| YouTube Channel

समावृत्तः (samAvRttaH)

 
Apte
English
समावृत्तः [samāvṛttḥ] समावृत्तकः [samāvṛttakḥ], समावृत्तकः A pupil who has returned home after finishing his course of holy study.
Apte 1890
English
समावृत्तः, समावृत्तकः A pupil who has returned home after finishing his course of holy study.
Apte Hindi
Hindi
समावृत्तः
पुं*
- सम् + + वृत + क्त
वह ब्रह्मचारी जो अपना वेदाध्ययन समाप्त करके घर लौट आया है
शब्दकल्पद्रुमः
Sanskrit
समावृत्तः,
पुं,
(सम् + + वृत् + क्तः ।) वेदा-ध्ययननिवृत्तः तत्पर्य्यायः लब्धानुज्ञः ।इत्यमरः
साङ्गवेदाध्ययनानन्तरं त्वमिदानींगृहस्थो भव इति गार्हस्थ्याय प्राप्तानुमतिःसमावृत्त उच्यते समावर्त्तते अध्ययनान्निवर्त्ततेइति समाङ्पूर्व्वात्वृतेः कर्त्तरि क्ते समावृत्तः ।इति भरतः
“अतः परं समावृत्तः कुर्य्याद्दारपरिग्रहम् ।”इति उद्वाहतत्त्वञ्च
*
तस्य सर्व्वाशौचे मुण्डनं यथा अशौचाधिकारेआपस्तम्बः अनुभाविनाञ्च परिवापनमिति ।अनुभाविनां स्वाशौचमनुभवतां समावृत्तानांसर्व्वाशौचे मुण्डनम् यत् पुनरापस्तम्बः नसमावृत्ता वपेयुरन्यत्र वीहारादित्येके वीहा-रात् दर्शपौर्णमासाङ्गयागविशेषादन्यत्र समा-वृत्ता गृहस्था वपेयुः इत्येकेषां मतम् तत्काम्यपरम् इति शुद्धितत्त्वम्