्च्ची १७सुखवर्च्चाः १९ अस्य गुणाः पटुत्वम् ।कटुत्वम् उष्णत्वम् कफवातोदरार्त्तिनाशि-त्वञ्च इति राजनिर्घण्टः
अपि ।“पाक्यक्षारो यवक्षारो यावशूको यवाग्रजः ।सर्ज्जिकोऽपि स्मृतः क्षारः कापोतः सुखवर्च्चकः
कथितः सर्ज्जिकाभेदो विशेषज्ञैः सुवर्च्चिका ।यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः
निहन्ति शूलं वातामश्लेष्मश्वासगलामयान् ।पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान्
सर्ज्जिकाल्पगुणा तस्माद्बिशेषाद्गुल्मशूलहृत् ।सुवर्च्चिका सर्ज्जिकावद्बोद्धच्या गुणतो जनैः
”इति भावप्रकाशः