| YouTube Channel

सम्बन्धी (sambandhI)

 
Wordnet
Sanskrit
Synonyms:
स्वजनः, बन्धुः, बान्धवः, सम्बन्धी, ज्ञातिः, स्वज्ञातिः, स्वबन्धुः, स्वकीयः
noun
येन सह आप्तसम्बन्धः अस्ति।
"मम एकः स्वजनः दिल्ली इति नगर्यां वसति।"
शब्दकल्पद्रुमः
Sanskrit
सम्बन्धी, [न्] त्रि, (सम्बन्धोऽस्यास्तीति इनिः ।)सम्बन्धविशिष्टः तत्पर्य्यायः गुणवान् संयुक्३ इति त्रिकाण्डशेषः
(यथा, मनुः ६४ ।“नार्थसम्बन्धिनो नाप्ता सहाया वैरिणः ।न दृष्टदोषाः कर्त्तव्या व्याध्यार्त्ता दूषिताः
”पुं, मातृपक्षीयः श्वशुरादिः जामाता ।श्यालकादिः यथा, मनुः १३२ ।“विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः
”“ज्ञातयः पितृपक्षाः पितृव्यादयः सम्बन्धिनोमातृपक्षाः श्वशुरादयश्च तेषां ज्येष्ठानां यास्त्रियः ।” इति कुल्लूकभट्टः
*
तथाचमनुः १७९ ।“बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः
”“ज्ञातयः पितृपक्षाः सम्बन्धिनो जामातृश्याल-कादयः ।” इति तट्टीकायां कुल्लूकः
*
वैवाहिकः यथा, उत्तरचरिते अङ्के ।“स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयंस चानन्दः साक्षादपिच निखिलं जीवितपदम्
”मित्रम् इति मल्लिनाथः
यथा, रघुः ५८ ।“तद्भूतनाथानुग नार्हसि त्वंसम्बन्धिनो मे प्रणयं विहन्तुम्
”)