| YouTube Channel

समुद्रयानं (samudrayAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
समुद्रयानं,
क्ली,
(समुद्रस्य यानम् ।) पोतम् ।जाहाज इति भाषा यथा, --“पुनस्तत्रैव गमने बणिग्भावे मतिर्गता ।समुद्रयाने रत्नानि महामौल्यानि साधुभिः ।रत्नपारीक्षकैः सार्द्धमानयिष्ये बहूनि
एवं निश्चित्य मनसा महासार्थपुरःसरः ।समुद्रयायिभिर्लोकैः संविदं सूच्य निर्गतः
”इत्युपक्रम्य ।“शुकेन सह संप्राप्तो महान्तं लवणार्णवम् ।पोतारूढास्ततः सर्व्वे पोतवाहैरुपोषिताः
”इति वाराहे गोकर्णमाहात्म्यनामाध्यायः
(समुद्रगमनम् यथा, मनुः १५७ ।“समुद्रयानकुशला देशकालार्थदर्शिनः ।स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति
”)