सम्प्रदाय (sampradAya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishसम्प्रदाय - sampradAya - - sect
विभाग - vibhAga - - section
दुष्टखण्ड - duSTakhaNDa - - badsector [ computer ]
कृष्णखण्ड - kRSNakhaNDa -
सहव्रता - sahavratA - - sect
प्रस्थान - prasthAna - - sect
प्रकाश - prakAza - - section
प्रक्रिया - prakriyA - - section
अधिकार - adhikAra - - section
वर्ग - varga - - section
अनुवाक - anuvAka - - section
गोचर - gocara - - section
आलोक - Aloka - - section
उद्ग्रन्थ - udgrantha - - section
उद्घात - udghAta - - section
उद्यत - udyata - - section
उल्लास - ullAsa - - section
ग्रन्थ - grantha - - section
छेद - cheda - - section
मार्ग - mArga - - section
सम्प्रदाय sampradAya tradition
सम्प्रदाय sampradAya sect
सम्प्रदाय sampradAya cult
सम्प्रदाय sampradAya presenter
सम्प्रदाय sampradAya established doctrine transmitted from one teacher to another
सम्प्रदाय sampradAya bestower
सम्प्रदाय sampradAya wont
सम्प्रदाय sampradAya any peculiar or sectarian system of religious teaching
सम्प्रदाय sampradAya traditional belief or usage
Wilson
EnglishApte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
English2. सम्-प्रदाय, अस्, m. tradition, established
doctrine transmitted from one teacher to another,
traditional belief or usage
any peculiar or schisma-
tical system of religious teaching, schism
custom,
usage.
—सम्प्रदाय-प्रद्योतक, अस्, m. a re-
vealer of the tradition of the Veda.
—सम्प्रदाय-
प्राप्त, अस्, आ, अम्, obtained through tradition.
—सम्प्रदाय-विद्, त्, m. one versed in traditional
doctrines or usages.
Benfey
EnglishApte Hindi
Hindiसम्प्रदायः
- सम् + प्र + दा + घञ्
"परंपरा, परंपरा प्राप्त सिद्धान्त या ज्ञान, परम्परा प्राप्त शिक्षा"
सम्प्रदायः
- सम् + प्र + दा + घञ्
"धर्म - शिक्षा की विशेष पद्धति, धार्मिक सिद्धान्त जिसके द्वारा किसी देवता विशेष की पूजा बतलाई जाय"
सम्प्रदायः
- सम् + प्र + दा + घञ्
"प्रचलित प्रथा, प्रचलन"
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritस्यात्पारम्पर्यमाम्नायः संप्रदायो गुरुक्रमः ॥ ८० ॥
पारम्पर्य (पुं), आम्नाय (पुं), सम्प्रदाय (पुं), गुरुक्रम (पुं)
इतिह स्यात्संप्रदाये हेतौ यत्तद्यतस्ततः ।
इतिह (अ), सम्प्रदाय (पुं), हेतु (पुं), यत् (अ), तत् (अ), यतस् (अ), ततस् (अ)
अभिधानरत्नमाला
Sanskritआम्नाय
आम्नाय, सम्प्रदाय, पारम्पर्य, गुरुक्रम
आम्नायः सम्प्रदायः स्यात्पारम्पर्यं गुरुक्रमः ।
verse 2.1.1.402
page 0047
इतिह
इतिह, सम्प्रदाय
इतिह स्यात्सम्प्रदाये प्रेत्यामुत्र भवान्तरे ।
verse 5.1.1.877
page 0100
शब्दकल्पद्रुमः
