| YouTube Channel

सम्प्रदायः (sampradAyaH)

 
Apte Hindi
Hindi
सम्प्रदायः
पुं*
- सम् + प्र + दा + घञ्
"परंपरा, परंपरा प्राप्त सिद्धान्त या ज्ञान, परम्परा प्राप्त शिक्षा"
सम्प्रदायः
पुं*
- सम् + प्र + दा + घञ्
"धर्म - शिक्षा की विशेष पद्धति, धार्मिक सिद्धान्त जिसके द्वारा किसी देवता विशेष की पूजा बतलाई जाय"
सम्प्रदायः
पुं*
- सम् + प्र + दा + घञ्
"प्रचलित प्रथा, प्रचलन"
Wordnet
Sanskrit
Synonyms:
सम्प्रदायः, शाखा, पन्थः, मार्गः, मतम्
noun
कस्मिन् अपि विषये सिद्धान्ते वा मतान्तरस्य पक्षान्तरस्य वा अनुयायिनः।
"जैनानां सम्प्रदायो द्विविधः श्वेताम्बरो दिगम्बरश्च।"
Synonyms:
सम्प्रदायः, शाखा, पन्थः, मार्गः, मतम्
noun
धर्मे मतान्तरं पक्षान्तरम् वा।
"वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।"
Tamil
Tamil
ஸம்ப்ரதா3ய: : பாரம்பர்யம், வழக்கம்.
शब्दकल्पद्रुमः
Sanskrit
सम्प्रदायः,
पुं,
(सं + प्र + दा + घञ् “आतोयुक् चिण्कृतोः ।” ३३ इति युक् ।)गुरुपरम्परागतसदुपदेशः शिष्टपरम्परा-वतीर्णोपदेशः इति भरतः
तत्पर्य्यायः ।आम्नायः इत्यमरः
(यथा, माघे ।१४ ७९ ।“सम्प्रदायविगमादुपेयुषी-रेष नाशमविनाशिविग्रहः ।स्मर्त्तुमप्रतिहतस्मृतिः श्रुती-र्द्दत्त इत्यभवदत्रिगोत्रजः
”)गुरुपरम्परागतसदुपदिष्टव्यक्तिसमूहः यथा, “संप्रदायानुरोधेन पौर्व्वापर्य्यानुसारतः ।श्रीभागवतभावार्थदीपिकेयं प्रतन्यते
”इति श्रीधरस्वामी
तद्भेदा यथा, श्रीपद्मपुराणे ।“श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव ।श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा
अक्षोभो जयतीर्थश्च ज्ञानसिन्धुर्महानिधिः ।विद्यानिधिश्च राजेन्द्रो जयधर्म्ममुनिस्तथा
पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा ।श्रीमाल्लक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरिस्तथा
संप्रदायविहीना ये मन्त्रास्ते निष्फला मताः ।अतः कलौ भविष्यन्ति चत्वारः संप्रदायिनः ।श्रीमाध्विरुद्रसनका वैष्णवाः क्षितिपावनाः
”तन्त्रीक्तवैष्णवसंप्रदाया यथा, --श्रीशिव उवाच ।“वैखानः सामवेदादौ श्रीराधावल्लभी तथा ।गोकुलेशो महेशानि ! तथा वृन्दावनी भवेत्
पाञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः ।रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि
ततो भागवतो देवि दश भेदाः प्रकीर्त्तिताः ।शिखी मुण्डी जटी चैव द्बित्रिदण्डी क्रमेण
एकदण्डी महेशानि वीरशवस्तथव ।सप्त पाशुपताः प्रोक्ता दशधा वष्णवा मताः
एतेषां वासनं देवि ! शृणु यत्नेन शाम्भवि ।वेवेष्टि सव्वं संव्याप्य यस्तिष्ठति वैष्णवः
वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ।श्रीराधावल्लभं देवि शृणु यत्नेन शाम्भवि
वैष्णवाचारनिरतो विष्णुतन्त्रैकपारगः ।अनन्यचेताः शान्तात्मा विष्णुचिन्तापरायणः
श्रीराधावल्लभी देवि गोकुलेशं शृणु प्रिये ।नानाभूषणसम्पन्नो नानासुगन्धिभूषितः
गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक् ।शरीरमर्थं प्राणांश्च तन्निवेदनकारकम्
अन्तःशक्तिपरो देवि वहिर्वैष्णवरूपधृक् ।गन्धर्व्वाचारनिरतो लतावेष्टनतत्परः
संप्रदायो गोकुलेशः सर्व्वसिद्धिकरो भुवि ।वृन्दावनाख्यं देवेशि शृणु यत्नेन सांप्रतम्
विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः ।कामिनीसङ्गचपलो वनक्रीडाविनोदधृक्
सौगन्धभूषिततनुः स्त्रीध्यानैकपरायणः ।विष्णुसारूष्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे
पाञ्चरात्रो महेणानि तथैव वीरवैष्णवः ।पूर्व्वमेव महेशानि कीर्त्तितः परमेश्वरि
राशक्तिरिति विख्याता शिवः परिकीर्त्तितः ।तदानन्दी शान्तचित्ती प्रसन्नात्मा विचारधृक्
सर्व्वत्र समरूपश्च रामानन्दी प्रकीर्त्तितः ।हविष्याशं महेशानि यथावदवधारय ।पापसंहरणाशक्तो विष्णुभक्तो जितेन्द्रियः
यमादिनियमैर्युक्तो भक्ताचारपरायणः ।स्वोपयोगफलाग्राही परकार्य्यपरायणः
हविष्याशी महेशानि शिवभक्तिस्वरूपधृक् ।निम्बार्काख्यं संप्रदायं शृणु यत्नेन सांप्रतम्
नित्यार्च्चनक्रमासक्तः स्वतन्त्रैकपरायणः ।बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः
आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः ।स्वतन्त्रः स्मार्त्तविद्बेषी निम्बार्को भगवान् हरिः
अथ भागवतं देवि कथ्यते शृणु सांप्रतम्
विष्णुभक्तैकनिपुणो विजातात्मा प्रसन्नधीः ।स्मार्त्तगर्व्वान्वितो देवि तदन्याचारतत्परः
आर्य्यपक्षान्वितो देवि तथा स्वरूपवेशधृक् ।शैवद्बेषी तस्य सङ्गात् पुनः स्नानपरायणः ।केवलं विष्णुतत्त्वज्ञः प्रोक्तो भागवतः शिवे
”इति शक्तिसङ्गमतन्त्रे खण्डे पटलः