| YouTube Channel

सम्भावनं (sambhAvanaM)

 
शब्दकल्पद्रुमः
Sanskrit
सम्भावनं,
क्ली,
(सम्भावयत्यनेनेति सं + भू +णिच् + ल्युट् ।) अलङ्कारविशेषः यथा, --“सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये ।यदि शेषो भवेद्बक्ता कथिताः स्युर्गुणास्तव
”इति चन्द्रालोकः
सम्भावनं क्रियासु योग्यताध्यवसायः इतिमुग्धबोधव्याकरणम्
(सम्भावके, त्रि यथा, भागवते १७ २६ ।“पुमान् योषिदुत क्लीव आत्मसम्भावनोऽधमः ।भूतेषु निरनुक्रोशो नृपाणां तद्बधोऽवधः
”)