| YouTube Channel

समासः (samAsaH)

 
Apte
English
समासः [samāsḥ], 1 Aggregation, union, composition.
Composition of words, a compound
(the principal kinds of compounds are four: द्वन्द्व, तत्पुरुष, बहुव्रीहि, and अव्ययीभाव q. q. v. v.).
Reconciliation, composition of differences.
A collection, an assemblage
यद्वविज्ञात- मिवाभूदित्येतासामेव देवतानां समासः Ch.
Up.*
6.4.7.
Whole, totality.
Contraction, conciseness, brevity
एष समासः सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम् Avimārakam 2
एष समासः, अद्यास्मि महासेनः Pratijñā.2.
Euphonic combination (संधि).
Completion, end
L.
D. B. (समासेन, समासतः means 'in short', 'briefly', 'succinctly'
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता
Ms.*
2.25
3.2
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
Bg.*
13.18
समासतः श्रूयताम्
V.*
2.)Comp. -अध्याहारः supplying an ellipsis in a compound.-अर्था a part of a stanza proposed to be completed (= समस्या q. v. ). -उक्तिः
f.
a figure of speech thus defined by Mammaṭa: परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः K.
P.*
1.
Apte 1890
English
समासः 1 Aggregation, union, composition.
2 Composition of words, a compound
(the principal kinds of compounds are four:
द्वंद्व, तत्पुरुष, बहुव्रीहि, and अव्ययीभाव q. q. v. v.).
3 Reconciliation, composition of differences.
4 A collection, an assemblage.
5 Whole, totality.
6 Contraction, conciseness, brevity.
7 Euphonic combination (संधि). (समासेन, समासतः means ‘in short’, ‘briefly’, ‘succinctly’
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms. 2. 25, 3. 20
Bg. 13. 18
समासतः श्रूयतां V. 2).
Comp.
अध्याहारः supplying an ellipsis in a compound.
अर्था a part of a stanza proposed to be completed (= समस्या q. v.)
उक्तिः f. a figure of speech thus defined by Mammaṭa:
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः K. P. 10.
Apte Hindi
Hindi
समासः
पुं*
- सम् + अस् + घञ्
"समष्टि, मिलाप, सम्मिश्रण"
समासः
पुं*
- सम् + अस् + घञ्
"शब्दरचना, समाहार, मिलाना "
समासः
पुं*
- सम् + अस् + घञ्
"पुनर्मिलन, मतभेद दूर करना"
समासः
पुं*
- सम् + अस् + घञ्
"संग्रह, संघात"
समासः
पुं*
- सम् + अस् + घञ्
"पूर्णता, समष्टि"
समासः
पुं*
- सम् + अस् + घञ्
"सिकुड़न, संहृति, संक्षिप्तता"
Shabdartha Kaustubha
Kannada
सम् + असु = समासः
पदविभागः - > नामपदम्
कन्नडार्थः - > ಸಂಗ್ರಹಿಸು /ಸಂಕ್ಷೇಪಿಸು
प्रयोगाः - > "सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥"
उल्लेखाः - > गीता० १८-५०
Wordnet
Sanskrit
Synonyms:
संक्षेपः, समासः, लाघवम्, संहातः
noun
संक्षेपस्य अवस्था।
"संक्षेपस्य प्रक्रियायां कदाचित् आवश्यकाः बिन्दवः अपि लेखे समाविष्टाः भवन्ति।"
Synonyms:
