| YouTube Channel

समानोदकः (samAnodakaH)

 
Apte Hindi
Hindi
समानोदकः
पुं*
समान-उदकः -
ऐसा सम्बन्धी जो समान पितरों को जल तर्पण के कारण संबद्ध है
शब्दकल्पद्रुमः
Sanskrit
समानोदकः,
पुं,
(समानं एकं तर्पणकाले देय-मुदकं यस्य ।) एकोदकः तु ज्ञाति-विशेषः तर्पणे समानं एकमुदकमस्य यथा, “जारो नङ्गः सगोत्रस्तु स्वजनज्ञातिबान्धवाः ।सकुल्यबन्धुदायादस्वसमानोदका अपि
”इति जटाधरः
तु चतुर्द्दशपुरुषपर्य्य्यन्तः जन्मनामस्मृति-पर्य्यन्तश्च तत्र आद्यस्यैकादशपुरुषावधि-चतुर्दशपुरुषपर्य्यन्तस्याशौचं पक्षिणी द्वितीय-स्यैकाहः यथा उदकक्रियामधिकृत्य पार-स्करः सर्व्वे ज्ञातयो भावयन्ति आसप्त-माद्दशमाद्वा समानग्रामवासेन यावत् सम्बन्ध-मनुस्मरेयुर्व्वा इति भावयन्ति निष्पादयन्तिअत्र यावत् सम्बन्धमनुस्मरेयुरेककुलजाता वय-मिति स्मरणं भवतीत्यनेनैव सर्व्वेषामुदकदानेप्राप्ते यदासप्तमाद्दशमादुक्तं तत्सन्निकर्षतार-तम्येनाशौचभेदेऽप्युदककर्म्म समानार्थमिति ।अशौचभेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्द-शाहः ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः ।तथा विष्णुबृहस्पती ।“दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके ।त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्तिगोत्रजाः
”ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्च जन्मना-मस्मृतिपर्य्यन्तमेकाहः तथा मिताक्षरा-विवादचिन्तामण्योर्ब्बृहन्मनुः ।“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात्
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते
”अत्र समानोदकत्वे द्विविघे पूर्व्वत्र गोतमःपक्षिणीमसपिण्डे परत्र हारीतः मातामहेत्रिरात्रं स्यादेकाहस्त्वसपिण्डके इति अत्रैवगोत्रजानामहः स्मृतमिति जावालवचनम्ततः परं सर्व्वथा समानोदकतानिवृत्तेः स्नान-मात्रमिति स्नात्वा शुध्यन्ति गोत्रजा इति बृह-स्पत्युक्तत्वादिति इति शुद्धितत्त्वम्