| YouTube Channel

सरयूः (sarayUH)

 
Apte Hindi
Hindi
सरयूः
स्त्री*
- सृ + अयु
एक नदी का नाम जिसके तट पर अयोध्यानगरी स्थित है
शब्दकल्पद्रुमः
Sanskrit
सरयूः
स्त्री,
(सरतीति सृ गतौ + “सर्त्ते-रयुः ।” उणा० २२ इति अयुः ।“सर्त्तेरयूः ।” इति केचित् ।) नदीविशेषः ।इत्युणादिकोषः अस्या जलगुणाः ।“सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ।”इति राजनिर्घण्टः
तस्या उत्पत्तिर्यथा, --“एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।अरुन्धतीं वशिष्ठस्तु मोदमाप तया सह
तत्र यत् पतितं तोयं मानसाचलकन्दरे ।तत्तोयं सप्तधा भूत्वा मानसाचलकन्दरात्
हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् ।यत्तोयं सङ्गतं कुर्य्याद्धंसा वडवसन्निधौ ।तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा शुभा
”इति कालिकापुराणे २३ अध्यायः