Sanskritसम्प्रदायः, (सं + प्र + दा + घञ् । “आतोयुक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।)गुरुपरम्परागतसदुपदेशः । शिष्टपरम्परा-वतीर्णोपदेशः । इति भरतः ॥
तत्पर्य्यायः ।आम्नायः २ । इत्यमरः । ३ । २ । ७ ॥
(यथा, माघे ।१४ । ७९ ।“सम्प्रदायविगमादुपेयुषी-रेष नाशमविनाशिविग्रहः ।स्मर्त्तुमप्रतिहतस्मृतिः श्रुती-र्द्दत्त इत्यभवदत्रिगोत्रजः ॥
”)गुरुपरम्परागतसदुपदिष्टव्यक्तिसमूहः । यथा, “संप्रदायानुरोधेन पौर्व्वापर्य्यानुसारतः ।श्रीभागवतभावार्थदीपिकेयं प्रतन्यते ॥
”इति श्रीधरस्वामी ॥
तद्भेदा यथा, श्रीपद्मपुराणे ।“श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च ।श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा ॥
अक्षोभो जयतीर्थश्च ज्ञानसिन्धुर्महानिधिः ।विद्यानिधिश्च राजेन्द्रो जयधर्म्ममुनिस्तथा ॥
पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा ।श्रीमाल्लक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरिस्तथा ॥
संप्रदायविहीना ये मन्त्रास्ते निष्फला मताः ।अतः कलौ भविष्यन्ति चत्वारः संप्रदायिनः ।श्रीमाध्विरुद्रसनका वैष्णवाः क्षितिपावनाः ॥
”तन्त्रीक्तवैष्णवसंप्रदाया यथा, --श्रीशिव उवाच ।“वैखानः सामवेदादौ श्रीराधावल्लभी तथा ।गोकुलेशो महेशानि ! तथा वृन्दावनी भवेत् ॥
पाञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः ।रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि ॥
ततो भागवतो देवि दश भेदाः प्रकीर्त्तिताः ।शिखी मुण्डी जटी चैव द्बित्रिदण्डी क्रमेण च ॥
एकदण्डी महेशानि वीरशवस्तथव च ।सप्त पाशुपताः प्रोक्ता दशधा वष्णवा मताः ॥
एतेषां वासनं देवि ! शृणु यत्नेन शाम्भवि ।वेवेष्टि सव्वं संव्याप्य यस्तिष्ठति स वैष्णवः ॥
वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ।श्रीराधावल्लभं देवि शृणु यत्नेन शाम्भवि ॥
वैष्णवाचारनिरतो विष्णुतन्त्रैकपारगः ।अनन्यचेताः शान्तात्मा विष्णुचिन्तापरायणः ॥
श्रीराधावल्लभी देवि गोकुलेशं शृणु प्रिये ।नानाभूषणसम्पन्नो नानासुगन्धिभूषितः ॥
गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक् ।शरीरमर्थं प्राणांश्च तन्निवेदनकारकम् ॥
अन्तःशक्तिपरो देवि वहिर्वैष्णवरूपधृक् ।गन्धर्व्वाचारनिरतो लतावेष्टनतत्परः ॥
संप्रदायो गोकुलेशः सर्व्वसिद्धिकरो भुवि ।वृन्दावनाख्यं देवेशि शृणु यत्नेन सांप्रतम् ॥
विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः ।कामिनीसङ्गचपलो वनक्रीडाविनोदधृक् ॥
सौगन्धभूषिततनुः स्त्रीध्यानैकपरायणः ।विष्णुसारूष्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे ॥
पाञ्चरात्रो महेणानि तथैव वीरवैष्णवः ।पूर्व्वमेव महेशानि कीर्त्तितः परमेश्वरि ॥
राशक्तिरिति विख्याता म शिवः परिकीर्त्तितः ।तदानन्दी शान्तचित्ती प्रसन्नात्मा विचारधृक् ॥
सर्व्वत्र समरूपश्च रामानन्दी प्रकीर्त्तितः ।हविष्याशं महेशानि यथावदवधारय ।पापसंहरणाशक्तो विष्णुभक्तो जितेन्द्रियः ॥