समासः
noun
सः विधिः यत्र समर्थयोः सुबन्तपदयोः समर्थानां सुबन्तपदानां वा परस्परसंबद्धत्वं दृश्यते तथा ऐकपद्यम् ऐकार्थ्यम् ऐकस्वर्यम् इति प्रयोजनत्रयं वर्तन्ते।
" अव्ययीभावः द्वन्द्वः बहुव्रीहिः तत्पुरुषः समासस्य चत्वारः विशेषाः सन्ति।"
Tamil
Tamil
ஸமாஸ: : சேர்க்கை, கலவை, கூட்டு, சுருக்கம்,
शब्दकल्पद्रुमः
Sanskrit
समासः,
पुं,
(सम् + अस् + घञ् ।) संक्षेपः ।(यथा, मनुः २०२ ।“सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् ।स्थापयेत् तत्र तद्बंश्यं कुर्य्याच्च समयक्रियाम्
”)समर्थनम् इति मेदिनी
समाहारः इतिहलायुधः
एकपद्यम् इति हेमचन्द्रः
सम-सनं पदयोः पदानां वा एकपदीकरणं समासः ।इति संक्षिप्तसारव्याकरणम्
षड्विधः ।द्वन्द्बः बहुव्रीहिः कर्म्मधारयः तत्पुरुषः४ द्विगुः अव्ययीभावः तेषां लक्षणंयथा भिन्नान्यैकार्थद्व्यादिसंख्याव्यादीनां च-ह-य-ष-ग-वाः इति मुग्धबोधव्याकरणम्
*
अपि ।“नाम्नां समासो युक्तार्थस्तत्स्था लोप्या विभ-क्तयः
”इति वैयाकरणाः
तस्य समान्यलक्षणं यथा ।अभिधानाश्रितलोपाभाववदन्यमध्यवर्त्तिविभक्ति-शून्यनाम-समुदायत्वं समासत्वम् तत्र कर्म्म-धारय-द्बिगुतत्पुरुष-बहुव्रीहि-द्बन्द्बाव्ययीभावाःषट् समासा भवन्ति तत्र कर्म्मधारयत्वं समास-नियतलक्षणाशून्यासंज्ञास्थसंख्यावाचक पूर्व्वपद-कान्यमध्यवर्त्तिविभक्तिशून्यतुल्याधिकरणपदसमु-दायत्वम् यथा नीलोत्पलमित्यादि
तत्र द्बिगुत्वम् समासाधीनलक्षणाशून्यमध्य-पदवर्त्तिविभक्ति-शून्यासंज्ञास्थसंख्यावाचक-पूर्व्व-पदक-तुल्याधिकरणनामसमुदायत्वम् चतद्धितार्थे विषयीभूते तद्धितार्थेऽभिधेये उत्तर-पदे वा समाहारे वाभिधेये भवति उत्तर-पदं पारिभाषिकं यत्पदघटितसमासान्तर्व्वर्त्तिद्बिगुस्थपदं तत् पदम् तेन पञ्चगावोधनानीत्येवासमस्तप्रयोगो तु पञ्चगवानिधनानि इति तद्धितार्थे विषयीभूते यथा पञ्चगर्गरूप्यः पञ्चब्राह्मण्यः पञ्चनापितिः द्बैना-विकमित्यादि तद्धितार्थेऽभिधेये यथा पञ्च-कपालः ओदनः समासस्य संस्कतोऽर्थः संस्कारेप्रयोज्यतासम्बन्धेन पञ्चकपालस्यान्वयो व्युत्पत्ति-वैचित्र्यात् तथा पञ्चकपालप्रयोज्यसंस्कारा-श्रयाभिन्न ओदनः तद्धितार्थस्य समासेनाभि-धानात् तद्धितप्रत्ययाः समाहारेऽभिधेये यथापञ्चगवं चतुष्पथं द्विपात्रं त्रिभुवनं चतुर्य्युगमित्या-दयः उत्तरपदे यथा पञ्चगवधनः इत्यादि
तत्पुरुषत्वन्तु समासाधीनलाक्षणिकविशेष-णपदकमध्यवर्त्तिविभक्ति-शून्यनामसमुदायत्वम् ।यथा राजपुरुषः कष्टाश्रितः पुरुषोत्तमः ।इत्यादि
समासप्रयुक्तलक्षणानियतोत्तरपदकसमासत्वंबहुव्रीहित्वम् समासाधीनलाक्षणिकविशेष्य-वाचकपदकमध्यवर्त्तिविभक्तिशून्यनामसमुदायत्वंवा सम्बन्धिलाक्षणिकत्वव्याप्योत्तरपदकत्वं वाबहुव्रीहित्वम् बहुव्रीहिश्च द्विविधः समा-नाधिकरणो व्यधिकरणश्च यथा चित्रगुः ।गृहधान्यकश्चैत्रः आरूढवानरो वृक्षः ।इत्यादि
स्वघटकीभूतप्रत्येकपदार्थान्वितार्थकसोत्तरविभ-क्तिकमध्यवर्त्ति विभक्तिशून्यनामसमुदायत्वं द्बन्द्ब-त्वम् यथा धवखदिरपलासांच्छिन्धि इति ।द्विविधो द्बन्द्बः इतरेतरयोगः समाहारश्च यत्रसमाहारस्यावयवार्थः प्रधानं तत्रेतरेतरयोगःद्बिवचनेऽपि तत्रैव यथा देवदत्तयज्ञदत्तौ ।धवखदिरपलासाः इति यत्र संहतिप्राधान्यंतत्र समाहारस्तत्रैकवचनं नपुंसकलिङ्गता ।यथा वाग्दृशदं हस्त्यश्वम् इत्यादि
