| YouTube Channel

सम्मुखः (sammukhaH)

 
शब्दकल्पद्रुमः
Sanskrit
सम्मुखः, त्रि, (सम्यक् मुखं यस्य ।) अभिमुखा-गतः तत्पर्य्यायः भग्नपृष्ठः इति त्रिकाण्ड-शेषः
(यथा, कथासरित्सागरे २७ १३८ ।“तस्यां विक्रमसिंहाख्यो बभूवान्वर्थयाख्यया ।राजा वैरिमृगा यस्य नैवासन् सम्मुखाःक्वचित्
”अभिमुखे, क्ली सुमुख इति भाषा
यथा, कथासरित्सागरे ७० ।“नाशकत् सम्मुखे स्थातुं कष्टो ह्यविनयक्रमः
”तथा साहित्यदर्पणे १५४ ।“दृष्टा दर्शयति व्रीडां सम्मुखं नैव पश्यति
”सर्व्वं मुखमिति निपातनात् अन्तलोपे सम्मुख-मिति सिद्धम् इति शब्दार्थचिन्तामणिः
समस्तमुखे क्ली इति काशिका
)