| YouTube Channel

सम्भूयसमुत्थान (sambhUyasamutthAna)

 
शब्दसागरः
English
सम्भूयसमुत्थान
n.
(-नं) Partnership, association in trade, joint execution of
work or conduct of business.
E.
सम्भूय, समुत्थान performance of work.
Yates
English
सम्भूय-समुत्थान (नं) 1.
n.
Partner-
ship.
Wilson
English
सम्भूयसमुत्थान
n.
(-नं) Partnership, association in trade, joint
execution of work or conduct of business.
E.
सम्भूय, and समुत्थान performance of work.
शब्दकल्पद्रुमः
Sanskrit
सम्भूयसमुत्थानं,
क्ली,
(सम्भूय मिलित्वा समुत्थानंकर्म्मकरणं यत्र ।) मिलित्वैकमत्या बणिजांकर्म्मकरणम् तत्तु विवादपदविशेषः यथा, सम्भूयसमुत्थानं नाम विवादपदमिदानीमभि-दधाति ।“समवायेन बणिजां लाभार्थं कर्म्म कुर्व्वताम् ।लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ
”सर्व्वे वयमिदं कर्म्म मिलिताः कुर्म्म इत्येवंरूपासम्प्रतिपत्तिः समवायस्तेन ये बणिङ्नटनर्त्तक-प्रभृतयो लाभलिप्सवो भूत्वा प्रातिस्विकं कर्म्मकुर्व्वते तेषां लाभालाभावुपचयौ यथाद्रव्यं येनयावद्धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणाव-सेयौ यद्बा प्रधानगुणभावपर्य्यालोचनयास्यभागद्बयमस्यैको भाग इत्येवंरूपया संविदा सम-येन यथा संप्रतिपत्तौ तथा वेदितव्यां किञ्च ।“प्रतिषिद्धमनादिष्टं प्रमादात् यच्च नाशितम् ।स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक्
”तेषां सम्भूय प्रचरतां मध्ये पण्यमिदमित्थं नव्यवहर्त्तव्यमिति प्रतिषिद्धमाचरता यन्नाशितंअनादिष्टमननुज्ञातं वा कुर्व्वाणेन तथा प्रमा-दात् प्रज्ञाहीनतया वा येन यन्नाशितं तत्-पण्यं बणिग्भ्यो दद्यात् यः पुनस्तेषां मध्येचौरराजादिजनितात् व्यसनात् पण्यं पालयतिस तस्माद्रक्षितात् पण्यात् दशममंशं लभते ।“अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् ।व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत्
”इह यतः पण्यस्येयन्मूल्यं इत्यर्घस्तस्य प्रक्षेपणात्राजनिरूपणाद्धेतोरसौ मूल्याद्विंशतितममंशंशुल्कार्थं गृह्णीयात् यत् पुनर्व्यासिद्धमन्यत्र नविक्रेयमिति राज्ञा प्रतिषिद्धम् यच्च राजयोग्यंमाणिक्याद्यप्रतिषिद्धमपि तद्राज्ञे अनिवेद्य लाभ-लोभेन विक्रीतञ्चेद्राजगाभिमूल्यदाननिरपेक्षंतत् सर्व्वं पण्यं राजापहरेदित्यर्थः ।“मिथ्या वदन् परीमाणं शुल्कस्थानादपासरत् ।दाप्यस्त्वष्टगुणं पञ्च सव्याजक्रयविक्रयी
”यः पुनर्ब्बणिक् शुल्कवञ्चनार्थं परीमाणं निह्नुतेशुल्कग्रहणस्थानाद्वापसरति यश्चास्येदमस्यवेत्येवं विदादास्पदीभूतं पण्यं क्रीणाति विक्रीणीतेवा ते सर्व्वे पण्याष्टगुणं दण्डनीयाः अपि ।“तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे
”शुल्कं हि द्बिविधं स्थलजं जलजञ्च तत्र स्थल-जमर्घप्रक्षेपणाद्बिंशं भागं शुल्कं नृपो हरे-दित्युक्तम् जलजन्तु मानवेऽभिहितम् ।“पणं यानं तरे दाप्यं पुरुषोऽर्द्धपणन्तरे ।पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान्
भाण्डपूर्णानि यानानि तार्य्यं दाप्यानि सारतः ।रिक्तभाण्डानि यत्किञ्चित् पुमांसञ्चापरिच्छदाः
”शुल्कद्बयेऽप्ययमपरो विशेषः ।“न भिन्नकार्षापणमस्ति शुल्कंन शिल्पवृत्तौ शिशौ दूते ।न भैक्ष्यलब्धे हृतावशेषेन श्रोत्रिये प्रव्रजिते यज्ञे
इति ।तीर्य्यतेऽनेनेति तरो नावादिस्तज्जन्यशुल्केऽधि-कृतस्तरिकः यदा स्थलोद्भवं शुल्कं गृह्णातितदा दशपणान् दण्डनीयः वेशो वेश्म प्रति-वेश इति स्ववेश्मामिमुखं स्ववेश्मपार्श्वस्थं चोच्यतेतत्र भवाः प्रतिवेश्याः ब्राह्मणाश्च ते प्राति-वेश्याश्च ब्राह्मणप्रातिवेश्यास्तेषां श्रुतवृत्तसम्पन्नानां श्राद्धादिषु विभवे सत्यनिमन्त्रणे एतदेवदशपणात्मकं दण्डनं वेदितव्यम्
*
देशा-न्तरमृतबणिग्रिक्थं प्रत्याह ।“देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः
”यदा सम्भूयकारिणां मध्ये यः कश्चिद्देशान्तरंगतो मृतस्तदा तदीयमंशं दायादः पुत्त्राद्यपत्य-वर्गः बान्धवाः मातृपक्षीयाः मातुलाद्याःज्ञातयोऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आ-गताः सम्भूयव्यवहारिणो ये देशान्तरादाग-तास्ते वा गृह्णीयुस्तैर्विना दायाद्यभावे राजागृह्णीयात् वाशब्देन दायादीनां वैकल्पिकंअधिकारं दर्शयति पौर्व्वापर्य्यनियमस्तु पत्नीदुहितर इत्यादि प्रतिपादित एवात्रापिविज्ञेयः शिष्यसब्रह्मचारिब्राह्मणनिषेधो बणिक्-प्राप्तिश्च वचनप्रयोजनम् बणिजामपि मध्येयः पिण्डदानर्णदानादिसमर्थः गृह्णीयात् ।सामर्थ्याविशेषे पुनः सर्व्वे बणिजः संसृष्टिनोविभज्य गृह्णीयुस्तेषामभावे दशवर्षं दायाद्या-गमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णी-यात् तदिदं नारदेन स्पष्टमुक्तम् ।“एकस्य चेत् स्यात् मरणं दायादोऽस्य तदाप्नुयात् ।अन्यो वासति दायादे शक्तश्चेत् सर्व एव ते
तदभावे तु गुप्तं तत् कारयेद्दशवत्सरात् ।अस्वामिकमदायाद दशवर्षस्थितं ततः
राजा तदात्मसात् कुर्य्यात् एवं धर्म्मो हीयते
”किश्च ।“जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् ।”जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभमा-च्छिद्य त्यजेयुः बहिष्कुर्य्युः यश्च सम्भूयकारिणांमध्ये भाण्डप्रत्यवेक्षणादिकं कर्त्तुमसमर्थोऽसाव-न्येन स्वं कर्म्म भाण्डभारवाहनं तदायव्ययपरी-क्षणादिकं कारयेत् इति मिताक्षरा
