सम्बन्धः (sambandhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiसम्बन्धः
- सम् + बन्ध् + घञ्
"संयोग, मिलाप, साहचर्य"
सम्बन्धः
- सम् + बन्ध् + घञ्
"रिश्ता, रिश्तेदारी"
सम्बन्धः
- सम् + बन्ध् + घञ्
छठी विभक्ति या संबंध कारक के अर्थस्वरुप संबंध
सम्बन्धः
- सम् + बन्ध् + घञ्
वैवाहिक संपर्क
सम्बन्धः
- सम् + बन्ध् + घञ्
"मित्रता का संबंध, मैत्री"
सम्बन्धः
- सम् + बन्ध् + घञ्
"योग्यता, औचित्य"
सम्बन्धः
- सम् + बन्ध् + घञ्
"समृद्धि, सफलता"
Shabdartha Kaustubha
Kannadaसम् + बन्ध (सम्बध्नाति, सम्बन्धः, सम्बद्धः)
कन्नडार्थः - > ಚೆನ್ನಾಗಿ ಕಟ್ಟು /ಚೆನ್ನಾಗಿ ಗಂಟು ಹಾಕು
सम् + बन्ध (सम्बध्नाति, सम्बन्धः, सम्बद्धः)
कन्नडार्थः - > ಸ್ನೇಹ ಹೊಂದು /ಗೆಳೆತನ ಪಡೆ
प्रयोगाः - > "सम्बन्धमाभाषणपूर्वमाहुः वृत्तः स नौ सङ्गतयोर्वनान्ते"
उल्लेखाः - > रघु० २-५८
सम् + बन्ध (सम्बध्नाति, सम्बन्धः, सम्बद्धः)
कन्नडार्थः - > ವಿವಾಹದಿಂದ ಉಂಟಾಗುವ ನೆಂಟತನ /ಬಾಂಧವ್ಯ
प्रयोगाः - > १) "तेन योजितसम्बन्धं वित्त मामप्यवञ्चितम्" २) "एषं वः श्लाघ्यसम्बन्धी जनकानां कुलोद्वहः"
उल्लेखाः - > कुमा० ६-३०, उ० रा० ४-९
Wordnet
Sanskrit सम्बन्धः, सम्बन्धिता, बान्धवता, बन्धुभावः, आप्यम्, गोत्रित्वम्, ज्ञातिभावः
विवाहादीनां निमित्तेन मनुष्याणां परस्परेषु वर्तमानः भावः अथवा एकस्मिन् कुले जातानां मनुष्याणाम् परस्परेषु वर्तमानः भावः।
"मधुरिमया भवतः कः सम्बन्धः।"
सम्पर्कः, संबन्धः, सम्बन्धः, अन्वयः
परस्परेण सह वर्तमानः संवादादिकः योगः।
"जलप्लावनस्य कारणात् ग्रामस्य सम्पर्कः अन्यैः स्थानैः सह खण्डितः जातः।"
सम्बन्धः, सम्पर्कः, अन्वयः, सन्दर्भः, समन्वयः, व्यासङ्गः, अनुबन्धः, श्लेषः, संयोगः, अनुषङ्गः, संसर्गः, सङ्गः
द्वयोः वस्तुनोः परस्परं वर्तमानः भावः।
"परस्परैः सह उषित्वा पशुभिः सह अपि सम्बन्धः दृढः भवति।"
सम्बन्धः, आप्यम्
अमुकप्रकारकः सम्बन्धः।
"अस्मिन् कार्ये रामस्य सम्बन्धः नास्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritसम्बन्धः, (सम्बध्यते इति । सं + बन्ध +घञ् ।) ममृद्धिः । न्यायः । इत्यजपः ॥
(सख्यम् ।इति मल्लिनाथः ॥
यथा, रघुः । २ । ५८ ।“सम्बन्धमाभाषणपूर्व्वमाहु-र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ॥
”)संसर्गः । यथा । एकपदार्थे अपरपदार्थसंसर्गःसंसर्गमर्य्यादया भासते स च प्रतियोग्यनुयोग्या-धाराधेयविषयविषयिभावादिः । इति प्रथमव्युत्-पत्तिवादीयगादाधरी ॥
सम्पर्कः । स च त्रिविधः ।विद्याजः १ योनिजः २ प्रीतिजः ३ । तद्विवरणंयथा, --“सम्बन्धो येषु येषां यः सर्व्वजातिषु सर्व्वतः ।तं त्वां ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ॥
पिता तातस्तु जनको जन्मदातरि वर्त्तते ।अम्बा माता च लननी गर्भधात्र्यां प्रसूरिति ॥
पितामहः पितृपिता तत्पिता प्रपितामहः ।अत ऊर्द्ध्वं ज्ञातयश्च सगोत्राः परिकीर्त्तिताः ॥
मातामहः पिता मातुः प्रमातामह एव च ।मातामहस्य जनकस्तत्पिता वृद्धपूर्व्वकः ॥
पितामही पितुर्म्माता तत्श्वश्रूः प्रपितामही ।मातामही मातृमाता मातृतुल्या च पूजिता ॥
प्रमातामहीति विख्याता प्रमातामहकामिनी ॥
वृद्धप्रमातामही ज्ञेया तत्पितुः कामिनी तथा ।पितृभ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ।पितुः स्वसा पितुर्भग्नी मातुर्भग्नी च मासुरी ॥
सूनुश्च तनयः पुत्त्रो दायादश्चात्मजस्तथा ।धनभाक् वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते ॥
जन्यायां दुहिता कन्या चात्मजा परिकीर्त्तिता ।पूत्त्रपत्नी बधूर्ज्ञेया जामाता दुहितुः पतिः ॥
