सम्प्रदानं (sampradAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसम्प्रदानं, (सं + प्र + दा + ल्युट् ।) सम्य-क्प्रकारेण दानम् । षट्कारकान्तर्गतकारक-विशेषः । स च दित्सासूयाक्रोधेर्षारुचिद्रोह-स्थाह्नुश्लाघस्पृहिशप्राधीक्षाप्रतिश्रुप्रत्यनुगृधार्य्य-र्थानां विषयः । तत्र चतुर्थी विभक्तिः स्यात् ।मुख्यसंप्रदानन्तु प्रकृष्टं दानं यो लभते सः ।तथा चोक्तम् ।“सम्प्रदानं तदेव स्यात् पूजानुग्रहकाम्यया ।दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥
”इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥
अपि च ।“गत्यादिभिन्ने धात्वर्थे चतुर्थ्या विग्रहस्थया ।यः स्वार्थो बोधनीयस्तत् संप्रदानत्वमीरितम् ॥
”गत्यादिभिन्ने यद्धातूपस्थाप्य यादृशार्थे विग्रहस्थ-चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा-तूपस्थाप्य तादृशक्रियायां संप्रदानत्वमुच्यते ।ब्राह्मणाय दानं धनस्य इत्यादौ ददातेः स्वत्व-जनकस्त्यागोऽर्थः तन्निविष्टे च स्वत्वे ब्राह्मणादेःप्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या बोध्यते इतितदेव तत्र संप्रदानत्वं ब्राह्मणादिप्रतियोगिकंयद्धनवृत्तिस्वत्वं तज्जनकस्त्याग इत्येवं तत्र प्रत्य-यात् धात्वर्थतावच्छेदकीभूतस्वत्वाख्यफलवत्तयाधनादेर्दानकर्म्मत्वात् । न चैवं पशुकामनयायागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपिप्रयोगापत्तिः तादृशयागस्य चैत्रीयं यत् पशु-निष्टं स्वत्वं तज्जनकत्यागत्वादिति वाच्यं स्वत्व-ध्वंसजनकक्रियापर्य्यवसन्नस्य त्यागस्यैकदेशे स्वत्व-ध्वंसेऽपि द्वितीयाद्यर्थस्यान्वयेन पशुफलकयागेपशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्वविरहादेत-द्बाक्यस्याप्रमाणत्वात् । ग्रामाय गत इत्यादौविग्रहस्थचतुर्थ्या धात्वर्थे बोध्यमपि कर्म्मत्वं नगत्यादिभिन्ने । वृक्षाय सेचक इत्यादौ गत्यादि-भिन्ने चतुर्थ्या बोधनीयोऽपि संवर्द्धयितुमित्यादितुमर्थो न विग्रहस्थयेति न तत्र प्रसङ्गः ।संप्रदानशब्दस्तु स्वाश्रयगोचरत्यागजन्यस्वत्वस्यप्रतियोगिन्येव शक्त इति स्वत्वप्रतियोगित्वं संप्र-दानमित्यादिको न प्रयोगः । न च दानस्यस्वत्वहेतुत्वे प्रमाणाभावः ।‘सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयोजयः ।प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥
’इत्यादि मन्वादिवचनैस्तस्य स्वत्वहेतुत्वाप्रति-पादनादिति वाच्यम् । ब्राह्मणाय त्यक्तायां गविगौरियं ब्राह्मणस्य न तु ममेत्यादि सार्व्वजनीन-प्रतीतेरेव तत्र प्रमाणत्वात् प्रदानं स्वाम्य-कारणमिति वचनाच्च अतएव विदेशस्थं पात्र-मुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रस्यमरणस्थले पितृदायत्वेन तद्धनं पुत्त्रादिभिर्विभज्यगृह्यते अन्यथा तैरिव उदासीनैरपि तद्धन-स्यारण्यकुशादेरिवोपादाने यथेष्टनियोगे चप्रत्यवायो न स्यात् नन्वेवं दानादेव स्वत्वसिद्धे-र्दत्तवस्तुनि स्वीकारो व्यर्थ इति चेन्न लब्ध्वाचाष्टगुणं फलमित्यादि स्मृतेः प्रतिगृहीतद्रव्य-दानस्य फलविशेषं प्रति हेतुत्वेन तादृशफल-सम्पत्त्यर्थमेव प्रतिग्रहस्योपयोगात् याजना-ध्यापनप्रतिग्रहैर्द्विजो धनमर्जयेदित्यादिश्रुत्याप्रागुक्तस्मृत्या च प्रतिग्रहस्यापि स्वत्वहेतुत्व-बोधनाच्च । स्वत्वजनकव्यापारस्यैवार्ज्जनपदार्थ-त्वात् । दासाय भक्ष्यं ददाति भृतकाय वेतनंददातीत्यादावपि स्वत्वजनकत्यागं प्रतिपादयन्ददातिर्मुख्य एव पुण्यजनकन्तु न तादृशंदानमवैधत्वात् । यत्तु स्वीकारजन्यस्य स्वत्वस्यजनकस्त्यागो दानं मनसा पात्रमुद्दिश्य धनत्या-गन्तु न दानं किन्तूत्सर्गमात्रं प्रतिग्रहजन्यस्वत्वंप्रति हेतुभूतवैधत्यागस्यैव तथात्वात् उपेक्षा तुस्वत्वध्वंसमात्रजनकस्त्यागो न तु तत्र स्वत्व-जनकस्यान्तर्भाव इति मैथिलैरुक्तं तन्न युक्तंलाघवेन स्वत्वजनकत्यागस्यैव ददात्यर्थत्वात् ।