| YouTube Channel

सर्ज्जरसः (sarjjarasaH)

 
शब्दकल्पद्रुमः
Sanskrit
सर्ज्जरसः,
पुं,
(सर्ज्जस्य रसः ।) शालवृक्षनिर्यासः ।धूना इति भाषा (यथा, महाभारते ।१४५ ।“शणसर्ज्जरसादीनि यानि द्रव्याणि कानिचित् ।आग्नेयान्युत सन्तीह तानि तत्र प्रदापय
”)तत्पर्य्यायः यक्षधूपः अरालः सर्व्वरसः ४बहुरूपः इत्यमरः १२७
रालः ६वह्निवल्लभः इति भरतधृतरभसः
शालजः८ शालनिर्यासः सर्ज्ज्यः १० धूनकः ११ शाल-सारः १२ इति रत्नमाला
विरूपः १३ ।इति शब्दरत्नावली
शालवेष्टः १४ अग्नि-वल्लभः १५ सर्ज्जमणिः १६ इति हेमचन्द्रः
राजनिर्घण्टोक्तपर्य्यायगुणौ रालशब्दे द्रष्टव्यौ