समावर्त्तनं (samAvarttanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritसमावर्त्तनं, (सम् + आ + वृत् + ल्युट् ।)वेदाध्ययनानन्तरं गार्हस्थाधिकारप्रयोजकंकर्म्म । यथा । “अथ समावर्त्तनम् । ज्योतिषे ।‘भौमभानुजयोर्व्वारे नक्षत्रे च व्रतोदिते ।ताराचन्द्रविशुद्धौ च समावर्त्तनमिष्यते ॥
’गोभिलः । अथाप्लवनम् । अथ व्रतानन्तर-माप्लवनं स्नानं कुर्य्यादिति शेषः । उत्तरतःपुरस्तादाचार्य्यकुलस्य परिव्रतं भवति ।आचार्य्यगृहादुत्तरस्यां पूर्व्वस्यां वा स्नानार्थ-मावृतं स्नानं कुर्य्यात् । अत्र प्रागग्रेषु दर्भेषुउदगाचार्य्य उपविशति तत्रावृते उदक्उदङ्मुखः प्राक् ब्रह्मचार्य्युदगग्रेषु दर्भेषु । प्राक्प्राङ्मुख उपविशतीत्यन्वयः । सर्व्वौषधि-विर्फाण्डाभिरद्भिर्गन्धवतीभिः शीतोष्णाभिरा-चार्य्योऽभिषिञ्चेत् । सर्व्वौषधयश्च ।‘व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः ।यवाश्चौषधयः सप्त विपदो घ्नन्ति धारिताः ॥
’इति छन्दोगपरिशिष्टोक्तास्ताभिः सह याआपो विर्फाण्डा विपक्वा उष्णीकृतास्ताः सर्व्वौ-षधिविर्फाण्डास्ताभिर्गन्धवतीभि-श्चन्दनादि-गन्ध-द्रव्ययुक्ताभिः शीतोष्णाभिः शीतोदकमिश्रि-ताभिरिति भट्टभाष्यम् ॥
स्वयमिव तु मन्त्रवर्णोभवति । इवशब्द एवार्थे । स्वयमेव ब्रह्मचारीअत्मानमभिषिञ्चेत् । आचार्य्यकर्त्तृकाभिषेकस्तुपरमतो यतो मन्त्रवर्णा भवन्ति । मन्त्रवर्णःअभिषेकमन्त्रलिङ्गं तच्च तेनाहं मामभिषिञ्चामिइति तेन मामभिषिञ्चितमिति च । तद्विधि-माह । येऽप्स्वन्तरग्नयः प्रविष्टा इत्यपामञ्जलि-मवसिञ्चति । येऽप्स्वन्तरग्नय इति मन्त्रेणकासामपामञ्जलिं ब्रह्मचारी अवसिञ्चति । क्वभूमौ कुतः अवसिञ्चति वचनात् । तन्मन्त्रस्था-भिहितान् सृजामीति यदपामिति मन्त्रस्याभि-हितान् सृजामि इति मन्त्रलिङ्गद्वयाच्च सर्व्वा-धारत्वेन प्राप्तायां भूमौ त्यजति । यदपां घोरंयदपां क्रूरं यदपामशान्तमिति च । अपाम-ञ्जलिमवसिञ्चतीति वर्त्तते चकारात् । यो रोचन-स्तमिह गृह्णामीत्यात्मानमभिषिञ्चति । प्रकृ-तानामपामञ्जलिना यो रोचन इति मन्त्रेणब्रह्मचारी आत्मानमभिषिञ्चति । ओम् यशसेतेजते इति च । आत्मानमभिषिञ्चतीति वर्त्तते ।येन स्त्रियमकृण्वतमिति च । आत्मानमभिषि ञ्च-तीति वर्त्तते । तूष्णीं चतुर्थम् । आत्मानमभि षिञ्च-तीति वर्त्तते । अभिषेकः शिरसि कर्त्तव्यः शिरःप्रधानमङ्गानामिति वचनात् । उपोत्थाया-दित्यमुपतिष्ठेत उद्यन् भ्राजभृष्टिभिरित्येतत्-प्रभृतिमन्त्रेण । आचार्य्यसमीपादुत्थाय उद्य-न्नित्येतत्प्रभृतिमन्त्रेण मा हिंसीरित्यन्तमन्त्रेणा-दित्यमुपतिष्ठेत उपान्मन्त्रेण चेत्यात्मनेपदम् ।