| YouTube Channel

सर्गबन्धः (sargabandhaH)

 
Apte Hindi
Hindi
सर्गबन्धः
पुं*
सर्ग-बन्धः -
महाकाव्य
शब्दकल्पद्रुमः
Sanskrit
सर्गबन्धः,
पुं,
(सर्गैरध्यायैर्ब्बन्धो यस्य ।) महा-काव्यम् इति भूरिप्रयोगः
तल्लक्षणं यथा, --“सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ।आशीर्नमष्क्रिया वस्तुनिर्द्देशो वापि तन्मुखम्
इतिहासकथोद्भूतमितरद्वा तदाश्रयम् ।चतुर्व्वर्गफलायत्तं चतुरोदात्तनायकम्
नगरार्णवशैलर्त्तुचन्द्रार्कोदयवर्णनैः ।उद्यानसलिलक्रीडामधुपानरतोत्सवैः
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् ।सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः
सर्व्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् ।काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति
”इति दण्डी