वाचस्पत्यम्
Sanskrit
सम्भूयसमुत्थान
न०
सम्भूय मिलित्वा सम्यमुत्तिष्ठन्त्यनेनसम् + उद् + स्था--करणे ल्युद् मिलित्वा बणिजां वा-णिज्यादिकर्मकरणे तद्विषयके विवादमेदे तत्खरूपा-दिकं वीरमि० उक्तं यथा“अथ सम्भूयसमुत्थानाख्यव्यवहारपदम् तस्य स्वरूप-साह नारदः “बणिक्वभृतयो यत्र कर्म सम्भूयकुर्वते तत् सम्भूयसमुत्थानं व्यवहारपद स्मृतम्” इति ।वणिक्प्रभृतय इत्यनेन ऋत्विङ्गटनर्त्तककर्षकादीनांग्रहणम् यद्यपि फलभूतस्य स्वर्गस्य ऋत्विग्गामित्वा-मावादात्मनेपदस्यानुपपन्नत्वेन प्रभृतिशब्देन ऋत्विग्-ग्रहणमनुचितम् तथापि आत्मनेपदाऽविवक्षयेदमुक्तन्नच ऋत्विङ्मात्रे आत्मनेपदाविवक्षणे अन्यांशे विव-क्षणे वैरूप्यप्रसङ्ग इति वाच्यम् सम्भूयकर्त्तृत्वमात्रस्यलक्षणत्वेनान्यत्र वास्तवतत्सत्त्वेऽपि लक्षणवैयर्थ्यप्रसङ्गा-भावात् चिन्तामणिकृता कत्नभिप्राय इत्यस्यकर्त्रभिप्रायविषये कर्त्रिच्छाविषये क्रियाफल इति व्या-ख्यातत्वादृत्विजामपि सफलं यजमानस्य कर्म भवत्वितिवेतनोपरागेणेच्छा सम्भवत्येवेत्यात्मनेपदविवक्षायामपिका क्षतिरिति वाच्यम् कर्त्रमिप्राये कर्तृगामिनीत्यस्यैवव्याख्यानस्य सहाभाष्याद्यनेकग्रन्थसम्मतत्वेनान्यादृशव्या-ख्यानस्य महाभाष्यादिविरुद्धत्वात् सह वणिज्यादि-करणे अधिकारिणो दर्शयति वृहस्पतिः “कुलीनदक्षा-नलसैः प्राज्ञैर्नाणकवेदिसिः आयव्ययज्ञैः शुचिमिः शूरैःकुर्य्यात् सह क्रियाम्” इति क्रियां क्रतुकृषिशिल्प-स्तेयबाणिज्यरूपाम् नाणकविज्ञानं बाणिज्यक्रियानयामुपंयुज्यते आयव्ययज्ञानमात्रं कृषिक्रियायाम् ।शिल्पिक्रियायां सङ्गीतक्रियायां प्राज्ञत्वम् क्रतोकुलीनत्वप्राज्ञत्वशुचित्वानि स्तेये तु शूरत्वमात्रमुप-युज्यते दक्षत्वानलसत्वे सर्वत्रोपयुज्येते अतएवाद-क्षादीन्निषंधयति एव “असक्तालसरोगार्त्तमन्दभाग्यानिराश्रयाः बाणिज्याद्याः सहैतैस्तु कर्त्तव्या बुधैःक्रियाः” इति निराश्रयाः मूलधनरहिताः ये तुसम्भूय बाणिज्यादिक्रियां कुर्वन्ति ते द्रव्यानुरोधेनलाभादिभाजो भवन्तीत्याह नारदः “समोऽतिरिक्तोहीनो वा तत्रांशा यस्य यादृशः क्षयव्ययो तथावृद्धिस्तत्र तस्य तषाविधा” इति वृहस्पतिरपि“प्रयोगं कुर्वते ये तु हेमघान्यरसादिना समन्यूना-धिकैरंशैर्लाभस्तेषां तथाविधः समो न्यूनोऽधिकोवांशो येन क्षिप्तस्तथैव सः व्ययं दद्यात् कमं-कुर्य्याल्लाभं गृह्णीत चैव हि” इति यत्र पुनरस्य द्वौभागौ अस्यैक इति संवित् कृता तत्र तदनुरोधेन व्यय-लाभौ प्रकल्प्यावित्याह याज्ञवल्क्यः “समवायेन बणिजांलाभार्थं कर्म कुर्वताम् लाभालाभौ यथाद्रव्यं यथावा संविदा कृतो” इति सम्भूयकारिणां कर्त्तव्यमाहव्यासः “समक्षमसमक्षं वाऽवञ्चयन्तः