| YouTube Channel

समुद्रः (samudraH)

 
Apte Hindi
Hindi
समुद्रः
पुं*
- सम् + उद् + रा +
"सागर, महासागर"
समुद्रः
पुं*
- सम् + उद् + रा +
शिव का विशेषण
समुद्रः
पुं*
- सम् + उद् + रा +
‘चार’ की संख्या
समुद्रः
पुं*
- -
अत्यन्त ऊँची संख्या
Wordnet
Sanskrit
Synonyms:
सागरः, समुद्रः, अर्णवः
noun
सागरवत् निर्मर्यादः निष्पारः च।
"सः करूणायाः सागरः अस्ति।"
Synonyms:
सागरः, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः, महाकच्छः, नदीकान्तः, तरीयः, द्वीपवान्, जलेन्द्रः, मन्थिरः, क्षौणीप्राचीरम्, मकरालयः, सरिताम्पतिः, जलधिः, नीरनिझिः, अम्बुधिः, पाथोन्धिः, पाधोधिः, यादसाम्पतिः, नदीनः, इन्द्रजनकः, तिमिकोषः, वारांनिधिः, वारिनिधिः, वार्धिः, वारिधिः, तोयनिधिः, कीलालधिः, धरणीपूरः, क्षीराब्धिः, धरणिप्लवः, वाङ्कः, कचङ्गलः, पेरुः, मितद्रुः, वाहिनीपतिः, गङगाधरः, दारदः, तिमिः, प्राणभास्वान्, उर्मिमाली, महाशयः, अम्भोनिधिः, अम्भोधिः, तरिषः, कूलङ्कषः, तारिषः, वारिराशिः, शैलशिविरम्, पराकुवः, तरन्तः, महीप्राचीरम्, सरिन्नाथः, अम्भोराशिः, धुनीनाथः, नित्यः, कन्धिः, अपान्नाथः
noun
भूमेः परितः लवणयुक्ता जलराशिः।
"सागरे मौक्तिकानि सन्ति।"
Tamil
Tamil
ஸமுத்3ர: : ஸாக3ர: = கடல், சிவன்.
अमरकोशः
Sanskrit
Word: समुद्रः
Root: समुद्र
Gender: पुं
Number: all
Meaning(s):
ocean
marked
sealed
stamped
sea [n]
having a stamp or seal
gathering together of waters
particular configuration of the stars and planets
Shloka(s):
1|10|1|1 समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। (वारिवर्गः)
1|10|1|2 उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥ (वारिवर्गः)
1|10|2|1 रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः। (वारिवर्गः)
Synonym(s):
1|10|1|1 समुद्रः (समुद्र) (पुं) ocean, marked, sealed, stamped, sea [n], having a stamp or seal, gathering together of waters, particular configuration of the stars and planets
1|10|1|1 अब्धिः (अब्धि) (पुं)
1|10|1|1 अकूपारः (अकूपार) (पुं) Sun, sea, ocean, tortoise, unbounded, mythical tortoise that upholds the world
1|10|1|1 पारावारः (पारावार) (पुं)
1|10|1|1 सरित्पतिः (सरित्पति) (पुं)
1|10|1|2 उदन्वान् (उदन्वत्) (पुं)
1|10|1|2 उदधिः (उदधि) (पुं) sea, river, ocean, cloud, holding water, water-receptacle
1|10|1|2 सिन्धवः (सिन्धु) (पुं) sea, ocean, flood, stream, king of Sindh, particular rAga, moisture of the lips, white or refined borax, country around the indus, symbolical term for the number 4, exudation from an elephant's temples, water ejected from an elephant's trunk
1|10|1|2 सरस्वान् (सरस्वत्) (पुं) sea, river, juicy, elegant, buffalo, sentimental, finding pleasure or delight in, abounding in or connected with ponds