यमादिनियमैर्युक्तो भक्ताचारपरायणः ।स्वोपयोगफलाग्राही परकार्य्यपरायणः ॥
हविष्याशी महेशानि शिवभक्तिस्वरूपधृक् ।निम्बार्काख्यं संप्रदायं शृणु यत्नेन सांप्रतम् ॥
नित्यार्च्चनक्रमासक्तः स्वतन्त्रैकपरायणः ।बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः ॥
आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः ।स्वतन्त्रः स्मार्त्तविद्बेषी निम्बार्को भगवान् हरिः ॥
अथ भागवतं देवि कथ्यते शृणु सांप्रतम् ॥
विष्णुभक्तैकनिपुणो विजातात्मा प्रसन्नधीः ।स्मार्त्तगर्व्वान्वितो देवि तदन्याचारतत्परः ॥
आर्य्यपक्षान्वितो देवि तथा स्वरूपवेशधृक् ।शैवद्बेषी तस्य सङ्गात् पुनः स्नानपरायणः ।केवलं विष्णुतत्त्वज्ञः प्रोक्तो भागवतः शिवे ॥
”इति शक्तिसङ्गमतन्त्रे १ खण्डे ८ पटलः ॥
वाचस्पत्यम्
Sanskritसम्प्रदाय सम् + प्र + दा--भावे घञ् । १ गुरुपरम्परागतेसदुपदेशे अमरः । उपचारात् २ तदुपदेशयुते जने च ।ईश्वरस्यैव सर्वसम्प्रदायप्रद्योतकत्वमिति “निर्माणकाय-मधिष्ठाय सर्वसम्प्रदायप्रद्योतक इति पातञ्जलाः” कुसुमा० ।ईश्वरवादे च मणिकृताऽऽशङ्क्य तथैव व्यवस्थापितं यथा“नन्वशरीरात् कथं वेदघटादिशब्दव्यवहारसम्प्रदायःउच्यते सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयागाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा स-कलवदार्थगोचरज्ञानाद्विबक्षासहितान्मीनकलेवरकण्ठता-ल्वादिक्रियाजन्यसंयोगाद्वेदोत्पत्तिः । एवं कुलालादि-शरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात्तद्बुद्धी-च्छासहितचेष्टोत्पत्तौ सकलघटानुकूलव्यापारो घटोत्-पत्तिः । एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमत-शरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेवव्यवहारः ततस्तत्सुशीलो बालो व्युत्पद्यते सोऽयंभूतावेशन्यायः । यत्तु यथा लिप्यादिना मौनिश्लाको-ऽनुमाय पट्यते तथा सर्गान्तरात्पन्नतत्त्वज्ञानवता भोगार्थंसर्गादावुत्पन्नेन मन्वादिना सर्वज्ञेन, ईश्वराभिप्रायस्थवेदःसाक्षात्कृत्यानूद्यते ततोऽग्निनसम्प्रदायः स एव कायव्यूहंकृत्वा वाग्व्यबहारं करोतीति मतं तन्न प्रतिसर्गाद्यनन्त-सर्वज्ञकल्पनायां गौरवात् तषामेव क्षित्यादिकर्तृत्वसम्भ-वेन ईश्वराननुगमाच्च । एतेन सर्गादौ सर्गान्तरसिद्ध-योगिन एव क्षितिकर्त्तारः सन्त्विति निरस्तं सर्गादाव-नन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राह-काद्वा नाद्यस्तदभावात् नान्त्यः अनादिद्व्यणुकादिकार्य्य-प्रवाहस्य सकर्तृकत्वानुमानात् लाघवसहकृतादेकस्यैवसर्वज्ञस्य सिद्धेः” ।सम्प्रदायप्रवर्त्तकभेदाश्च पद्मपु० उक्ता यथा“श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वःपद्मनामो नृहरिर्माघवस्तथा । अक्षोभो जयतीर्थश्चज्ञानसिन्धुर्महानिधिः । विद्यानिधिश्च राजेन्द्रो जय-धर्ममुनिस्तथा । पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनि-स्तथा । श्रीमाल्लक्ष्मीपतिः चीमान् माधवेन्द्रपुरी तथा ।सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः । अतःकलौ भविष्यन्ति चत्वारः सम्प्रदायिनः । श्रीमाध्वरुद्र सनका वैष्णवाः क्षितिपावनाः” पद्मपु० । तन्त्रोक्तवैष्णवसम्प्रदाया यथा “श्रोशिव उवाच वैखानसः साम-वेदी श्रीराधावल्लभी तथा । गोकुलेशो महेशानि!तथा वृन्दावनी भवेत् । पञ्चरात्रः पञ्चमः स्यात् षष्ठःश्रीवीरवैष्णवः । रामानन्दी हविष्याशी निम्बार्कश्चमहेश्वरि! । ततो भागवतो देवि! दश भेदाः प्रकीर्त्तिताः । शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेणच । एकदण्डी महेशानि! वीरशैवस्तथैव च । सप्त पा-शुपताः प्रोक्ता दशधा वैष्णवा मताः । एतेषां वासनं देवि!शृणु यत्नेन शाम्भवि! । वेवेष्टि सर्वं संव्याप्य यस्तिष्ठतिस वैष्णवः । वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ।श्रीराधावल्लभं देवि! शृणु यत्नेन शाम्भवि! । वैष्णवा-चारनिरतो विष्णुतन्त्रैकपारगः । अनन्यचेताः शान्तात्माविष्णुचिन्तापरायणः । श्रीराधावल्लभो देवि! गोकुलेशंशृणु प्रिये! । नानाभूषणसम्पन्नो नानासुगन्धिभूषितः ।गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक् । शरीरमर्थंप्राणांश्च संनिवेदतीह यः । अन्तःशक्तिपरो देवि!वहिर्वैष्णवरूपधृक् । गन्धर्वाचारनिरतो लतावेष्टनतत्-वरः । सम्प्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि । वृन्दावनाख्यं देवेशि! शृण् यत्नेन साम्प्रतम् । विगताशःप्रसन्नात्मा विष्णुभक्तिपरायणः । कामिनीसङ्गचपलोवनक्रीडाविनोदधृक् । सौगन्धभूषिततनुः स्त्रीध्या-नैकपरायणः । विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनीशिवे! । पाञ्चरात्रो महेशानि तथैव वीरवैष्णवः ।पूर्वमेव महेशानि कीर्त्तितः परमेश्वरि! । रा शक्तिरितिविख्याता मः शिवः परिकीर्त्तितः । तदानन्दी शान्त-चित्ती प्रसन्नात्मा विचारधृक् । सर्वत्र समरूपा च रामा-नन्दी प्रकीर्त्तिता । हविष्याशी महेशानि! यथावदव-धारय । पापसंहरणासक्तो विष्णुभक्तो जितेन्द्रियः ।यमादिनियमैर्युक्तो भक्ताचारपरायणः । स्वोपयोगफलग्राही परकार्य्यपरायणः । हविष्याशी महेशानि!शिवभक्तिस्वरूपधृक् । निम्बार्काख्यं सम्प्रदायं शृणुयत्नेन साम्प्रतम् । नित्यार्चनक्रमासक्तः स्वतन्त्रैक-परायणः । बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः ।आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः । स्वतन्त्रःस्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः । अथ भागवतंदेवि! कथ्यते शृणु साम्प्रतम् । विष्णुभक्तैकनिपुणोविजितात्मा प्रसन्नधीः । स्मार्त्तगर्वान्वितो देवि! तदन्या-चारतत्परः । आर्य्यपक्षान्वितो देवि! तथा सुरूप-वेशधृक् । शैवद्वेषी तस्य सङ्गात् पुनः स्नानपरायणः ।केवलविष्णुतत्त्वज्ञः प्राक्तो भागवतः शिवे” शक्तिसङ्ग० त०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
