| YouTube Channel

समाधिस्थः (samAdhisthaH)

 
शब्दकल्पद्रुमः
Sanskrit
समाधिस्थः, त्रि, (समाधौ तिष्ठतीति स्था + कः ।)समाधियुक्तः यथा, --“मनः संकल्परहितमिन्द्रियार्थानचिन्तयन् ।यस्य ब्रह्मणि संलीनं समाधिस्थः कीर्त्तितः
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ।मनस्तल्लयतां याति समाधिस्थः कीर्त्तितः
”इति गारुडे गीतासारे २४० अध्यायः