समूहालम्बन (samUhAlambana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritसमूहालम्बन समूहमालम्बते विषयतया आ + लयि-ल्यु । नानाप्रकारतानिरूपितनानाविशेष्यताशालिनिज्ञाने । तत्र संशये नानाप्रकारतानिरूपिताया एकवि-शेष्यतायाः सत्त्वात् न समूहालम्बनत्वम् । धवखदिरौद्वावित्यादौ दण्डी कुण्डी च देवदत्त इत्यादौ वाक्यज-नितबाधस्यापि समूहालम्बनत्वं तत्रोभयनिंरूपितयोःविशेष्यतयोर्द्वयोरेवाङ्गोकारात् द्वन्द्वात्परश्रूयमाणशब्दस्यप्रत्येकान्वयनियमेन प्रथमार्थद्वित्वस्म प्रत्येकवृत्तित्वात्तच्च समवायेनैवेति बोध्यम् । अतएव शब्दचिन्तामणौमणिकृता धवखदिरपलाशांश्छिनत्तोत्यादौ प्रत्येककर्मतायाएव विभिन्नक्रियायावन्वय इत्युक्तम् । अत उक्तस्थलेविशेष्यताद्वयम् । धवखदिरौ द्वावित्यादावपि द्वित्वस्य समवायसम्बन्धेन धवादिवृत्तित्वात् विशेष्यताद्वयाङ्गीकारेऽपिनक्षत्यभावात् । तेनैव धवखदिरौ न द्वाविति प्रतीतिवा-रणसम्भवात् । घटं पटञ्च पश्यतीत्यादौ च दर्शनक्रियायांघटपटयोरन्वयसम्भवे तु न समूहालम्बनमिति भेदःइत्यादिबोध्यम् । यदि च आत्मघटयोर्नात्मत्वमित्यादिप्रयोगसाधुत्वार्थं पर्य्याप्तिसम्बन्धेनैव द्वित्वादेर्वोघोऽङ्गी-क्रियते तदा तस्य न समूहालम्बनत्वम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