परस्परम् नाना-पण्यानुसारास्त्रे प्रकुर्युः क्रयविक्रयौ अगोपयन्तो भा-ण्डानि दद्युः शुल्कञ्च तेऽध्वनि अन्यथा द्विगुणंदाप्याः शुल्कस्थानाद्बहिःस्थिताः” इति नारदोऽपि“भाण्डपिण्डव्ययोद्धारसारासारत्ववीक्षणम् कुर्युस्ते-ऽव्यभिचारेण समये स्वे व्यवस्थिताः” इति अथ वासर्वानुज्ञया सर्वेषां कार्य्यमेक एव कुर्य्यात् अतएववृहस्पतिः “बहूनां सम्मतो यस्तु दद्यादेको धनन्नरः ।करणं कारयेद्वापि सर्वेणैव कृतं भवेत्” इति करणंकेण्यादिकम् सम्भूयकारिणाम्मिथोविवादे निर्णय-प्रकारनाह एव “परीक्षकाः साक्षिणश्च एवोक्ताःपरस्परम् सन्दिग्धेऽर्थे वञ्चनाया चेद् विद्वेषसं-युतः” इति यदा तु विद्वेषसंयुक्तास्तदाप्याह एव“यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये शपथैःसोऽपि शोध्यः स्यात् सर्ववादेष्वयं विधिः” इति सर्व-वादेऽपि वञ्चनरहितवादेऽपि वञ्चकत्वे सिद्धे सति किंकार्य्यमित्यपेक्षिते आह याज्ञवल्क्यः “जिह्मं त्यजेयु-र्निर्लाभम्” इति जिह्मं वञ्चकन्निर्लाभं कृत्वा त्यजेयु-र्वहिः कुर्युरितरे सम्भूयकारिण इत्यर्थः सम्भूय-कारिष्वसमर्थं प्रत्याह एव “अशक्तोऽन्येन कारयेत्”इति स्वांशानुरूपं कर्मेति शेषः दैप्रराजकृतद्रव्यहा-निविषये सर्वान् प्रत्याह वृहस्पतिः “द्रव्यहानिर्यदातत्र दैवराजकृता भवेत् सर्वेषामेव सा प्रोक्ता कल्प-नीया यथांशतः” इति सम्भूयकारिभिः सर्वैरितिशेषः क्षयहानिरिति पाठे क्षयायैव हानिः क्षयहा-निरुपचय्यार्थव्यतिरिक्ता हानिरित्यर्थः प्रातिस्विकदो-षेण द्रव्यनाशे एवाह “अनिर्दिष्टो वार्य्यमाणः प्रमा-दाद्यस्तु नाशयेत् तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्”इति अनिर्दिष्टः समवाय्यननुज्ञातः याज्ञवल्क्यो-ऽपि “प्रतिषिद्धमनादिष्टं प्रमाद्राद्यच्च नाशितम् सतद् दद्यात्” पालने त्वाह एव “विप्लवाच्चरक्षिताद्दशमांशभाक्” इति वृहस्पतिरपि “दैवराज-भयाद् यस्तु स्वशक्त्या परिपालयेत् तस्यांशं दशमंदत्त्वा गृह्णीयुस्तेऽशतोऽपरम्” इति तस्य तस्मौ दशम-मंशन्ते समवायिद्रव्यमिति शेषः प्रतिपालयेत् समाहरेत्स्वशक्त्या प्रत्याहरेदित्यर्थः नारदोऽपि “दैवतस्कररा-जाग्निव्यसने समुपस्थिते यस्तत् स्वशक्त्या रक्षेत त-स्यांशो दशमः स्मृत” इति यस्तु समवायिद्रव्यं सम-वायिभिः सह प्रतियाचनादिना साधयति तस्य लाभ-हानिरित्याह वृहस्पतिः “समवेतैस्तु यद्दत्तं प्रार्थनीयंतथैव तत् याचते यः कश्चिल्लाभात् परि-हीयते” इति “योचनग्रहणं येन यत्कर्म स्वांशानु-रूपं कर्त्तव्यं तस्याप्युपलक्षणार्थं तेन तत्कर्माकरणेऽपिलाभहानिरित्यस्वादेव वचनात् प्रतिपत्तव्यमिति” स्मृति-चन्द्रिकायाम् सम्भूयकारिणामृत्विजां कर्त्तव्यमाहमनुः “ऋत्विजः समवेतास्तु यत्र सत्रे निमन्त्रिताः ।