| YouTube Channel

सम्भावितः (sambhAvitaH)

 
शब्दकल्पद्रुमः
Sanskrit
सम्भावितः, त्रि, (सं + भू + णिच् + क्तः ।) सम्भा-वनाविशिष्टः सम्भवनयोग्यः बहुमतः ।यथा, भगवद्गीतायाम् ३४ ।“अकीर्त्तिं चापि भूतानि कथयिष्यन्ति तेऽव्य-याम् ।सम्भावितस्य चाकीर्त्तिर्म्मरणादतिरिच्यते
”“सम्भावितस्य बहुमतस्य ।” इति तट्टीकायांश्रीधरस्वामी