1|10|1|2 सागरः (सागर) (पुं) sea, four, ocean, marine, sort of deer, sons of sagara, relating to the sea, particular high number, symbolical expression for the number
1|10|1|2 अर्णवः (अर्णव) (पुं) wave, four, flood, foaming, restless, agitated, foaming sea, ocean of air
1|10|2|1 रत्नाकरः (रत्नाकर) (पुं)
1|10|2|1 जलनिधिः (जलनिधि) (पुं)
1|10|2|1 यादःपतिः (यादःपति) (पुं)
1|10|2|1 अपाम्पतिः (अपाम्पति) (पुं)
Related word(s):
परा_अपरासंबन्धः समुद्रविशेषः
जातिः प्राकृतिकस्थानम्
अवयव_अवयवीसंबन्धः महातरङ्गः
शब्दकल्पद्रुमः
Sanskrit
समुद्रः,
पुं,
जलसमूहस्थानम् तस्य व्युत्पत्ति-र्यथा “चन्द्रोदयात् आपः सम्यगुन्दन्ति क्लिद्यन्तिअत्र चन्द्रोदयात् समुन्दयन्ति वा समुद्रः ।उन्दधी क्लेदे नाम्नीति रक् हसुङ् नलोप इतिनलोपः ।‘अपां चैव समुन्नेन समुद्र इति स्मृतः ।’इति वायुपुराणम्
मुद्रा मर्य्यादा तया सह वर्त्तते इति वा समुद्रः ।सम्यगुद्गतो रोऽग्निरत्र इति मुदं राति ददा-तीति डे मुद्राणि रत्नादीनि तैः सह वर्त्ततेइति वा ।” इति भरतः
तत्पर्य्यायः अब्धिः २अकूपारः पारावारः सरित्पतिः उद-न्वान् उदधिः सिन्धुः सरस्वान् ९सागरः १० अर्णवः ११ रत्नाकरह् १२ जल-निधिः १३ यादःपतिः १४ अपांपतिः १५ इत्य-मरः
महाकच्छः १६ नदीकान्तः १७तरीयः १८ द्वीपवान् १९ जलेन्द्रः २० मन्थिरः२१ क्षौणीप्राचीरम् २२ मकरालयः २३ ।इति जटाधरः
सरिताम्पतिः २४ जलधिः २५नीरनिधिः २६ नीरधिः २७ अम्बुधिः २८पाथोनिधिः २९ पाधोधिः ३० यादसाम्पतिः३१ नदीनः ३२ इन्दुजनकः ३३ तिमिकोषः ३४वारांनिधिः ३५ वारिनिधिः ३६ वार्द्धिः ३७वारिधिः ३८ तोयनिधिः ३९ कीलालधिः ४०धरणीपूरः ४१ क्षीराब्धिः ४२ धरणिप्लवः ४३वाङ्कः ४४ कचङ्गलः ४५ पेरुः ४६ मितद्रुः ४७वाहिनीपतिः ४८ गङ्गाधरः ४९ दारदः ५०तिमिः ५१ प्राणभास्वान् ५२ ऊर्म्मिमाली ५३महाशयः ५४ अम्भोनिधिः ५५ अम्भोधिः ५६तरिषः ५७ कूलङ्कषः ५८ तारिषः ५९ इतिशब्दरत्नावली
वारिराशिः ६० शैलशिवि-रम् ६१ पराकुवः ६२ तरन्तः ६३ महीप्राची-रम् ६४ इति त्रिकाण्डशेषः
पयोधिः ६५सरिन्नाथः ६६ अम्भोराशिः ६७ धुनीनाथह् ६८नित्यः ६९ कन्धिः ७० अपांनाथः ७१ अस्यजलगुणाः विस्रत्वम् लवणरक्तामयप्रद-त्वम् उष्णत्वम् वैवर्णदोषजनकत्वम् विशे-षाद्दाहार्त्तिपित्तकारित्वञ्च इति राजनिर्घण्टः
अपि ।“सामुद्रमुदकं क्षारं सर्व्वदोषप्रकोपणम्
”इति राजवल्लभः
मुद्रायुक्ते, त्रि
*
समुद्रो ब्रह्मणोमेढ्राज्जातः यथा, --“हृदि कामो भ्रुवोः क्रोधो लोभश्चाधरदच्छ-दात् ।आस्याद्वाक् सिन्धवो मेढ्रात् निरृतिः पायो-रघाश्रयः
”इति श्रीभागवते १२ १४
कल्पभेदे श्रीकृष्णौरसेन विरजागर्भजातः यथा, “श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ।उच्चै रुरोद विरजातीरे नीरमनोहरे
जलादुत्थाय चागच्छ विधाय तनु नूतनम् ।आजगाम हरेरग्रं साक्षाद्राधेव सुन्दरी
ताञ्च रूपवतीं दृष्ट्वा प्रेम्णोद्रेकां जगत्पतिः ।चकारालिङ्गनं तूर्णं चुचुम्ब मुहुर्मुहुः
नानाप्रकारशृङ्गारं विपरीतादिकं प्रभुः ।रहसि प्रेयसीं प्राप्य चकार पुनः पुनः
विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् ।सद्यो बभूव तत्रैव धन्या गर्भवती सती ।तस्थौ तत्र सुखासीना सार्द्धं पुत्रैश्च सप्तभिः
एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्जने ।विजहार पुनः साध्वी शृङ्गारासक्तमानसा
एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ।कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ।क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ
प्रबोध्य बालं सा साध्वी ददर्शान्तिके प्रियम् ।विललाप भृशं तत्र शृङ्गारातृप्तमानसा
शशाप स्वसुतं कोपात् लवणोदो भविष्यति ।कदापि ते जलं केन खादिष्यन्ति जीविनः
शशाप सर्व्वान् बालांश्च यान्तु मूढा महीतलम् ।गच्छध्वञ्च महीं मूढा जम्बुद्बीपं मनोहरम्
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक् पृथक् ।द्बीपे द्बीपे स्थितिं कृत्वा तिष्ठन्तु सुखिनः सुताः ।द्बीपस्थाभिर्नदीभिश्च सह क्रीडन्तु निर्जने
कनिष्ठो मातृशापाच्च लवणोदो बभूव ।कनिष्ठः कथयामास मातृशापञ्च बालकान्
आजग्मुर्दुःखिताः सर्व्वे मातृस्थानञ्च बालकाः ।श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम्
प्रणम्य मातुश्चरणं भक्तिनम्रात्मकन्धराः ।सप्तद्वीपे समुद्राश्च सप्त तस्थुर्विभागशः
कनिष्ठाद्बृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने ! ।लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः
एतेषाञ्च जलं पृथ्व्यां शस्यार्थञ्च भविष्यति ।व्याप्ताः समुद्राः सप्तैव सप्तद्वीपा वसुन्धराम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे अध्यायः
तस्य ह्रासवृद्धिकारणं यथा, --“अपां चैव समुद्रेकात् समुद्र इति संज्ञितः ।उदयतीन्दौ पूर्व्वे तु समुद्रः पूर्य्यते सदा
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमितेन वै ।आपूर्य्यमाणो ह्युदधिरात्मनैवाभिपूर्य्यते
ततो वै क्षीयमाणस्य स्वात्मन्येव क्षपां क्षयः ।उद्दीप्यन्तेऽग्निसंयोगात् उखास्वापो यथास्वयम्
तथा स्वतः समुद्रोऽपि वर्द्धते शशिनोदये ।अन्यूनानतिरिक्तास्ता वर्द्धन्त्यापो ह्रसन्ति
उदयास्तमयेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ।क्षयो वृद्धिश्च उदधेः सोमवृद्धिक्षयौ यथा
दशोत्तराणि पञ्चाहुरङ्गुलानां शतानि ।अपां वृद्धिः क्षयो दृष्टः समुद्राणान्तु पर्व्वसु
”इति मात्स्ये १०० अध्यायः
अन्यत् विष्णुपुराणे अध्याये द्रष्टव्यम्
*
समुद्रे वर्णनीयानि यथा, --“अब्धौ द्वीपाद्रिरत्नोर्म्मिपोतयादोजलप्लवाः ।विष्णुकुल्यागमश्चन्द्रादृद्धिरौर्व्वाङ्गपूरणम्
”इति कविकल्पलतायाम् स्तवके कुसुमम्
*
कलौ द्बिजानां समुद्रयात्रादिनिषेधो यथा, उद्बाहतत्त्वधृतबृहन्नारदीयवचनम् ।“ससुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।द्बिजानामसवर्णासु कन्यासूपयमस्तथा
देवरेण सुतोत्पत्तिर्मधुपर्के पशोर्व्वधः ।मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा
दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य ।दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ
महाप्रस्थानगमनं गोमेधञ्च तथा मखम् ।इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्मनीषिणः