तिलानस्मै प्रतियच्छति तुरगमस्मै विक्रीणीतेइत्यादौ द्रव्यान्तरग्रहणपूर्व्वक दानमव प्रति-दानम् । मूल्यग्रहणपूर्व्वकं दानमेव विक्रय इतितत्रापि मुख्यमेव संप्रदानत्वं चतुर्थ्या बोध्यते ।तिलादिकञ्च न मृल्यं पणपुराणादेरेव शास्त्रेतथात्वोपदेशात् । अदृष्टार्थं दत्तस्यैव चस्वीकारः प्रतिग्रह इति परेण प्रतिदत्तस्यविक्रीतस्य वा तिलतुरगादेः स्वीकारो नदोषावहः । मैत्राय रोचते मोदक इत्यत्रचतुर्थ्या धात्वर्थान्वितं आधेयत्वं धातुना चभक्ष्यत्वप्रकारकेच्छोपस्थाप्यते तिङा तु प्रकाशतइत्यादाविव विषयत्वलक्षणं कर्त्तृत्वं तथा चमैत्रनिष्ठायाः भक्ष्यत्वप्रकारकेच्छाया विषयता-वान् मोदकः इत्याकारकस्तत्र बोधः । गुरवेगां धारयते इत्यत्र धृङा गृहावस्थितिः द्विती-यया तदन्वितं कर्त्तृत्वं चतुर्थ्या च तन्निविष्ट-गृहान्वितं सम्बन्धित्वमुपस्थाप्यते तेन गोकर्त्तृ-काया गुरुसम्बन्धिगृहावस्थितेरनुकूलव्यापार-वान् इत्याकारकस्तत्र बोधः । धातूत्तरणिचाव्यापारबोधनादिति कालापाः । पाणिनीयास्तुधारेरुत्तमर्णे इति सूत्रानुसारेण चैत्राय शतंधारयते इत्यादाविव गुरवे गां धारयते इत्या-दावपि ऋणग्रहणं धारणं दत्तत्वञ्च चतुर्थ्यर्थःतथा च गुरुदत्तां गां ऋणत्वेन गृह्णाति इत्या-कारस्तत्र वाक्यार्थः पश्चात् शोध्यत्वेनाङ्गीकृत्यगृहीतञ्च द्रव्यमृणमित्याहुः । पुत्त्राय राध्यतिपुत्त्रायेक्षत इत्यादौ दैवनिरूपणं धात्वर्थः तन्नि-विष्टे च दैव सुबर्थस्य सम्बन्धस्यान्वयस्तेन पुत्त्रस्यदैवं निरूपयति इत्येवं तत्र बोधः । गुरवे गांप्रतिशृणोति आशृणोति इत्यादौ देयत्वे नाभ्यु-पगमः शृणोतेरर्थस्तत्र गोर्विशिष्यत्वेन तदेक-देशे च दाने गुरोरुद्दिश्यत्वेनान्वयस्तेन गुरू-द्दश्यकदानकर्म्मत्वेन गामभ्युपगच्छतीत्येवं तत्रबोधः । होत्रे प्रतिगृणातीत्यादौ हर्षानुकूल-व्यापारलक्षणं प्रोत्साहनं गृणातेरर्थस्तदेक-देशे च हर्षे होत्रादेरन्वयः तेन होतृनिष्ठ-हर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोधः ।चैत्राय कुप्यतीत्यादौ धात्वर्थ उत्कटद्बेषस्तत्रविषयित्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते तेनचैत्रविषयकोत्कटद्बेषवान् इत्याकारकस्तत्रबोधः । पुत्त्रे कोपो न युज्यते इत्यत्र कृदन्तस्यकोपपदस्यैवार्थे पुत्त्र इत्यस्यान्वयो न तु धात्वर्थे ।पटाय यतते इत्यादावपि धात्वर्थकृतौ सुपापटस्य विषयित्वं बोध्यते तत्र उद्देश्यत्वमेव चतु-र्थ्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्म्माण-दशायां पटाय यतते इत्यादिकः प्रयोग इत्यपिवदन्ति । मित्राय द्रुह्यति इत्यत्र द्बिष्टाचरणंद्रोहस्तेन मित्रस्य द्विष्टमाचरतीत्यर्थः । शिष्यायईर्ष्यति इत्यत्र अनिष्टानुपेक्षणमीर्षा तथा चशिष्यानिष्टं नोपेक्षत इत्यर्थः । पुत्त्रायासूयतिइत्यत्रासूया गुणद्वेषस्तेन पुत्त्रस्य गुणं द्बेष्टिइत्याकारकस्तत्र बोधः । मित्रं द्रुह्यति शिष्य-मीर्ष्यति पुत्त्रमसूयतीत्यपि प्रयोगात् द्रुहादि-कर्म्मणः संप्रदानत्वं वैकल्पिकमित्युन्नीयते ।कोपपूर्व्वकस्य द्रोहादेर्द्रुहादिधातुवाच्यत्वे तत्-कर्म्मणः संप्रदानत्वं द्रोहादिमात्रस्य तथात्वेतु कर्म्मत्वमेवेति पुनः कौमाराः । सोपसर्गयोस्तुक्रुधद्रुहोः कर्म्मणः कर्म्मतैव न तु संप्रदानताअतएव शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढे-त्यादौ कृद्योगे कर्म्मणि षष्ठ्येव प्रमाणम् ।”इति शब्दशक्तिप्रकाशिका ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