पतिः प्रियश्च भर्त्ता च स्वामी कान्ते च वर्त्तते ।पत्नीभ्राता श्यालकश्च पत्नीभग्नी च श्यालिका ॥
देवरः स्वामिनो भ्राता ननन्दा स्वामिनः स्वसा ।श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥
भार्य्या जाया प्रिया कान्ता स्त्री च पत्न्याञ्चवर्त्तते ।पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ॥
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ।भग्नीपुत्त्रो भागिनेयो भ्रातृपुत्त्रश्च भ्रातृजः ॥
श्यालस्तु भगिनीकान्तो भगिनीपतिरेव च ।श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ।श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥
अन्नदाता भयत्राता पत्नीतातस्तथैव च ।विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी ।माता च तत्सपत्नी च कन्या पुत्त्रप्रिया तथा ॥
मातुर्म्माता पितुर्म्माता श्वश्रूः पित्रोः स्वसासुता ।पितृव्याणी मातुलानी मातरश्च चतुर्द्दश ॥
पौत्त्रस्तु पुत्त्रपुत्त्रे च प्रपौत्त्रस्तत्सुतोऽपि च ।तत्पुत्त्राद्याश्च ये वंशा कुलजाताश्च कीर्त्तिताः ॥
कन्यापुत्त्रश्च दौहित्रस्तत्पुत्त्राद्याश्च बान्धवाः ।भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥
भ्रातृपुत्त्राश्च पुत्त्राद्यास्ते पुनर्ज्ञातयः स्मृताः ॥
गुरुपुत्त्रस्तथा भ्राता पोष्यः परमबान्धवः ।गुरुकन्या च भगिनी पोष्या मातृसमा मुने ॥
पुत्त्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ।पुत्त्रस्य श्वशुरभ्राता बन्धुर्वैवाहिकः स्मृतः ॥
कन्यायाश्च श्वशुरे तत्सम्बन्धः परिकीर्त्तितः ।गुरुश्च कन्यकायाश्च पुरुषा बान्धवाः स्मृताः ॥
”पुरुषा बान्धवाः स्मृता इत्यत्र भ्राता सुस्निग्ध-बान्धवा इत्यपि क्वचित् पाठः ।“गुरुः श्वशुरभ्रातॄणां गुरुतुल्यश्च पूजितः ।बन्धुता येन सार्द्धञ्च तन्मित्रं परिकीर्त्तितम् ।मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ।बान्धवो दुःखदो दैवात् निःसम्बन्धी सुखप्रदः ॥
सम्बन्धस्त्रिविधः पुंसां विप्रेन्द्र ! जगतीतले ।विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्त्तितः ॥
मित्रन्तु प्रीतिजं ज्ञेयं स सम्बन्धः सुदुर्ल्लभः ।मित्रमाता मित्रभार्य्या मातृतुल्या न संशयः ॥
मित्रभ्राता मित्रपिता भ्रातृपितृसमो नृणाम् ।चतुर्थं नाम सम्बन्धमित्याह कमलोद्भवः ॥
जारश्चोपरतिर्बन्धुर्द्दुष्टासंभोगकर्त्तरि ।उपपत्न्यां नवङ्गी च प्रेयसी चित्तहारिणी ॥
स्वामितुल्यश्च जारश्च नवङ्गी गृहिणीसमा ।सम्बन्धो देशभेदे च सर्व्वदेशे विगर्हितः ॥
अवैदिको निन्दितस्तु विश्वामित्रेण निर्म्मितः ।दुस्त्याज्यस्तु महद्भिश्च देशभेदे च सञ्चरेत् ॥
अकीर्त्तिजनकः पुंसां योषिताश्च विशेषतः ।तेजीयसां न दोषाय विद्यमानो युगे युगे ॥
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे सम्बन्धजातिनिर्णयोनाम १० अध्यायः ॥
* ॥
कूर्म्मपुराणे ।“एकोदकानां मरणे सूतकं चैतदेव हि ।पक्षिणीं योनिसम्बन्धे बान्धवेषु तथैव च ॥
”योनिसम्बन्धे मातृस्वसीयभागीनेयेषु ॥
अपि च ।“असम्बन्धिनो द्बिजान् दहित्वा वहित्वा सद्यः-शौचं सम्बन्धे तु त्रिरात्रम् । इति शुद्धितत्त्वम् ॥
शब्दव्याकरणयोर्व्युत्पाद्यव्यत्पादकभावः सम्बन्धः ।ग्रन्थादौ तस्य वक्तव्यता यथा, --“सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते ।ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥
”सप्रयोजन इत्यत्र क्वचित् पुस्तके साभिधेयकइति पाठः । इति मुग्धबोधटीकायां दुर्गादासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