”(केषाञ्चिमते कलावपि समुद्रयात्रास्वीकारेन दोषः
) क्षीरोदसमुद्रस्य मन्थनवृत्तन्तोयथा, भागवते -- १० ।“कृतस्थानविभागास्ते एवं कश्यपनन्दनाः ।ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम्
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन
ते सुनिर्व्विन्नमनसः परिम्लानमुखश्रियः ।आसन् सुपौरुषे नष्टे दैवेनातिबलीयसा
विलोक्य विघ्नेशविधिं तदेश्वरोदुरन्तवीर्य्योऽवितथाभिसन्धिः ।कृत्वा वपुः काच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार
तमुत्थितं वीक्ष्य कुलाचलं पुनःसमुद्यता निर्म्मथितुं सुरासुराः ।दधार पृष्ठेन लक्षयोजन-प्रस्तारिणा द्वीप इवापरो महान्
सुरासुरेन्द्रैर्भुजवीर्य्यवेपितंपरिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।बिभ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः
”तथा तत्रैव १८ -- १९ ।“निर्म्मथ्यमानादुदधेरभूद्बिषंमहोल्वणं हालाहलाह्वमग्रतः ।संभ्रान्तमीनोन्मकराहिकच्छपात्तिमिद्बिपग्राहतिमिङ्गिलाकुलात्
तदुग्रवेगं दिशि दिश्युपर्य्यधोविसर्पदुत्सर्पदसह्यमप्रति ।भीताः प्रजा दुद्रुवुरङ्ग सेश्वराअरक्षमाणाः शरणं सदाशिवम्
”तथा तत्रैव ३६ -- ४३ ।“तद्बीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।सर्व्वदेवसुहृद्देव इदमाह सतीं प्रियाम्
अहो वत भवान्येतत् प्रजानां पश्य वैशषम् ।क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम्
आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम्
प्राणैश्च प्राणिनः पान्ति साधवः क्षणभङ्गुरैः
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया
पुंसः कृपयतो भद्रे सर्व्वात्मा प्रीयते हरिः ।प्रीते हरौ भगवति प्रीयेऽहं सचराचरः
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ।एवमामन्त्र्य भगवान् भवानीं विश्वभावनः
तद्बिषं जग्धुमारेभे प्रभावज्ञान्वमोदत ।ततः करतलीकृत्य व्यापि हालाहलं विषम्
अभक्षयन्महादेवः कृपया भूतभावनः ।तस्यापि दर्शयामास स्ववीर्य्यं जलकल्मषः
यच्चकार गले नीलं तच्च साधोर्विभूषणम्
”तथा तत्रैव -- ।“पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः ।ममन्थुस्तरसा सिन्धुं हविर्द्धानी ततोऽभवत्तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः ।यज्ञस्य देवयानस्य मेध्याय हविषे नृप
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डरः ।तस्मिन् बलिः स्पृहाञ्चक्रे नेन्द्र ईश्वरशिक्षया
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् हिमवतो महीम्
ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः ।अभ्रमुप्रभृतयोऽष्टौ करिण्यस्त्वभवन्नृप
कौस्तुभाख्यमभूद्रत्नं पद्मरागं महोदधेः ।तस्मिन् मणौ स्पृहाञ्चक्रे वक्षोऽलङ्करणे हरिः
ततोऽभवत् पारिजातः सुरलोकविभूषणम् ।पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान्
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।रमण्यः सर्गिणां बल्गुगतिलीलावलोकनैः
ततश्चाविरभूत् साक्षात् श्रीरमा भगवत्परा ।रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा
तस्यां चक्रुः स्पृहां सर्व्वे ससुरासुरमानवाः ।रूपौदार्य्यवयोवर्णमहिमाक्षिप्तचेतसः
”तथा तत्रैव २५ ।“तस्याः श्रियस्त्रिजगतो जनको जनन्यावक्षोनिवासमकरोत् परमं विभूतेः ।श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेनयत्र स्थितैधयत साधिपतींस्तिलोकान्
”तत्रैव ३० -- ३६ ।“अथासीद्वारुणी देवी कन्या कमललोचना ।असुरा जगृहुस्तां वै हरेरनुमतेन ते
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः ।उदतिष्ठन्महाराज पुरुषः परमाद्भुतः
दोर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।श्यामलस्तरुणः स्रग्वी सर्व्वाभरणभूषितः
पीतवासा महोरस्कः मुमृष्टमणिकुण्डलः ।स्निग्धकुञ्चितकेशान्तसुभगः सिंहविक्रमः
अमृतापूर्णकलसं विभ्रद्वलयभूषितः ।स वै भगवतः साक्षाद्बिष्णोरंशांशसम्भवः
धन्वन्तरिरिति ख्यात आयुर्व्वेददृगीज्यभाक् ।तमालोक्यासुराः सर्व्वे कलसं चामृताभृतम्
लिप्सन्तः सर्व्ववस्तूनि कलसं तरसाहरन् ।नीयमानेऽसुरैस्तस्मिन् कलसेऽमृतभाजने ।विषण्णमानसा देवा हरिं शरणमाययुः
”तत्रैव ४१ ।“एतस्मिन्नन्तरे विष्णुः सर्व्वोपायविदीश्वरः ।योषिद्रूपमनिर्द्देश्यं दधार परमाद्भुतम्
”तत्रैव १२ ।“ततो गृहीत्वामृतभाजनं हरि-र्ब्बभाष ईषत्स्मितशोभया गिरा ।यद्यभ्युपेतः साध्वसाधु वाकृतं मया वो विभजे सुधामिमाम्
”तत्रैव २० ।“कल्पयित्वा पृथक्पड्क्तीरुभयेषां जगत्पतिः ।तांश्चोपवेशयामास स्वेषु स्वेषु पङ्क्तिषु
दैत्यान् गृहीतकलसो वञ्चयन्नुपसञ्चरैः ।दूरस्थान् पाययामास जरामृत्युहरां सुधाम्
”तत्रैव २४ ।“देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।प्रविष्टः सोममपिबच्चन्द्रार्काभ्याञ्च सूचितः
चक्रेण क्षुरधारेण जहार पिबतः शिरः ।हरिस्तस्य कबन्धस्तु सुधया प्लावितोऽपतत्
शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् ।यस्तु पर्व्वणि चन्द्रार्कावभिषावति वैरधीः
पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः ।पश्यतामसुरेन्द्राणां स्वरूपं जगृहे हरिः
”पाद्मे उत्तरखण्डे ६९ अध्यायेऽप्येवम्
(अन्त-रिक्षम् इति निघण्टुः
अस्य व्युत्-पत्तिर्यथा, तट्टीकायाम् “समुद्द्रवन्ति सङ्गताऊर्द्ध्वं द्रवन्ति गच्छन्त्यस्मादापो रश्मिभिराकृष्य-माणा आदित्यमण्डलम् समुत्-पूर्व्वात् द्रवते-र्गत्यर्थात् अन्येष्वपि दृश्यते इति अपादानेड-प्रत्यये टि-लोपे रूपम् यद्बा, संहताअभिद्रवन्त्येनमापो भौमरसलक्षणा वायुनाप्रेर्य्यमाणाः आदित्यमण्डलाद्बा वर्षाकालेरश्मिभिः प्रवर्त्तमानाः अत्र उदित्येष उप-सर्गोऽभीत्यर्थे वर्त्तते कर्मणि ड-प्रत्यय इतिविशेषः सम्मोदन्तेऽस्मिन् भूतानि अन्तरिक्ष-चारीणीति वा सम्पूर्वात् मुद हर्षे इत्यस्मात्स्फायितञ्चिवञ्चि इत्यादिना अधिकरणे रक्-प्रत्यये समो म-लोपे रूपम् यद्वा, सम्इत्येकीभावे उदकात् उच्छब्दः रो मत्वर्थीयः ।एकीभूतमुदकमस्मिन् विद्यते वर्षास्विति उदक-शब्दस्योद्भावश्छान्दसः यद्बा सम्पूर्वात् उन्दीक्लेदने इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिनाकर्त्तरि रक्-प्रत्यये कित्त्वान्नलोपे समुद्रः
”इति देवराजकृतनिर्व्वचनम्
)