| YouTube Channel

सरटः (saraTaH)

 
Apte
English
सरटः [saraṭḥ], [सृ-अटच्
Uṇ.*
4.89]
Wind.
A lizard
लूताहिसरटानां तिरश्चां चाम्बुचारिणाम्
Ms.*
12.57
अहासि लोकैः सरटात् पटोज्झिनी
N.*
16.52
18.148.
Apte 1890
English
सरटः 1 Wind.
2 A lizard
लूताहिसरटानां तिरश्चां चांबुचारिणां Ms. 12. 57.
Apte Hindi
Hindi
सरटः
पुं*
- सृ + अटच्
वायु
सरटः
पुं*
- सृ + अटच्
छिपकली
Wordnet
Sanskrit
Synonyms:
सरटः, सरटुः, बहुरूपः, विरूपी, त्रिवर्णकृत्, शरण्डः, पेलुवासः, प्रचलाकः, प्रियकः, कीलाली, कृकलासः, कृकवाकुः, क्रकचपद्, जाहकः, सुदुष्प्रभः
noun
गोधिकाजातीयः एकः सरीसृपः यः सूर्यकिरणानां साहाय्येन शरीरस्य वर्णं परिवर्तयितुं क्षमः अस्ति।
"सरटः कीटान् भक्षयित्वा क्षुधां शाम्यति।"
अमरकोशः
Sanskrit
Word: सरटः
Root: सरट
Gender: पुं
Number: all
Meaning(s):
lizard
chameleon
chameleon wind
Shloka(s):
2|5|12|3 !!! not found !!! (सिंहादिवर्गः)
Synonym(s):
2|5|12|3 सरटः (सरट) (पुं)
2|5|12|3 कृकलासः (कृकलास) (पुं)
Related word(s):
परा_अपरासंबन्धः पशुः
जातिः सरीसृपः
शब्दकल्पद्रुमः
Sanskrit
सरटः,
पुं,
(सरतीति सृ गतौ + शकादित्वादटन् ।)कृकलासः इत्यमरः १२
गिरगिट्इति काँकलोस इति भाषा
तत्पतनादि-फलं यथा, --“वल्ल्याः प्रपाते फलं सरटस्य प्ररोहणे ।शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम् ।नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम्
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् ।धनलाभो बाहुमूले करयोर्धनवृद्धयः
स्तनमूले सौभाग्यं हृदि सौख्यविवर्द्धनम् ।पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम्
कटिद्बये वस्त्रलाभो गुह्ये मृत्युसमागमः ।जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत्
ऊर्व्वोश्च वाहनावाप्तिर्जानुजङ्घऽर्थसंक्षयः ।वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत्
वल्ल्याः प्ररोहणे चैव पतने सरटस्य ।व्यत्यासाच्च फलं चैव तद्वदेवं प्रजायते
वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम् ।निधनार्थाय भवति व्याधिपीडाविपर्य्ययौ
पतनानन्तरं चैवारोहणं यदि जायते ।पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत्
आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे पातनम् ।भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवम्
स्पृष्टमात्रेण यः सद्यः सचेलं जलमाविशेत् ।पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम्
वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् ।पूजयेत् गन्धपुष्पाद्यैस्तदग्र पूर्णकुम्भके
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् ।पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत्ततः
पूजयेद्गन्धपूष्पाद्यैर्लोकपालांस्तथा क्रमात् ।मृत्युञ्जयेन मन्त्रण सभिद्भिः खादिरैः शुभैः
तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम्
”वल्ली गृहगोषिका मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः ।इति विद्याकरः इति ज्योतिस्तत्त्वम्
(वातः ।इत्युणादिटीकायामुज्ज्वलदत्तः १०५
)