कुर्युर्यथार्हं तत्कर्म गृह्णीयुर्दक्षिणां तथा” इति अत्रसत्रशब्दो थज्ञमात्रविवक्षया प्रयुक्तो पुनर्बहुयजमानकसत्राख्ययज्ञविशेषविवक्षया तत्र यजमानानामेवा-ध्वर्यवादिकर्मकारित्वे दक्षिणार्हाणामृत्विजामभावात् ।तथा कर्मानुसारेण दक्षिणां गृह्णीयुरित्यर्थः तथा चस एव “सम्भूय स्वानि कर्माणि कुर्बद्भिरिह मानवैः ।अनेन कर्मयागेन कर्त्तव्यांशप्रकल्पना” इति स्वानिकर्माणि याजमानव्यतिरिक्तानीति शेषः इयं चांश-कल्पना द्वादशशतं गावो दक्षिणेत्येवं क्रतुसम्बन्धित्वेनविधीयमानायां दक्षिणायामेव ऋत्विग्विशेषोल्लेखनेनविहितायास्तद्विधायकश्रुतिविरोधापत्तेः अतएवाहतुर्मनुवृहस्पती “रथं हरेद् तथःध्वर्युर्व्रह्माधाने वा-जिनम् होता निविद्धरं चाश्वमुद्गाता चाप्यनः क्रये”इति निविद्वरं निविच्छंसनलब्धं वरम् उद्गातृशब्देनो-द्गातृगणमध्यस्थः सुब्रह्मण्यो गृह्यत इति मदनरत्ने ।अनः शकटम् क्रये सोमक्रये दक्षिणांशकल्पनायाःप्रकारमाहतुः मनुवृहस्पती “सर्वेषामर्द्धिनो मुख्यास्तदर्द्धे-नार्द्धिनोऽपरे तृतीयिमस्तृतीयांशाश्चतुर्थांशाश्च पादिनः”इति सर्वेषां षोडशानामृत्विजां मध्ये ये मुख्या गण-स्याग्राः होतृ ब्रह्माध्यर्यूद्गातारस्तेऽर्द्धिनः उक्तदक्षि-णायाः किञ्चित् न्यूनमर्द्धं ४८ गृह्णीयुः समग्रार्द्धग्रहणेवक्ष्यमाणविभासकल्पनाविरोधः स्यात् अपरे द्वितीयामैत्रावरुणप्रतिप्रस्थातृब्राह्मणाश्छंसिप्रस्तोतारस्तदर्द्धेन २४मुख्यभागार्द्धेनार्द्धिनोऽद्धंग्राहिणः, तृतीयिनोऽच्छावा-काग्नीध्रोन्नेतृप्रतिहर्त्तारो मुख्यभागस्य तृतीयांश १६ भाजः ।पादिनोऽन्त्याः ग्रावस्तोतृपोतृनेष्टृसुब्रह्मण्याख्या मुख्य-भागस्य चतुर्थांश १२ ग्राहिण इत्यर्थः मुख्यानां चतुर्णांमिथोविभागश्च समः एवं द्वितीयादीनामपि एवविभागः तथा गोशतं दक्षिणेति पक्षमाश्रित्य का-त्यायनसूत्रम् “द्वादश द्वादश मुख्येभ्यः षट्षट् द्वितीये-भ्यश्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः” इति ।संगृहीतमेत्रद्बौधायनकारिकायामपि “पञ्चविंशतिधाकृत्वा वर्गीया दक्षिणा क्रमात् द्वादशैवाथ षट्कं चचत्रास्तिस्र एव चेति” द्वादशाधिकनोशतरूपायादक्षिणायाः प्रथमञ्चत्वारो भागाः कर्त्तव्याः तत्रैकोभागो होतृवर्गस्यापरो भागो ब्रह्मवर्गस्यापरोऽध्वर्युवर्ग-स्यापर उद्गातृवर्गस्य पुनरेकैकस्य भागस्य पञ्चविंश-तिर्भागाः कर्त्तव्याः तेष्वाद्यानां होत्रादीनां द्वादशभागाः, द्वितीयानां षट्, तृतीयानां चत्वारश्चतुर्थानांत्रय इत्यर्थः पशुबन्धादौ तु विषमविभागानभिधा-नात् “समं स्यादश्रुतत्वादिति” न्यायेन समत्वेनैवविभाग इति मन्तव्यम् स्वकीयकर्मकलापांशकर्तृषुकृतानुसारेण