| YouTube Channel

सय्यँम (sayya~ma)

 
वाचस्पत्यम्
Sanskrit
सय्यँम
पु०
सम् + यम--करणे घञ् समो वा परसवर्णोऽनु-नासिको यँः पक्षे संयमः पात० सू० परिभाषिते धार-णाध्यानसमाधित्रये “त्रयमेकत्र संयमः” पात० सू० “तदेतस्यधारणाध्यानसमाधित्रयस्यैकत्र संयमः एकविषयाणित्रीणि साधनानि संयम इत्युच्यते तदस्य त्रयस्य तान्त्रिकीपरिभाषा संयमः इति” भा०