| YouTube Channel

समवकारः (samavakAraH)

 
Apte
English
समवकारः [samavakārḥ], A kind of drama: (thus described in S. D.: वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् संधयो निर्विमर्शास्तु त्रयो$ङ्काः
&c.
515.).
Apte 1890
English
समवकारः A kind of drama
(thus described in S. D.:
वृत्तं समवकारे तु ख्यातं देवासुराश्रयं संधयो निविंमर्शास्तु त्रयोंकाः &c. 515).
Apte Hindi
Hindi
समवकारः
पुं*
- सम् + अव् + कृ + घञ्
नाटक का एक भेद
शब्दकल्पद्रुमः
Sanskrit
समवकारः,
पुं,
(समवकीर्य्यन्ते बहवोऽर्था यस्मि-न्निति सम् + अव + कृ + घञ् ।) नाटकभेदः ।यथा, --“स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवकारो विथ्यङ्केहामृगा इति ।अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता-दिकाः
”इति हेमचन्द्रः
(तल्लक्षणादिकं यथा, --अथ समवकारः ।“वृत्तं समवकारे तु ण्यातं देवासुराश्रयम् ।सन्धयो निर्व्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे
सन्धी द्बावन्त्ययोस्तद्वदेक एको भवेत् पुनः ।नायका द्बादशोदात्ताः प्रख्याता देवदानवाः
फलं पृथक् पृथक् तेषां वीरमुख्योऽखिलो रसः ।वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ
वीथ्यङ्गानि तत्र स्युर्यथालाभं त्रयोदश ।गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि
त्रिशृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः ।वस्तु द्बादशनाडीभिर्निष्पाद्यं प्रथमाङ्कगम्
द्बितीयेऽङ्के तिसृभिर्द्बाभ्यामङ्के तृतीयके
नाडिका षटिकाद्बयमुच्यते बिन्दुप्रवेशकौ चनाटकोक्तावपि नेह विधातव्यौ तत्र ।धर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः ।स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः
अचेतनैश्चेतनैश्च चेतनाचेतनैः कृतः
तत्र शास्त्राविरोधेन कृतो धर्म्मशृङ्गारः अर्थ-लाभार्थकल्पितः अर्थशृङ्गारः प्रहसन-शृङ्गारः कामशृङ्गारः तत्र कामशृङ्गारःप्रथमाङ्क एव अन्ययोस्तु नियम इत्याहुः ।चेतनाचेतना गजादयः समववीर्य्यन्ते बह-वोऽर्था अस्मिन्निति समवकारः यथा, समुद्र-मथनम् ।” इति साहित्यदर्पणे ५१५ -- ५१६
)