भागो देय इत्याह मनुः “ऋत्विग्यदिवृतो यज्ञे स्वकर्म परिहापयेत् तस्य कर्मानुरूपेणदेयोऽंशः सह कर्तृभिः” इति सहकर्त्तृभिः सम्भूय-कारिभिरित्यर्थः यद्वा कर्तृभिः सह देयः दक्षिणा-काले देयो यजमाननेनेत्यर्थः अथ वा कर्म परिंत्यक्तंसह कर्तृभिरित्यर्थः यदा तु ऋत्विक् कर्मैकदेशं दक्षिणा-दानानन्तरं त्यजति तदाऽवशिष्टं तद्गणवर्त्तिनां मध्येसन्निहितेनान्येन कारयेदित्याह एव “दक्षिणासुच दत्तासु स्वकर्म परिहापयेत् कृत्स्ममेव लभेतांश-मन्येनैव कारयन्” इति कर्ममध्ये ऋत्विङ्मरणेकर्त्तव्यमाह नारदः “ऋत्विजां व्यसनेऽप्येवमन्येनकर्म निस्तरेत् लभेत दक्षिणादानं तस्मात् सम्प्र-कल्पितम्” इति अन्येन स्वस्वगणमध्यवर्त्तिनां मध्येप्रत्यासन्नेन, येन केनचिदन्येन कार्यमाणे त्वध्वर्य्यादिसमाख्याबाधापत्तेरिति ध्येयम् यत्तु शङ्खलिखितयो-र्वचनम् “अथ चेदनुप्राप्ते सवने ऋत्विक् म्रियते तस्यसगोत्रोऽथ शिष्यो वा तत्कार्य्यमनुपूरयेत्” अथ चेदबा-न्धवस्ततोऽन्यमृत्विजं वृणुयात्” इति यच्च वृह-स्पतिवचनम् “एवं क्रियाप्रवृत्तानां यदा कश्चिद्विप-द्यते तद्वन्धुना क्रिया कार्य्या सर्विर्वा सहकासिभिः”इति तदेकान्तगणरहितर्त्विक्कर्तृकदर्शपौर्णमासादि-यागविषयमित्यभिहितं स्मृतिचन्द्रिकायाम् जीवत्येवतु ऋत्विजि यजमानेन ऋत्विगन्तरकरणे कस्य दक्षि-णेति वीक्षायामाह शङ्खः “अथ ऋत्विजि वृते पश्चा-दन्यं वृणुयात्पूर्वाहूतस्यैव दक्षिणा पश्चादाहूतः किञ्चि-ल्लभते” इति यदा त्वकारणमृत्विग् याज्य त्यजतियाज्यो वा ऋत्विजं, तदा तयोर्दण्डमाह मनुः ऋत्विजंयस्त्यजेद् याज्यो याज्यमृत्विक् त्यजेद् यदि शक्तंकर्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम्” इति नारदोऽपि“ऋत्विक् त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वयंकृतः यदृच्छयाच यः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम् ऋत्विग्याज्य-मदुष्टं यस्त्यजेदनपकारिणम् अदुष्टञ्चर्त्विजं याज्योविनेयौ तावुभावपीति” ये कृषिसाधने स्वसमानास्तैःसह कृषिःकार्य्येत्याह वृहस्पतिः “वाह्यकर्षकवीजाद्यैःक्षेत्रोपकरणेन ये समानास्तु तैः सार्द्धं कृषिःकार्य्या विजानता” इति वाह्याः लाङ्गलादिवाहकाःवलीवर्दाः कर्षकाः कृष्यर्थं स्वीकृताः पुरुषाः आ-दिशब्देन कृषिसाधनानामन्येषां ग्रहणम् सम्भूय-कारिणां कृषकाणां कर्त्तव्यमाह वृहस्पातः “पर्वतेनगराभ्यासे तथा राजपथस्य ऊषरं मूषकव्याप्तंक्षेत्रं यत्नेन वर्जयेत्” इति पर्वते पर्वतसमीपे कल्प-तरुकृता तु विवीत इति पठित्वा विवीतशब्देन यव-माद्यर्थं रक्षितः प्रदेश इति व्याख्यातम् नगराभ्यासेनगरसमीपे राजपथस्य समीप इति शेषः एतदुक्तंभवति पवताद्यासन्नमनासन्नमपि ऊषरं मूषकव्याप्नञ्चक्षेत्रं वर्जयेदिति वाह्येष्वपि वर्जनीयानाह एव“कृशातिवृद्ध क्षुद्रञ्च रोगिणं प्रपलायिनम् काणंखञ्जञ्च नादद्याद्वाह्यं प्राज्ञः कृषीवलः” इति काणःएकाक्षः खञ्जः भग्नचरणः क्वचिदत्रैकस्यैव हानिमाह एव “वाह्यवीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते ।तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनामि” ति सम्भूय-कारिणामिति शेषः वाह्यवीजग्रहणं कृषिसाधनाना-मुपलक्षणार्थम् सम्भूयकारिणा शिल्पिनां स्वरूपंदर्शयंस्तेषां लाभविभागेऽंशपरिकल्पनाप्रकारमाह एव“हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् संस्कर्त्तातत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः हेमकारादयोयत्र शिल्पं सम्भूय कुर्वते कर्मानुरूपं निर्वेशं लभेरं-स्ते यथांशतः” इति कुप्यं हेमरूप्यव्यतिरिक्तत्रपुसी-सादिकम् हेमरूप्ये इति प्रस्तुत्य ताभ्यां यदन्यत्कुप्य-मित्यमरसिंहेनोक्तत्वात् निर्वेशो भृतिः कात्या-यनोऽपि “शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः ।एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम्” इति ह-र्म्यादिनिर्मातॄणां मध्ये मुख्यस्य भागद्वयमाह वृहस्पतिः“हर्म्यं देवगृहं वापि वाटिकोपस्कराणि सम्भूयकुर्वतां तेषां प्रमुख्यो द्व्यंशसर्हति” इति नर्त्तकेष्वपिमुख्यस्यांशद्वयभागित्वमतिदिशन् विशेषान्तरमाह एव“नर्त्तकानामेष एव धर्मः सद्भिरुदाहृतः कालज्ञो लभतेऽध्यर्द्धं गायनास्तु समांशिनः” इति अध्यर्द्धम् अर्द्धा-धिकमेकमंशम् सम्भूयकारिणाञ्चौराणां लाभभागेऽंश-परिकल्पनाप्रकारमाह कात्यायनः “परराष्ट्राद्धनं यत्स्याच्चोरैः स्वाम्याज्ञया हृतम् राज्ञे दशांशानुद्धृत्यविभजेरन् यथाविधि चौराणां मुख्यभूतस्तु चतुरो-ऽंशांस्ततो हरेत् शूरोऽंशांस्त्रीन् समर्थो द्वौ शेषा-स्त्वेकैकमेव च” इति एतद्धनं दुर्बलवैरिदेशादाहृतविष-यम् प्रवलवैरिदेशादाहृते त्वाह वृहस्पतिः “स्वा-म्याज्ञया तु यच्चौरैः परदेशात् समाहृतम् राज्ञेदत्त्वा तु षड्भागान् भजेयुस्ते यथांशतः चतुरोऽंशान्भजेन्मुख्यः शूरस्त्र्यंशमवाप्नुयात् समर्थस्तु हरेत्द्व्यंशंशेषास्त्वन्ये समांशिनः” इति समर्थः शक्तः एतेषांहानिरप्येवमेवेत्याह कात्यायनः “तेषां चेत् प्रसृता-नाञ्च ग्रहणं सममाप्नुयात् तन्मोक्षणार्थं यद्दत्तं वहे-युस्ते यथांशतः” इति इयमंशपरिकल्पना ऋत्विग्-भिन्नसम्भूयकारिणां समयाभावविषया कृते तु समयेतदनुसारेणैव अतएव तेनैवोक्तम् “वणिजां कर्षका-णाञ्च चौराणां शिल्पिनान्तथा अनियम्यांशकर्तृणांसर्वेषामेष निर्णयः” इति अनियम्य लाभहान्योःसमयेन प्रतिपुरुषमशमकृत्वेत्यर्थः”