| YouTube Channel

समाधानं (samAdhAnaM)

 
Apte 1890
English
समाधानं 1 Putting together, uniting.
2 Fixing the mind in abstract contemplation on the true nature of spirit.
3 Profound or abstract meditation, deep contemplation.
4 Intentness.
5 Steadiness, composure, peace (as of mind), satisfaction
चित्तस्य समाधानं, बुद्धेः समाधानं G. L. 18.
6 Clearing up a doubt, replying to the Pūrvapaksha
answering an objection.
7 Agreeing, promising.
8 (In dramas) A leading incident which unexpectedly gives rise to the whole plot.
शब्दकल्पद्रुमः
Sanskrit
समाधानं,
क्ली,
(सम् + + धा + ल्युट् ।)ब्रह्मणि मनःस्थिरीकरणम् चित्तैकाग्रम् तत्-पर्य्यायः अवधानम् प्रणिधानम् समाधिः४ इति हेमचन्द्रः
निगृहीतस्य मनसःश्रवणादौ तदनुगुणविषये समाधिः समा-धानम् इति वेदान्तसारः
इदानीं समा-धानं लक्षयति निगृहीतस्येति शब्दादि-विषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रवणादौतदनुगुणेषु तदुपकारकेषु अमानित्वादिसाधन-विषयेषु समाधिनैरन्तर्य्येण तच्चिन्तनं समा-धानमित्यर्थः इति तट्टीकासुबोधनी
(यथा, भागवते २८ ।“स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणा ।वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः
”)पूर्व्वपक्षस्योत्तरम् इति लोकप्रसिद्धम्
(नाट-काङ्गविशेषः यथा, साहित्यदर्पणे ३३८ ।“उपक्षेपः परिकरः परिन्यासो विजोभनम् ।युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।उद्भेदः करणं मेद एतान्यङ्गानि वै मुखे
”तल्लक्षणादिकं यथा, तत्रैव ३४५ ।“बीजस्यागमनं यत्त तत् समाधानमुच्यते ।यथा, वेणीसंहारे ।नेपथ्ये भो भो विराटद्रुपदप्रभृतयः ! श्रूयताम् ।‘यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतंयद्विस्मर्त्तुमपीहितं शमवता शान्तिं कुलस्ये-च्छता ।तद्द्यूतारणिसम्भृतं नृपसुताकेशाम्बराकर्षणैःक्रोधज्योतिरिदं महत् कुरुबले यौधिष्ठिरंजृम्भते
’अत्र ‘सुस्था भवन्ति मयि जीवतीति’ आदि-बीजस्य प्रधाननायकाभिमतत्वेन सम्यगाहित-त्वात् समाधानम्
*
)