समासप्रयुक्तलक्षणाशून्यावयवपूर्व्वपदकमध्य-वर्त्तिविभक्तिशून्यतत्पुरुषान्यनामसमुदायत्वं अ-व्ययीभावत्वम् यथा उपकुम्भं अघटं निर्म्म-क्षिकं अधिस्त्रि इत्यादि
इति समास-वादः
*
अन्यच्च यौगिकेषु समासं लक्षयति ।“यादृशस्य महावाक्यस्यान्तस्त्वादिनिजार्थके ।यादृशार्थस्य धीहेतुः समासस्तदर्थकः
”यादृशमहावाक्योत्तरः त्वतलादिः स्वार्थस्य यादृ-शार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशंतद्वाक्यं तथाविधार्थे समासः विभजते ।“स चायं षड्विधः कर्म्मधारयादिप्रभेदतः ।यश्चोपपदसंज्ञोऽन्यस्तेनासौ सप्तधा मतः
पूर्व्वमध्यान्त्यसर्व्वान्यपदप्राधान्यतः पुनः ।प्राच्यैः पञ्चविधः प्रोक्तः समासो वा भटादिभिः
”तेषु कर्म्मधारयं लक्षयति ।“क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।तादात्म्येन भवेदेष समासः कर्म्मधारयः
”क्रमिकं यन्नामद्वयं तयोरेकस्य नान्मोऽर्थे धर्म्मिणितादात्म्येनापरनाम्नोऽर्थस्य अन्वयबोधं प्रतिसमर्थं तादृशनामद्वयं कर्म्मधारयः यथानीलोत्पलम्
द्विगुं लक्षयति ।“संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् ।अभेदेनैव यत् स्वार्थे द्बिगुस्त्रिवधो मतः
”संख्यावच्छिन्नशक्त-यत्-पदोत्तरत्वविशिष्टयन्नाम-स्वार्थधर्म्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधंप्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदल-क्ष्यार्थाभिन्नस्यार्थे द्विगुरुच्यते तत्र तद्धितार्थ-द्बिगुं लक्षयति ।“तद्धितार्थान्वितस्वार्थस्तद्धितार्थद्विगुर्म्मतः ।तद्धितार्थे लाक्षणिकस्वान्त्यनाम त्वसर्व्वगः
यो द्विगुः उत्तरतद्धितार्थान्वितस्वार्थकः
”उत्तरपदद्बिगुं लक्षयति ।“स्वान्तर्निविष्टशब्दाभ्यां शब्दान्तरसमासगः ।यो द्बिगुः शाब्दिकैरुक्तः उत्तरपदद्बिगुः
”यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्षनामा-न्तरेण समासस्यान्तर्गतः उत्तरपदद्विगुः ।यथा पञ्चगवधनः समाहारद्विगुं लक्षयति ।“स्वार्थान्वितसमाहारलक्षकः स्वान्त्यशब्दकः ।उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः
”स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्य-शब्दः द्विगुः समाहारद्विगुः यथा पञ्चपुली-त्यादि
तत्पुरुषं लक्षयति ।“यदीयेन सुबर्थेन युतयद्बोधनक्षमः ।यः समासस्तस्य तत्र तत्पुरुष उच्यते
”यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्यान्वय-बोधं प्रति यः समासः स्वरूपयोग्यः तदर्थस्यतदर्थे तत्पुरुषः तु यन्नामोत्तरं यन्नामयदर्थगतसुबर्थावच्छिन्नस्य यत् स्वार्थस्य बोधकंतदुत्तरतन्नामैव तदर्थयोस्तत्पुरुषः पूर्व्वकायो-ऽर्द्धपिप्पलीत्यादावव्याप्तेः विभजते ।“द्वितीयादिसुबर्थस्य भेदादेव षड्विधः ।क्रियान्वयी द्धितीयादेरर्थः प्रायोऽत्रयोजितः
अव्ययीभावं लक्षयति ।“उत्तरार्थान्वितस्वार्थाव्ययपूर्व्वस्तु यो भवेत् ।समासः सोऽव्ययीभावः स्त्रीपुंलिङ्गविवर्जितः