मेखलामवमुञ्चते उदुत्तमं वरुणमिति । अव-मुञ्चते अधस्तादवतारयति अवशब्दो अधस्ता-दर्थे । ब्राह्मणान् भोजयित्वा स्वयं भुक्त्वा केश-श्मश्रुरोमनखानि वापयतीति शिखावर्ज्जम् ।ब्राह्मणान् भोजयित्वा स्वयं भुक्त्वा नापितेनमुण्डयीत । अत्र शिखावर्ज्जमिति वचनात्प्राक् सशिखं वपनमिति दर्शयति । उक्तञ्च ।सशिखं वपनं कार्य्यमास्नानात् ब्रह्मचारिणाइति । स्नात्वा अलङ्कृत्याहते वाससी परिधायस्रजमावध्नीत श्रीरसि मयि रमस्वेति । अलङ्कृत्यकुण्डलादिनात्मानं योजयित्वा आहते ।‘ईषद्धौतं नवं शुभ्रं सदृशं यन्न धारितम् ।आहतं तद्विजानीयात् सर्व्वकर्म्मसु पावनम् ॥
’इति वशिष्ठोक्तलक्षणे ।ईषत् सूक्ष्मम् । न धारितं न परिधानादि कृतम् ।स्रजं ग्रथितपुष्पं आवध्नीत शिरसीति शेषः ।श्रीरसीति मन्त्रेण । नेत्रौ स्थो नयतं मामित्यु-पानहौ । आवध्नीतेत्यनुवर्त्तते । उपानहौ चर्म्म-पादुके योग्यत्वात् पादयोः । गन्धर्व्वोऽसीतिमन्त्रेण वैणवं दण्डं गृह्णाति । वैणवं वंशप्रभवंगन्धर्व्वोऽसीति मन्त्रेण । आचार्य्यं सपरिषत्क-मभ्येत्याचार्य्यपरिषदमीक्षते । यक्षमिव चक्षुषःप्रियो वो भूयासमिति । सपरिषत्कं शिष्यादि-सभासहितं अभ्येत्याभिमुखेन गत्वा आचार्य्यंपरिषदञ्चेक्षते यक्षमिति मन्त्रेण । उपोपविश्यमुख्यान् प्राणान् संस्पृशन् ओष्ठापिधाना नकु-लीति उपाचार्य्यसमीपे मुख्यान् प्राणान् मुख-प्रभवान् वायून् संस्पृशन् स्नातकः । ओष्ठापि-धानमिति मन्त्रं जपेत् । अत्रैनमाचार्य्योऽर्ह-येत् । अत्रावसरे एनं स्नातकं विवाहोक्तवरा-र्हणविधिनार्च्चयेत् । तदशक्तौ गन्धपुष्पाभ्याम् ।गोयुक्तं रथमुपक्रम्य पक्षसी कूवरवाक्रूराभि-मृषेत् । वनस्पतिविड्वङ्गो हि भूया इति ।पक्षसी चक्र । कूवरं रथिकस्थानम् । वाक्रूरंरथरेखेत्यर्थः । वनस्पतीति मन्त्रेणाभिमृषेत्स्पृशेत् । आस्था ते जयतु जेत्वानीत्यातिष्ठति ।रथमारुह्य आस्था ते जयतु जेत्वानीति वन-स्पते इत्यादिमन्त्रस्य चतुर्थपादेनातिष्ठति । उप-विशति प्राग्वा उदग्वाभिप्रयाय प्रदक्षिण-मावृत्या उपयाति । तेन रथेन प्राङ्मुखो वाप्रयाय प्रकर्षेण गत्वा उपयाति आचार्य्य-समीपमागच्छति उपयातायार्घ्यमिति कोह-नीयाः । उपयातायाचार्य्यसमीपमागतायार्घ्यंदेयमिति कोहनीया आचार्य्या आहुः । रथा-भावेऽपि मन्त्रपाठाचारः । चरुकरणे तण्डुला-दाववघातादिवत् । अस्य कर्म्मणः समावर्त्तन-संज्ञापि ।‘गुरुणानुमतः स्नात्वा समावर्त्तो यथाविधि ।उद्वहेत द्विजो भार्य्यां सवर्णां लक्षणान्विताम् ॥
’इति मनूक्तेः ॥
स्पष्टं शौनककारिकायाम् । कुर्व्वीत स्वयमेवैतत्समावर्त्तनसंज्ञकम् ।” इति संस्कारतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