”यः समासः सोऽत्तरपदोपस्थाप्येन यदर्थेनान्वि-तस्य यदर्थस्य बोधकाव्ययपूर्व्वभागकः तद्वि-शिष्टस्य तदर्थस्य बोधने अव्ययीभावः यथानिर्मक्षिकं उपकुम्भमित्यादि ।“अमादेशं विना श्रूयमाणषष्ठी बोधिका ।स्वार्थे यदर्थस्य यद्बा सोऽव्ययीभाव इष्यते
”अमादेशं विना श्रूयमाणषष्ठी स्वार्थे यत् समा-सार्थस्यान्वयबोधं प्रत्यसमर्था एव वाव्ययी-भावः श्रूयमाणैव षष्ठी स्वार्थे समासान्तरार्थ-स्यान्वयबोधनेऽसमर्था तु लुप्तापि
बहुव्रीहिं लक्षयति ।“बहुव्रीहिः स्वगर्भार्थसम्बन्धित्वेन बोधकः ।निरूढया लक्षणया स्वांशज्ञापकशब्दवान्
”स्वांशस्य निरूढलक्षणया ज्ञापकेन शब्देनघटितः स्वगर्भस्य यादृशार्थस्य सम्बन्धित्वप्रकारे-णान्वयबोधं प्रति समर्थः समासः स्वगर्भतादृ-शार्थसम्बन्धिबोधने बहुव्रीहिः ।“अस्यैकं प्रथमान्तं सत् सुबन्तैरितरैः सह ।यदा भेदसुबन्तेन साकाङ्क्ष नाम विग्रहः
”अस्य बहुव्रीहेर्घटकमेकं नाम प्रथमान्तं सत्सुबन्तेरितरनामभिः सह भेदार्थकसुबन्तयच्छ-ब्देन साकाङ्क्षं विग्रहः कथ्यते बहुव्रीहिं विभ-जते ।“तदतद्गुणसंविज्ञानौ द्बौ भेदौ तदादिमः ।विग्रहस्य विशेष्यो यस्तद्बिशेष्यकबोधकृत्
”तत्र विग्रहवाक्यस्य विशेष्यविधया प्रत्याय्योयोऽर्थस्तद्विशेष्यकबोधकृत् बहुव्रीहिस्तयोरा-दिमः तद्गुणसंविज्ञानः तस्य स्वार्थगुणी-भूतस्य सम्यग्विशेष्यविधया विज्ञानं यस्मिन्नितिव्युत्पत्त्या स्वार्थान्वयः संज्ञात्वात् तद्भिन्नश्चा-तद्गुणसंविज्ञानश्चरम इत्यर्थादवगम्यते ।प्राचां मतेन तद्गुणसंविज्ञानबहुव्रीहिमन्यथानिर्व्वक्ति ।“यः स्वार्थघटकार्थस्य स्वार्थान्धयिनि बोधने ।अनुकूलो बहुव्रीहिः तयोरथवादिमः
”यो बहुवीहिः स्वार्थस्यान्वयिनि स्वार्थघटक-स्याप्यर्थस्यान्वयबोधने समर्थः तयोस्तद्-गुणातद्गुणयोरादिमः लम्बकर्णमानय हार-ग्रीवं पश्य इत्यादि पुनर्विभजते ।“स्वान्तर्निविष्टद्बित्र्यादिनामभिर्विग्रहात् पुनः ।बहुव्रीहिर्ब्बहुविधो द्बिपदत्रिपदादिकः
”द्वित्रिचतुरादिभिरेव स्वघटकनामभिर्विग्रह-वशात् द्विप्दत्रिपदचतुष्पदादिको बहुव्रीहि-र्ब्बोध्यः
द्बन्द्बं लक्षयति ।“यद्यदर्थकयन्नामव्यूहो यद्यत्प्रकारके ।बोधे समर्थः द्बन्द्बः समासस्तावदर्थकः
”यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्यनिश्चयस्तदर्थप्रकारकान्वयवोधं प्रति तत्त्वेनसमर्थस्तादृशनामनिवह एव तावदर्थको द्बन्द्ब-समासः द्बन्द्बं विभजते ।“द्वौ भेदावस्य शास्त्रोक्तौ समाहारेतरेतरौ ।एकान्यवचनाकाङ्क्षा हानोपादानतश्च तौ
”अस्य द्वन्द्बस्य द्वौ भेदौ समाहार इतरेतरश्चशास्त्रसिद्धौ तत्रैकवचनान्यसुवाकाङ्क्षाविहीनःसमाहारः तथाविधसुवाकाङ्क्षश्चेतरेतरः ।यथा पाणिपादं हस्त्यश्वं धवखदिरौ ।इत्यादि
उपपदसमासं लक्षयति ।“यदुत्तरपदं नामानुत्तरं यदबोधकम् ।धातुकृज्जमुपपदसमासः तदन्तकः
”धातुकृद्भ्यां निष्पन्नं यस्योत्तरपदं शब्दानुत्तरंस यादृशार्थस्य बोधं प्रत्यसमर्थं तादृशार्थे तादृ-शार्थकान्त्यपदकः समास उपपदसंज्ञकः कुम्भ-कारः क्षीरपायीत्यादि विभजते ।“कारकैकोपपदकः षड्विधोऽयमिति भ्रमः ।कर्म्मकर्त्राद्युपपदभेदात् बहुविधस्त्वसौ
इति शब्दशक्तिप्रकाशिका